S.D. Human Development, Research & Training Center | श्रीमद्भगवद्गीता श्रीमद्भगवद्गीता | S.D. Human Development, Research & Training Center
सनातन धर्म मानव विकास शोध एवम् प्रशिक्षण केन्द्र
Sanatan Dharma Human Development, Research & Training Center
Tie-Ups
  • Amity Centre for Sanskrit and Indic Studies Amity University, Gurugram
  • Punjabi University, Patiala
  • Guru Nanak Girls College, Santpura, Yamunanagar
  • D.A.V. College For Girls, Yamunanagar
  • Mata Sundri Khalsa Girls College – Nissing, Karnal
  • D.A.V. College, Pehowa
  • M.P.N. College, Mullana

श्रीमद्भगवद्गीता

||ॐ श्री परमात्मने नमः ||

अथ प्रथमोऽध्यायः |   अर्जुनविषादयोगः

धृतराष्ट्र उवाच |

धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः |

मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय ||१-१||

सञ्जय उवाच |

दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा |

आचार्यमुपसंगम्य राजा वचनमब्रवीत् ||१-२||

पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् |

व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ||१-३||

अत्र शूरा महेष्वासा भीमार्जुनसमा युधि |

युयुधानो विराटश्च द्रुपदश्च महारथः ||१-४||

धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् |

पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुंगवः ||१-५||

युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् |

सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ||१-६||

अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम |

नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते ||१-७||

भवान्भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः |

अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च ||१-८||

अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः |

नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ||१-९||

अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् |

पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ||१-१०||

अयनेषु च सर्वेषु यथाभागमवस्थिताः |

भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ||१-११||

तस्य सञ्जनयन्हर्षं कुरुवृद्धः पितामहः |

सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ||१-१२||

ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः |

सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् ||१-१३||

ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ |

माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः ||१-१४||

पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः |

पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ||१-१५||

अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः |

नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ||१-१६||

काश्यश्च परमेष्वासः शिखण्डी च महारथः |

धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः ||१-१७||

द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते |

सौभद्रश्च महाबाहुः शङ्खान्दध्मुः पृथक्पृथक् ||१-१८||

स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् |

नभश्च पृथिवीं चैव तुमुलोऽभ्यनुनादयन् ||१-१९||

अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान् कपिध्वजः |

प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः ||१-२०||

हृषीकेशं तदा वाक्यमिदमाह महीपते |

अर्जुन उवाच |

सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत ||१-२१||

यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान् |

कैर्मया सह योद्धव्यमस्मिन् रणसमुद्यमे ||१-२२||

योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः |

धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः ||१-२३||

सञ्जय उवाच |

एवमुक्तो हृषीकेशो गुडाकेशेन भारत |

सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् ||१-२४||

भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् |

उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति ||१-२५||

तत्रापश्यत्स्थितान्पार्थः पितॄनथ पितामहान् |

आचार्यान्मातुलान्भ्रातॄन्पुत्रान्पौत्रान्सखींस्तथा ||१-२६||

श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि |

तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान् ||१-२७||

कृपया परयाविष्टो विषीदन्निदमब्रवीत् |

अर्जुन उवाच |

दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् ||१-२८||

सीदन्ति मम गात्राणि मुखं च परिशुष्यति |

वेपथुश्च शरीरे मे रोमहर्षश्च जायते ||१-२९||

गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते |

न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः ||१-३०||

निमित्तानि च पश्यामि विपरीतानि केशव |

न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे ||१-३१||

न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च |

किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा ||१-३२||

येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च |

त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च ||१-३३||

आचार्याः पितरः पुत्रास्तथैव च पितामहाः |

मातुलाः श्वशुराः पौत्राः श्यालाः सम्बन्धिनस्तथा ||१-३४||

एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन |

अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते ||१-३५||

निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन |

पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः ||१-३६||

तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्स्वबान्धवान् |

स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ||१-३७||

यद्यप्येते न पश्यन्ति लोभोपहतचेतसः |

कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् ||१-३८||

कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम् |

कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन ||१-३९||

कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः |

धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत ||१-४०||

अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः |

स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्करः ||१-४१||

सङ्करो नरकायैव कुलघ्नानां कुलस्य च |

पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः ||१-४२||

दोषैरेतैः कुलघ्नानां वर्णसङ्करकारकैः |

उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः ||१-४३||

उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन |

नरके नियतं वासो भवतीत्यनुशुश्रुम ||१-४४||orनरकेऽनियतं

अहो बत महत्पापं कर्तुं व्यवसिता वयम् |

यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः ||१-४५||

यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः |

धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् ||१-४६||

सञ्जय उवाच |

एवमुक्त्वार्जुनः सङ्ख्ये रथोपस्थ उपाविशत् |

विसृज्य सशरं चापं शोकसंविग्नमानसः ||१-४७||

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु  ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे अर्जुनविषादयोगो नाम प्रथमोऽध्यायः ||१||

 

अथ द्वितीयोऽध्यायः |   साङ्ख्ययोगः

सञ्जय उवाच |

तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् |

विषीदन्तमिदं वाक्यमुवाच मधुसूदनः ||२-१||

श्रीभगवानुवाच |

कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् |

अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन ||२-२||

क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते |

क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप ||२-३||

अर्जुन उवाच |

कथं भीष्ममहं सङ्ख्ये द्रोणं च मधुसूदन |

इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन ||२-४||

गुरूनहत्वा हि महानुभावान्

श्रेयो भोक्तुं भैक्ष्यमपीह लोके |

हत्वार्थकामांस्तु गुरूनिहैव

भुञ्जीय भोगान् रुधिरप्रदिग्धान् ||२-५||

न चैतद्विद्मः कतरन्नो गरीयो

यद्वा जयेम यदि वा नो जयेयुः |

यानेव हत्वा न जिजीविषामस्-

तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः ||२-६||

कार्पण्यदोषोपहतस्वभावः

पृच्छामि त्वां धर्मसम्मूढचेताः |

यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे

शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ||२-७||

न हि प्रपश्यामि ममापनुद्याद्

यच्छोकमुच्छोषणमिन्द्रियाणाम् |

अवाप्य भूमावसपत्नमृद्धं

राज्यं सुराणामपि चाधिपत्यम् ||२-८||

सञ्जय उवाच |

एवमुक्त्वा हृषीकेशं गुडाकेशः परन्तप |

न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह ||२-९||

तमुवाच हृषीकेशः प्रहसन्निव भारत |

सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः ||२-१०||

श्रीभगवानुवाच |

अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे |

गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः ||२-११||

न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः |

न चैव न भविष्यामः सर्वे वयमतः परम् ||२-१२||

देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा |

तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति ||२-१३||

मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः |

आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत ||२-१४||

यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ |

समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते ||२-१५||

नासतो विद्यते भावो नाभावो विद्यते सतः |

उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः ||२-१६||

अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् |

विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति ||२-१७||

अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः |

अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत ||२-१८||

य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् |

उभौ तौ न विजानीतो नायं हन्ति न हन्यते ||२-१९||

न जायते म्रियते वा कदाचिन्

नायं भूत्वा भविता वा न भूयः |

अजो नित्यः शाश्वतोऽयं पुराणो

न हन्यते हन्यमाने शरीरे ||२-२०||

वेदाविनाशिनं नित्यं य एनमजमव्ययम् |

कथं स पुरुषः पार्थ कं घातयति हन्ति कम् ||२-२१||

वासांसि जीर्णानि यथा विहाय

नवानि गृह्णाति नरोऽपराणि |

तथा शरीराणि विहाय जीर्णा-

न्यन्यानि संयाति नवानि देही ||२-२२||

नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः |

न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ||२-२३||

अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च |

नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः ||२-२४||

अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते |

तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि ||२-२५||

अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् |

तथापि त्वं महाबाहो नैवं शोचितुमर्हसि ||२-२६||

जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च |

तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि ||२-२७||

अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत |

अव्यक्तनिधनान्येव तत्र का परिदेवना ||२-२८||

आश्चर्यवत्पश्यति कश्चिदेन-

माश्चर्यवद्वदति तथैव चान्यः |

आश्चर्यवच्चैनमन्यः शृणोति

श्रुत्वाप्येनं वेद न चैव कश्चित् ||२-२९||

देही नित्यमवध्योऽयं देहे सर्वस्य भारत |

तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि ||२-३०||

स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि |

धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते ||२-३१||

यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम् |

सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम् ||२-३२||

अथ चेत्त्वमिमं धर्म्यं संग्रामं न करिष्यसि |

ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि ||२-३३||

अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम् |

सम्भावितस्य चाकीर्तिर्मरणादतिरिच्यते ||२-३४||

भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः |

येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् ||२-३५||

अवाच्यवादांश्च बहून्वदिष्यन्ति तवाहिताः |

निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम् ||२-३६||

हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् |

तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः ||२-३७||

सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ |

ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि ||२-३८||

एषा तेऽभिहिता साङ्ख्ये बुद्धिर्योगे त्विमां शृणु |

बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि ||२-३९||

नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते |

स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् ||२-४०||

व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन |

बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम् ||२-४१||

यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः |

वेदवादरताः पार्थ नान्यदस्तीति वादिनः ||२-४२||

कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम् |

क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति ||२-४३||

भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम् |

व्यवसायात्मिका बुद्धिः समाधौ न विधीयते ||२-४४||

त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन |

निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् ||२-४५||

यावानर्थ उदपाने सर्वतः सम्प्लुतोदके |

तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः ||२-४६||

कर्मण्येवाधिकारस्ते मा फलेषु कदाचन |

मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि ||२-४७||

योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय |

सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते ||२-४८||

दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय |

बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः ||२-४९||

बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते |

तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम् ||२-५०||

कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः |

जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम् ||२-५१||

यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति |

तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च ||२-५२||

श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला |

समाधावचला बुद्धिस्तदा योगमवाप्स्यसि ||२-५३||

अर्जुन उवाच |

स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव |

स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम् ||२-५४||

श्रीभगवानुवाच |

प्रजहाति यदा कामान्सर्वान्पार्थ मनोगतान् |

आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते ||२-५५||

दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः |

वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते ||२-५६||

यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम् |

नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता ||२-५७||

यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः |

इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ||२-५८||

विषया विनिवर्तन्ते निराहारस्य देहिनः |

रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते ||२-५९||

यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः |

इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः ||२-६०||

तानि सर्वाणि संयम्य युक्त आसीत मत्परः |

वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता ||२-६१||

ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते |

सङ्गात्सञ्जायते कामः कामात्क्रोधोऽभिजायते ||२-६२||

क्रोधाद्भवति सम्मोहः सम्मोहात्स्मृतिविभ्रमः |

स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशात्प्रणश्यति ||२-६३||

रागद्वेषविमुक्तैस्तु विषयानिन्द्रियैश्चरन् | orवियुक्तैस्तु

आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति ||२-६४||

प्रसादे सर्वदुःखानां हानिरस्योपजायते |

प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते ||२-६५||

नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना |

न चाभावयतः शान्तिरशान्तस्य कुतः सुखम् ||२-६६||

इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते |

तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि ||२-६७||

तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः |

इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता ||२-६८||

या निशा सर्वभूतानां तस्यां जागर्ति संयमी |

यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः ||२-६९||

आपूर्यमाणमचलप्रतिष्ठं

समुद्रमापः प्रविशन्ति यद्वत् |

तद्वत्कामा यं प्रविशन्ति सर्वे

स शान्तिमाप्नोति न कामकामी ||२-७०||

विहाय कामान्यः सर्वान्पुमांश्चरति निःस्पृहः |

निर्ममो निरहङ्कारः स शान्तिमधिगच्छति ||२-७१||

एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति |

स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति ||२-७२||

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे

साङ्ख्ययोगो नाम द्वितीयोऽध्यायः ||२||

 

 

अथ तृतीयोऽध्यायः |   कर्मयोगः

अर्जुन उवाच |

ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन |

तत्किं कर्मणि घोरे मां नियोजयसि केशव ||३-१||

व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे |

तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् ||३-२||

श्रीभगवानुवाच |

लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयानघ |

ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम् ||३-३||

न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते |

न च संन्यसनादेव सिद्धिं समधिगच्छति ||३-४||

न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् |

कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः ||३-५||

कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् |

इन्द्रियार्थान्विमूढात्मा मिथ्याचारः स उच्यते ||३-६||

यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन |

कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते ||३-७||

नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः |

शरीरयात्रापि च ते न प्रसिद्ध्येदकर्मणः ||३-८||

यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः |

तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर ||३-९||

सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः |

अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् ||३-१०||

देवान्भावयतानेन ते देवा भावयन्तु वः |

परस्परं भावयन्तः श्रेयः परमवाप्स्यथ ||३-११||

इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविताः |

तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः ||३-१२||

यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः |

भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात् ||३-१३||

अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसम्भवः |

यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः ||३-१४||

कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् |

तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् ||३-१५||

एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः |

अघायुरिन्द्रियारामो मोघं पार्थ स जीवति ||३-१६||

यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः |

आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते ||३-१७||

नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन |

न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः ||३-१८||

तस्मादसक्तः सततं कार्यं कर्म समाचर |

असक्तो ह्याचरन्कर्म परमाप्नोति पूरुषः ||३-१९||

कर्मणैव हि संसिद्धिमास्थिता जनकादयः |

लोकसंग्रहमेवापि सम्पश्यन्कर्तुमर्हसि ||३-२०||

यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः |

स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते ||३-२१||

न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन |

नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि ||३-२२||

यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः |

मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ||३-२३||

उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् |

सङ्करस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः ||३-२४||

सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत |

कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसंग्रहम् ||३-२५||

न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् |

जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन् ||३-२६||

प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः |

अहङ्कारविमूढात्मा कर्ताहमिति मन्यते ||३-२७||

तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः |

गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते ||३-२८||

प्रकृतेर्गुणसम्मूढाः सज्जन्ते गुणकर्मसु |

तानकृत्स्नविदो मन्दान्कृत्स्नविन्न विचालयेत् ||३-२९||

मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा |

निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः ||३-३०||

ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः |

श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः ||३-३१||

ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् |

सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतसः ||३-३२||

सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि |

प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति ||३-३३||

इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ |

तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ ||३-३४||

श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् |

स्वधर्मे निधनं श्रेयः परधर्मो भयावहः ||३-३५||

अर्जुन उवाच |

अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः |

अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः ||३-३६||

श्रीभगवानुवाच |

काम एष क्रोध एष रजोगुणसमुद्भवः |

महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् ||३-३७||

धूमेनाव्रियते वह्निर्यथादर्शो मलेन च |

यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम् ||३-३८||

आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा |

कामरूपेण कौन्तेय दुष्पूरेणानलेन च ||३-३९||

इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते |

एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम् ||३-४०||

तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ |

पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनम् ||३-४१||

इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः |

मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः ||३-४२||

एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना |

जहि शत्रुं महाबाहो कामरूपं दुरासदम् ||३-४३||

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे

कर्मयोगो नाम तृतीयोऽध्यायः ||३||

अथ चतुर्थोऽध्यायः |   ज्ञानकर्मसंन्यासयोगः

श्रीभगवानुवाच |

इमं विवस्वते योगं प्रोक्तवानहमव्ययम् |

विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत् ||४-१||

एवं परम्पराप्राप्तमिमं राजर्षयो विदुः |

स कालेनेह महता योगो नष्टः परन्तप ||४-२||

स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः |

भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् ||४-३||

अर्जुन उवाच |

अपरं भवतो जन्म परं जन्म विवस्वतः |

कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति ||४-४||

श्रीभगवानुवाच |

बहूनि मे व्यतीतानि जन्मानि तव चार्जुन |

तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप ||४-५||

अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् |

प्रकृतिं स्वामधिष्ठाय सम्भवाम्यात्ममायया ||४-६||

यदा यदा हि धर्मस्य ग्लानिर्भवति भारत |

अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् ||४-७||

परित्राणाय साधूनां विनाशाय च दुष्कृताम् |

धर्मसंस्थापनार्थाय सम्भवामि युगे युगे ||४-८||

जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः |

त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन ||४-९||

वीतरागभयक्रोधा मन्मया मामुपाश्रिताः |

बहवो ज्ञानतपसा पूता मद्भावमागताः ||४-१०||

ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् |

मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः ||४-११||

काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः |

क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा ||४-१२||

चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः |

तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम् ||४-१३||

न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा |

इति मां योऽभिजानाति कर्मभिर्न स बध्यते ||४-१४||

एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः |

कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम् ||४-१५||

किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः |

तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ||४-१६||

कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः |

अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः ||४-१७||

कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः |

स बुद्धिमान्मनुष्येषु स युक्तः कृत्स्नकर्मकृत् ||४-१८||

यस्य सर्वे समारम्भाः कामसङ्कल्पवर्जिताः |

ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः ||४-१९||

त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः |

कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित्करोति सः ||४-२०||

निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः |

शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् ||४-२१||

यदृच्छालाभसन्तुष्टो द्वन्द्वातीतो विमत्सरः |

समः सिद्धावसिद्धौ च कृत्वापि न निबध्यते ||४-२२||

गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः |

यज्ञायाचरतः कर्म समग्रं प्रविलीयते ||४-२३||

ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम् |

ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना ||४-२४||

दैवमेवापरे यज्ञं योगिनः पर्युपासते |

ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति ||४-२५||

श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति |

शब्दादीन्विषयानन्य इन्द्रियाग्निषु जुह्वति ||४-२६||

सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे |

आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते ||४-२७||

द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे |

स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः ||४-२८||

अपाने जुह्वति प्राणं प्राणेऽपानं तथापरे |

प्राणापानगती रुद्ध्वा प्राणायामपरायणाः ||४-२९||

अपरे नियताहाराः प्राणान्प्राणेषु जुह्वति |

सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः ||४-३०||

यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम् |

नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्यः कुरुसत्तम ||४-३१||

एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे |

कर्मजान्विद्धि तान्सर्वानेवं ज्ञात्वा विमोक्ष्यसे ||४-३२||

श्रेयान्द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परन्तप |

सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते ||४-३३||

तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया |

उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः ||४-३४||

यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव |

येन भूतान्यशेषेण द्रक्ष्यस्यात्मन्यथो मयि ||४-३५||

अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः |

सर्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि ||४-३६||

यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन |

ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा ||४-३७||

न हि ज्ञानेन सदृशं पवित्रमिह विद्यते |

तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति ||४-३८||

श्रद्धावाँल्लभते ज्ञानं तत्परः संयतेन्द्रियः |

ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति ||४-३९||

अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति |

नायं लोकोऽस्ति न परो न सुखं संशयात्मनः ||४-४०||

योगसंन्यस्तकर्माणं ज्ञानसञ्छिन्नसंशयम् |

आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय ||४-४१||

तस्मादज्ञानसम्भूतं हृत्स्थं ज्ञानासिनात्मनः |

छित्त्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत ||४-४२||

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु

ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे

ज्ञानकर्मसंन्यासयोगो नाम चतुर्थोऽध्यायः ||४||

अथ पञ्चमोऽध्यायः |   संन्यासयोगः

अर्जुन उवाच |

संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि |

यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् ||५-१||

श्रीभगवानुवाच |

संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ |

तयोस्तु कर्मसंन्यासात्कर्मयोगो विशिष्यते ||५-२||

ज्ञेयः स नित्यसंन्यासी यो न द्वेष्टि न काङ्क्षति |

निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते ||५-३||

साङ्ख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः |

एकमप्यास्थितः सम्यगुभयोर्विन्दते फलम् ||५-४||

यत्साङ्ख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते |

एकं साङ्ख्यं च योगं च यः पश्यति स पश्यति ||५-५||

संन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः |

योगयुक्तो मुनिर्ब्रह्म नचिरेणाधिगच्छति ||५-६||

योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः |

सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते ||५-७||

नैव किञ्चित्करोमीति युक्तो मन्येत तत्त्ववित् |

पश्यञ्शृण्वन्स्पृशञ्जिघ्रन्नश्नन्गच्छन्स्वपञ्श्वसन् ||५-८||

प्रलपन्विसृजन्गृह्णन्नुन्मिषन्निमिषन्नपि |

इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् ||५-९||

ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः |

लिप्यते न स पापेन पद्मपत्रमिवाम्भसा ||५-१०||

कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि |

योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये ||५-११||

युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम् |

अयुक्तः कामकारेण फले सक्तो निबध्यते ||५-१२||

सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी |

नवद्वारे पुरे देही नैव कुर्वन्न कारयन् ||५-१३||

न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः |

न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते ||५-१४||

नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः |

अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः ||५-१५||

ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः |

तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम् ||५-१६||

तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः |

गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः ||५-१७||

विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि |

शुनि चैव श्वपाके च पण्डिताः समदर्शिनः ||५-१८||

इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः |

निर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणि ते स्थिताः ||५-१९||

न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियम् |

स्थिरबुद्धिरसम्मूढो ब्रह्मविद् ब्रह्मणि स्थितः ||५-२०||

बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत्सुखम् |

स ब्रह्मयोगयुक्तात्मा सुखमक्षयमश्नुते ||५-२१||

ये हि संस्पर्शजा भोगा दुःखयोनय एव ते |

आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः ||५-२२||

शक्नोतीहैव यः सोढुं प्राक्शरीरविमोक्षणात् |

कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः ||५-२३||

योऽन्तःसुखोऽन्तरारामस्तथान्तर्ज्योतिरेव यः |

स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति ||५-२४||

लभन्ते ब्रह्मनिर्वाणमृषयः क्षीणकल्मषाः |

छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः ||५-२५||

कामक्रोधवियुक्तानां यतीनां यतचेतसाम् |

अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् ||५-२६||

स्पर्शान्कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवोः |

प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ ||५-२७||

यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः |

विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः ||५-२८||

भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् |

सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति ||५-२९||

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु

ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे

संन्यासयोगो नाम पञ्चमोऽध्यायः ||५||

 

 

अथ षष्ठोऽध्यायः |   आत्मसंयमयोगः

श्रीभगवानुवाच |

अनाश्रितः कर्मफलं कार्यं कर्म करोति यः |

स संन्यासी च योगी च न निरग्निर्न चाक्रियः ||६-१||

यं संन्यासमिति प्राहुर्योगं तं विद्धि पाण्डव |

न ह्यसंन्यस्तसङ्कल्पो योगी भवति कश्चन ||६-२||

आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते |

योगारूढस्य तस्यैव शमः कारणमुच्यते ||६-३||

यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते |

सर्वसङ्कल्पसंन्यासी योगारूढस्तदोच्यते ||६-४||

उद्धरेदात्मनात्मानं नात्मानमवसादयेत् |

आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः ||६-५||

बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जितः |

अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् ||६-६||

जितात्मनः प्रशान्तस्य परमात्मा समाहितः |

शीतोष्णसुखदुःखेषु तथा मानापमानयोः ||६-७||

ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः |

युक्त इत्युच्यते योगी समलोष्टाश्मकाञ्चनः ||६-८||

सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु |

साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते ||६-९||

योगी युञ्जीत सततमात्मानं रहसि स्थितः |

एकाकी यतचित्तात्मा निराशीरपरिग्रहः ||६-१०||

शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः |

नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् ||६-११||

तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः |

उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये ||६-१२||

समं कायशिरोग्रीवं धारयन्नचलं स्थिरः |

सम्प्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् ||६-१३||

प्रशान्तात्मा विगतभीर्ब्रह्मचारिव्रते स्थितः |

मनः संयम्य मच्चित्तो युक्त आसीत मत्परः ||६-१४||

युञ्जन्नेवं सदात्मानं योगी नियतमानसः |

शान्तिं निर्वाणपरमां मत्संस्थामधिगच्छति ||६-१५||

नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नतः |

न चातिस्वप्नशीलस्य जाग्रतो नैव चार्जुन ||६-१६||

युक्ताहारविहारस्य  युक्तचेष्टस्य कर्मसु |

युक्तस्वप्नावबोधस्य योगो भवति दुःखहा ||६-१७||

यदा विनियतं चित्तमात्मन्येवावतिष्ठते |

निःस्पृहः सर्वकामेभ्यो युक्त इत्युच्यते तदा ||६-१८||

यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता |

योगिनो यतचित्तस्य युञ्जतो योगमात्मनः ||६-१९||

यत्रोपरमते चित्तं निरुद्धं योगसेवया |

यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति ||६-२०||

सुखमात्यन्तिकं यत्तद् बुद्धिग्राह्यमतीन्द्रियम् |

वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः ||६-२१||

यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः |

यस्मिन्स्थितो न दुःखेन गुरुणापि विचाल्यते ||६-२२||

तं विद्याद् दुःखसंयोगवियोगं योगसंज्ञितम् |

स निश्चयेन योक्तव्यो योगोऽनिर्विण्णचेतसा ||६-२३||

सङ्कल्पप्रभवान्कामांस्त्यक्त्वा सर्वानशेषतः |

मनसैवेन्द्रियग्रामं विनियम्य समन्ततः ||६-२४||

शनैः शनैरुपरमेद् बुद्ध्या धृतिगृहीतया |

आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत् ||६-२५||

यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् |

ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् ||६-२६||

प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् |

उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् ||६-२७||

युञ्जन्नेवं सदात्मानं योगी विगतकल्मषः |

सुखेन ब्रह्मसंस्पर्शमत्यन्तं सुखमश्नुते ||६-२८||

सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि |

ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः ||६-२९||

यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति |

तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ||६-३०||

सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः |

सर्वथा वर्तमानोऽपि स योगी मयि वर्तते ||६-३१||

आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन |

सुखं वा यदि वा दुःखं स योगी परमो मतः ||६-३२||

अर्जुन उवाच |

योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन |

एतस्याहं न पश्यामि चञ्चलत्वात्स्थितिं स्थिराम् ||६-३३||

चञ्चलं हि मनः कृष्ण प्रमाथि बलवद् दृढम् |

तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् ||६-३४||

श्रीभगवानुवाच |

असंशयं महाबाहो मनो दुर्निग्रहं चलम् |

अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते ||६-३५||

असंयतात्मना योगो दुष्प्राप इति मे मतिः |

वश्यात्मना तु यतता शक्योऽवाप्तुमुपायतः ||६-३६||

अर्जुन उवाच |

अयतिः श्रद्धयोपेतो योगाच्चलितमानसः |

अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति ||६-३७||

कच्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव नश्यति |

अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि ||६-३८||

एतन्मे संशयं कृष्ण छेत्तुमर्हस्यशेषतः |

त्वदन्यः संशयस्यास्य छेत्ता न ह्युपपद्यते ||६-३९||

श्रीभगवानुवाच |

पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते |

न हि कल्याणकृत्कश्चिद् दुर्गतिं तात गच्छति ||६-४०||

प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वतीः समाः |

शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते ||६-४१||

अथवा योगिनामेव कुले भवति धीमताम् |

एतद्धि दुर्लभतरं लोके जन्म यदीदृशम् ||६-४२||

तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् |

यतते च ततो भूयः संसिद्धौ कुरुनन्दन ||६-४३||

पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि सः |

जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते ||६-४४||

प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्बिषः |

अनेकजन्मसंसिद्धस्ततो याति परां गतिम् ||६-४५||

तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः |

कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन ||६-४६||

योगिनामपि सर्वेषां मद्गतेनान्तरात्मना |

श्रद्धावान्भजते यो मां स मे युक्ततमो मतः ||६-४७||

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु

ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे

आत्मसंयमयोगो नाम षष्ठोऽध्यायः ||६||

 

 

अथ सप्तमोऽध्यायः |   ज्ञानविज्ञानयोगः

श्रीभगवानुवाच |

मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः |

असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु ||७-१||

ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः |

यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते ||७-२||

मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये |

यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः ||७-३||

भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च |

अहंकार इतीयं मे भिन्ना प्रकृतिरष्टधा ||७-४||

अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् |

जीवभूतां महाबाहो ययेदं धार्यते जगत् ||७-५||

एतद्योनीनि भूतानि सर्वाणीत्युपधारय |

अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा ||७-६||

मत्तः परतरं नान्यत्किञ्चिदस्ति धनञ्जय |

मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव ||७-७||

रसोऽहमप्सु कौन्तेय प्रभास्मि शशिसूर्ययोः |

प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु ||७-८||

पुण्यो गन्धः पृथिव्यां च तेजश्चास्मि विभावसौ |

जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु ||७-९||

बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् |

बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम् ||७-१०||

बलं बलवतां चाहं कामरागविवर्जितम् |

धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ ||७-११||

ये चैव सात्त्विका भावा राजसास्तामसाश्च ये |

मत्त एवेति तान्विद्धि न त्वहं तेषु ते मयि ||७-१२||

त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगत् |

मोहितं नाभिजानाति मामेभ्यः परमव्ययम् ||७-१३||

दैवी ह्येषा गुणमयी मम माया दुरत्यया |

मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते ||७-१४||

न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः |

माययापहृतज्ञाना आसुरं भावमाश्रिताः ||७-१५||

चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन |

आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ ||७-१६||

तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते |

प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः ||७-१७||

उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम् |

आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम् ||७-१८||

बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते |

वासुदेवः सर्वमिति स महात्मा सुदुर्लभः ||७-१९||

कामैस्तैस्तैर्हृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः |

तं तं नियममास्थाय प्रकृत्या नियताः स्वया ||७-२०||

यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति |

तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ||७-२१||

स तया श्रद्धया युक्तस्तस्याराधनमीहते |

लभते च ततः कामान्मयैव विहितान्हि तान् ||७-२२||

अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम् |

देवान्देवयजो यान्ति मद्भक्ता यान्ति मामपि ||७-२३||

अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धयः |

परं भावमजानन्तो ममाव्ययमनुत्तमम् ||७-२४||

नाहं प्रकाशः सर्वस्य योगमायासमावृतः |

मूढोऽयं नाभिजानाति लोको मामजमव्ययम् ||७-२५||

वेदाहं समतीतानि वर्तमानानि चार्जुन |

भविष्याणि च भूतानि मां तु वेद न कश्चन ||७-२६||

इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत |

सर्वभूतानि सम्मोहं सर्गे यान्ति परन्तप ||७-२७||

येषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम् |

ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः ||७-२८||

जरामरणमोक्षाय मामाश्रित्य यतन्ति ये |

ते ब्रह्म तद्विदुः कृत्स्नमध्यात्मं कर्म चाखिलम् ||७-२९||

साधिभूताधिदैवं मां साधियज्ञं च ये विदुः |

प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः ||७-३०||

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु

ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे

ज्ञानविज्ञानयोगो नाम सप्तमोऽध्यायः ||७||

 

 

अथ अष्टमोऽध्यायः |   अक्षरब्रह्मयोगः

अर्जुन उवाच |

किं तद् ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम |

अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते ||८-१||

अधियज्ञः कथं कोऽत्र देहेऽस्मिन्मधुसूदन |

प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः ||८-२||

श्रीभगवानुवाच |

अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते |

भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः ||८-३||

अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम् |

अधियज्ञोऽहमेवात्र देहे देहभृतां वर ||८-४||

अन्तकाले च मामेव स्मरन्मुक्त्वा कलेवरम् |

यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः ||८-५||

यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम् |

तं तमेवैति कौन्तेय सदा तद्भावभावितः ||८-६||

तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च |

मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयः ||८-७||orसंशयम्

अभ्यासयोगयुक्तेन चेतसा नान्यगामिना |

परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् ||८-८||

कविं पुराणमनुशासितार-

मणोरणीयंसमनुस्मरेद्यः |

सर्वस्य धातारमचिन्त्यरूप-

मादित्यवर्णं तमसः परस्तात् ||८-९||

प्रयाणकाले मनसाऽचलेन

भक्त्या युक्तो योगबलेन चैव |

भ्रुवोर्मध्ये प्राणमावेश्य सम्यक्

स तं परं पुरुषमुपैति दिव्यम् ||८-१०||

यदक्षरं वेदविदो वदन्ति

विशन्ति यद्यतयो वीतरागाः |

यदिच्छन्तो ब्रह्मचर्यं चरन्ति

तत्ते पदं संग्रहेण प्रवक्ष्ये ||८-११||

सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च |

मूध्न्यार्धायात्मनः प्राणमास्थितो योगधारणाम् ||८-१२||

ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन् |

यः प्रयाति त्यजन्देहं स याति परमां गतिम् ||८-१३||

अनन्यचेताः सततं यो मां स्मरति नित्यशः |

तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः ||८-१४||

मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम् |

नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः ||८-१५||

आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन |

मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते ||८-१६||

सहस्रयुगपर्यन्तमहर्यद् ब्रह्मणो विदुः |

रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः ||८-१७||

अव्यक्ताद् व्यक्तयः सर्वाः प्रभवन्त्यहरागमे |

रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके ||८-१८||

भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते |

रात्र्यागमेऽवशः पार्थ प्रभवत्यहरागमे ||८-१९||

परस्तस्मात्तु भावोऽन्योऽव्यक्तोऽव्यक्तात्सनातनः |

यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति ||८-२०||

अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम् |

यं प्राप्य न निवर्तन्ते तद्धाम परमं मम ||८-२१||

पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया |

यस्यान्तःस्थानि भूतानि येन सर्वमिदं ततम् ||८-२२||

यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः |

प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ ||८-२३||

अग्निर्जोतिरहः शुक्लः षण्मासा उत्तरायणम् |

तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः ||८-२४||

धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् |

तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते ||८-२५||

शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते |

एकया यात्यनावृत्तिमन्ययावर्तते पुनः ||८-२६||

नैते सृती पार्थ जानन्योगी मुह्यति कश्चन |

तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन ||८-२७||

वेदेषु यज्ञेषु तपःसु चैव

दानेषु यत्पुण्यफलं प्रदिष्टम् |

अत्येति तत्सर्वमिदं विदित्वा

योगी परं स्थानमुपैति चाद्यम् ||८-२८||

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु

ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे

अक्षरब्रह्मयोगो नामाष्टमोऽध्यायः ||८||

 

 

अथ नवमोऽध्यायः |   राजविद्याराजगुह्ययोगः

श्रीभगवानुवाच |

इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे |

ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात् ||९-१||

राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् |

प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् ||९-२||

अश्रद्दधानाः पुरुषा धर्मस्यास्य परन्तप |

अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि ||९-३||

मया ततमिदं सर्वं जगदव्यक्तमूर्तिना |

मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः ||९-४||

न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् |

भूतभृन्न च भूतस्थो ममात्मा भूतभावनः ||९-५||

यथाकाशस्थितो नित्यं वायुः सर्वत्रगो महान् |

तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ||९-६||

सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् |

कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् ||९-७||

प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः |

भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात् ||९-८||

न च मां तानि कर्माणि निबध्नन्ति धनञ्जय |

उदासीनवदासीनमसक्तं तेषु कर्मसु ||९-९||

मयाध्यक्षेण प्रकृतिः सूयते सचराचरम् |

हेतुनानेन कौन्तेय जगद्विपरिवर्तते ||९-१०||

अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् |

परं भावमजानन्तो मम भूतमहेश्वरम् ||९-११||

मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः |

राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः ||९-१२||

महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः |

भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् ||९-१३||

सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः |

नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते ||९-१४||

ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते |

एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् ||९-१५||

अहं क्रतुरहं यज्ञः स्वधाहमहमौषधम् |

मन्त्रोऽहमहमेवाज्यमहमग्निरहं हुतम् ||९-१६||

पिताहमस्य जगतो माता धाता पितामहः |

वेद्यं पवित्रमोंकार ऋक्साम यजुरेव च ||९-१७||

गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत् |

प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम् ||९-१८||

तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च |

अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन ||९-१९||

त्रैविद्या मां सोमपाः पूतपापा

यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते |

ते पुण्यमासाद्य सुरेन्द्रलोक-

मश्नन्ति दिव्यान्दिवि देवभोगान् ||९-२०||

ते तं भुक्त्वा स्वर्गलोकं विशालं

क्षीणे पुण्ये मर्त्यलोकं विशन्ति |

एवं त्रयीधर्ममनुप्रपन्ना

गतागतं कामकामा लभन्ते ||९-२१||

अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते |

तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् ||९-२२||

येऽप्यन्यदेवता भक्ता यजन्ते श्रद्धयान्विताः |

तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् ||९-२३||

अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च |

न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते ||९-२४||

यान्ति देवव्रता देवान्पितॄन्यान्ति पितृव्रताः |

भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम् ||९-२५||

पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति |

तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः ||९-२६||

यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् |

यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् ||९-२७||

शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः |

संन्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि ||९-२८||

समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः |

ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् ||९-२९||

अपि चेत्सुदुराचारो भजते मामनन्यभाक् |

साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः ||९-३०||

क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति |

कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति ||९-३१||

मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः |

स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् ||९-३२||

किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा |

अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम् ||९-३३||

मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु |

मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः ||९-३४||

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु

ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे

राजविद्याराजगुह्ययोगो नाम नवमोऽध्यायः ||९||

 

 

अथ दशमोऽध्यायः |   विभूतियोगः

श्रीभगवानुवाच |

भूय एव महाबाहो शृणु मे परमं वचः |

यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया ||१०-१||

न मे विदुः सुरगणाः प्रभवं न महर्षयः |

अहमादिर्हि देवानां महर्षीणां च सर्वशः ||१०-२||

यो मामजमनादिं च वेत्ति लोकमहेश्वरम् |

असम्मूढः स मर्त्येषु सर्वपापैः प्रमुच्यते ||१०-३||

बुद्धिर्ज्ञानमसम्मोहः क्षमा सत्यं दमः शमः |

सुखं दुःखं भवोऽभावो भयं चाभयमेव च ||१०-४||

अहिंसा समता तुष्टिस्तपो दानं यशोऽयशः |

भवन्ति भावा भूतानां मत्त एव पृथग्विधाः ||१०-५||

महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा |

मद्भावा मानसा जाता येषां लोक इमाः प्रजाः ||१०-६||

एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः |

सोऽविकम्पेन योगेन युज्यते नात्र संशयः ||१०-७||

अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते |

इति मत्वा भजन्ते मां बुधा भावसमन्विताः ||१०-८||

मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम् |

कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च ||१०-९||

तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् |

ददामि बुद्धियोगं तं येन मामुपयान्ति ते ||१०-१०||

तेषामेवानुकम्पार्थमहमज्ञानजं तमः |

नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ||१०-११||

अर्जुन उवाच |

परं ब्रह्म परं धाम पवित्रं परमं भवान् |

पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम् ||१०-१२||

आहुस्त्वामृषयः सर्वे देवर्षिर्नारदस्तथा |

असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे ||१०-१३||

सर्वमेतदृतं मन्ये यन्मां वदसि केशव |

न हि ते भगवन्व्यक्तिं विदुर्देवा न दानवाः ||१०-१४||

स्वयमेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम |

भूतभावन भूतेश देवदेव जगत्पते ||१०-१५||

वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतयः |

याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि ||१०-१६||

कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन् |

केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया ||१०-१७||

विस्तरेणात्मनो योगं विभूतिं च जनार्दन |

भूयः कथय तृप्तिर्हि शृण्वतो नास्ति मेऽमृतम् ||१०-१८||

श्रीभगवानुवाच |

हन्त ते कथयिष्यामि दिव्या ह्यात्मविभूतयः |

प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे ||१०-१९||

अहमात्मा गुडाकेश सर्वभूताशयस्थितः |

अहमादिश्च मध्यं च भूतानामन्त एव च ||१०-२०||

आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान् |

मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी ||१०-२१||

वेदानां सामवेदोऽस्मि देवानामस्मि वासवः |

इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना ||१०-२२||

रुद्राणां शङ्करश्चास्मि वित्तेशो यक्षरक्षसाम् |

वसूनां पावकश्चास्मि मेरुः शिखरिणामहम् ||१०-२३||

पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् |

सेनानीनामहं स्कन्दः सरसामस्मि सागरः ||१०-२४||

महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम् |

यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः ||१०-२५||

अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः |

गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः ||१०-२६||

उच्चैःश्रवसमश्वानां विद्धि माममृतोद्भवम् |

ऐरावतं गजेन्द्राणां नराणां च नराधिपम् ||१०-२७||

आयुधानामहं वज्रं धेनूनामस्मि कामधुक् |

प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः ||१०-२८||

अनन्तश्चास्मि नागानां वरुणो यादसामहम् |

पितॄणामर्यमा चास्मि यमः संयमतामहम् ||१०-२९||

प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम् |

मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम् ||१०-३०||

पवनः पवतामस्मि रामः शस्त्रभृतामहम् |

झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी ||१०-३१||

सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन |

अध्यात्मविद्या विद्यानां वादः प्रवदतामहम् ||१०-३२||

अक्षराणामकारोऽस्मि द्वन्द्वः सामासिकस्य च |

अहमेवाक्षयः कालो धाताहं विश्वतोमुखः ||१०-३३||

मृत्युः सर्वहरश्चाहमुद्भवश्च भविष्यताम् |

कीर्तिः श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृतिः क्षमा ||१०-३४||

बृहत्साम तथा साम्नां गायत्री छन्दसामहम् |

मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकरः ||१०-३५||

द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम् |

जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम् ||१०-३६||

वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनञ्जयः |

मुनीनामप्यहं व्यासः कवीनामुशना कविः ||१०-३७||

दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम् |

मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम् ||१०-३८||

यच्चापि सर्वभूतानां बीजं तदहमर्जुन |

न तदस्ति विना यत्स्यान्मया भूतं चराचरम् ||१०-३९||

नान्तोऽस्ति मम दिव्यानां विभूतीनां परन्तप |

एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया ||१०-४०||

यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा |

तत्तदेवावगच्छ त्वं मम तेजोंऽशसम्भवम् ||१०-४१||

अथवा बहुनैतेन किं ज्ञातेन तवार्जुन |

विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् ||१०-४२||

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु

ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे

विभूतियोगो नाम दशमोऽध्यायः ||१०||

 

 

अथैकादशोऽध्यायः |   विश्वरूपदर्शनयोगः

अर्जुन उवाच |

मदनुग्रहाय परमं गुह्यमध्यात्मसंज्ञितम् |

यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम ||११-१||

भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया |

त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम् ||११-२||

एवमेतद्यथात्थ त्वमात्मानं परमेश्वर |

द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम ||११-३||

मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो |

योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम् ||११-४||

श्रीभगवानुवाच |

पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः |

नानाविधानि दिव्यानि नानावर्णाकृतीनि च ||११-५||

पश्यादित्यान्वसून्रुद्रानश्विनौ मरुतस्तथा |

बहून्यदृष्टपूर्वाणि पश्याश्चर्याणि भारत ||११-६||

इहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरम् |

मम देहे गुडाकेश यच्चान्यद् द्रष्टुमिच्छसि ||११-७||

न तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा |

दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम् ||११-८||

सञ्जय उवाच |

एवमुक्त्वा ततो राजन्महायोगेश्वरो हरिः |

दर्शयामास पार्थाय परमं रूपमैश्वरम् ||११-९||

अनेकवक्त्रनयनमनेकाद्भुतदर्शनम् |

अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम् ||११-१०||

दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् |

सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम् ||११-११||

दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता |

यदि भाः सदृशी सा स्याद्भासस्तस्य महात्मनः ||११-१२||

तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा |

अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा ||११-१३||

ततः स विस्मयाविष्टो हृष्टरोमा धनञ्जयः |

प्रणम्य शिरसा देवं कृताञ्जलिरभाषत ||११-१४||

अर्जुन उवाच |

पश्यामि देवांस्तव देव देहे

सर्वांस्तथा भूतविशेषसङ्घान् |

ब्रह्माणमीशं कमलासनस्थ-

मृषींश्च सर्वानुरगांश्च दिव्यान् ||११-१५||

अनेकबाहूदरवक्त्रनेत्रं

पश्यामि त्वां सर्वतोऽनन्तरूपम् |

नान्तं न मध्यं न पुनस्तवादिं

पश्यामि विश्वेश्वर  विश्वरूप ||११-१६||

किरीटिनं गदिनं चक्रिणं च

तेजोराशिं सर्वतो दीप्तिमन्तम् |

पश्यामि त्वां दुर्निरीक्ष्यं समन्ताद्

दीप्तानलार्कद्युतिमप्रमेयम् ||११-१७||

त्वमक्षरं परमं वेदितव्यं

त्वमस्य विश्वस्य परं निधानम् |

त्वमव्ययः शाश्वतधर्मगोप्ता

सनातनस्त्वं पुरुषो मतो मे ||११-१८||

अनादिमध्यान्तमनन्तवीर्य-

मनन्तबाहुं शशिसूर्यनेत्रम् |

पश्यामि त्वां दीप्तहुताशवक्त्रं

स्वतेजसा विश्वमिदं तपन्तम् ||११-१९||

द्यावापृथिव्योरिदमन्तरं हि

व्याप्तं त्वयैकेन दिशश्च सर्वाः |

दृष्ट्वाद्भुतं रूपमुग्रं तवेदं

लोकत्रयं प्रव्यथितं महात्मन् ||११-२०||

अमी हि त्वां सुरसङ्घा विशन्ति

केचिद्भीताः प्राञ्जलयो गृणन्ति |

स्वस्तीत्युक्त्वा महर्षिसिद्धसङ्घाः

स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः ||११-२१||

रुद्रादित्या वसवो ये च साध्या

विश्वेऽश्विनौ मरुतश्चोष्मपाश्च |

गन्धर्वयक्षासुरसिद्धसङ्घा

वीक्षन्ते त्वां विस्मिताश्चैव सर्वे ||११-२२||

रूपं महत्ते बहुवक्त्रनेत्रं

महाबाहो बहुबाहूरुपादम् |

बहूदरं बहुदंष्ट्राकरालं

दृष्ट्वा लोकाः प्रव्यथितास्तथाहम् ||११-२३||

नभःस्पृशं दीप्तमनेकवर्णं

व्यात्ताननं दीप्तविशालनेत्रम् |

दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा

धृतिं न विन्दामि शमं च विष्णो ||११-२४||

दंष्ट्राकरालानि च ते मुखानि

दृष्ट्वैव कालानलसन्निभानि |

दिशो न जाने न लभे च शर्म

प्रसीद देवेश जगन्निवास ||११-२५||

अमी च त्वां धृतराष्ट्रस्य पुत्राः

सर्वे सहैवावनिपालसङ्घैः |

भीष्मो द्रोणः सूतपुत्रस्तथासौ

सहास्मदीयैरपि योधमुख्यैः ||११-२६||

वक्त्राणि ते त्वरमाणा विशन्ति

दंष्ट्राकरालानि भयानकानि |

केचिद्विलग्ना दशनान्तरेषु

सन्दृश्यन्ते चूर्णितैरुत्तमाङ्गैः ||११-२७||

यथा नदीनां बहवोऽम्बुवेगाः

समुद्रमेवाभिमुखा द्रवन्ति |

तथा तवामी नरलोकवीरा

विशन्ति वक्त्राण्यभिविज्वलन्ति ||११-२८||

यथा प्रदीप्तं ज्वलनं पतङ्गा

विशन्ति नाशाय समृद्धवेगाः |

तथैव नाशाय विशन्ति लोकास्-

तवापि वक्त्राणि समृद्धवेगाः ||११-२९||

लेलिह्यसे ग्रसमानः समन्ताल्-

लोकान्समग्रान्वदनैर्ज्वलद्भिः |

तेजोभिरापूर्य जगत्समग्रं

भासस्तवोग्राः प्रतपन्ति विष्णो ||११-३०||

आख्याहि मे को भवानुग्ररूपो

नमोऽस्तु ते देववर प्रसीद |

विज्ञातुमिच्छामि भवन्तमाद्यं

न हि प्रजानामि तव प्रवृत्तिम् ||११-३१||

श्रीभगवानुवाच |

कालोऽस्मि लोकक्षयकृत्प्रवृद्धो

लोकान्समाहर्तुमिह प्रवृत्तः |

ऋतेऽपि त्वां न भविष्यन्ति सर्वे

येऽवस्थिताः प्रत्यनीकेषु योधाः ||११-३२||

तस्मात्त्वमुत्तिष्ठ यशो लभस्व

जित्वा शत्रून् भुङ्क्ष्व राज्यं समृद्धम् |

मयैवैते निहताः पूर्वमेव

निमित्तमात्रं भव सव्यसाचिन् ||११-३३||

द्रोणं च भीष्मं च जयद्रथं च

कर्णं तथान्यानपि योधवीरान् |

मया हतांस्त्वं जहि मा व्यथिष्ठा

युध्यस्व जेतासि रणे सपत्नान् ||११-३४||

सञ्जय उवाच |

एतच्छ्रुत्वा वचनं केशवस्य

कृताञ्जलिर्वेपमानः किरीटी |

नमस्कृत्वा भूय एवाह कृष्णं

सगद्गदं भीतभीतः प्रणम्य ||११-३५||

अर्जुन उवाच |

स्थाने हृषीकेश तव प्रकीर्त्या

जगत्प्रहृष्यत्यनुरज्यते च |

रक्षांसि भीतानि दिशो द्रवन्ति

सर्वे नमस्यन्ति च सिद्धसङ्घाः ||११-३६||

कस्माच्च ते न नमेरन्महात्मन्

गरीयसे ब्रह्मणोऽप्यादिकर्त्रे |

अनन्त देवेश जगन्निवास

त्वमक्षरं सदसत्तत्परं यत् ||११-३७||

त्वमादिदेवः पुरुषः पुराणस्-

त्वमस्य विश्वस्य परं निधानम् |

वेत्तासि वेद्यं च परं च धाम

त्वया ततं विश्वमनन्तरूप ||११-३८||

वायुर्यमोऽग्निर्वरुणः शशाङ्कः

प्रजापतिस्त्वं प्रपितामहश्च |

नमो नमस्तेऽस्तु सहस्रकृत्वः

पुनश्च भूयोऽपि नमो नमस्ते ||११-३९||

नमः पुरस्तादथ पृष्ठतस्ते

नमोऽस्तु ते सर्वत एव सर्व |

अनन्तवीर्यामितविक्रमस्त्वं

सर्वं समाप्नोषि ततोऽसि सर्वः ||११-४०||

सखेति मत्वा प्रसभं यदुक्तं

हे कृष्ण हे यादव हे सखेति |

अजानता महिमानं तवेदं

मया प्रमादात्प्रणयेन वापि ||११-४१||

यच्चावहासार्थमसत्कृतोऽसि

विहारशय्यासनभोजनेषु |

एकोऽथवाप्यच्युत तत्समक्षं

तत्क्षामये त्वामहमप्रमेयम् ||११-४२||

पितासि लोकस्य चराचरस्य

त्वमस्य पूज्यश्च गुरुर्गरीयान् |

न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो

लोकत्रयेऽप्यप्रतिमप्रभाव ||११-४३||

तस्मात्प्रणम्य प्रणिधाय कायं

प्रसादये त्वामहमीशमीड्यम् |

पितेव पुत्रस्य सखेव सख्युः

प्रियः प्रियायार्हसि देव सोढुम् ||११-४४||

अदृष्टपूर्वं हृषितोऽस्मि दृष्ट्वा

भयेन च प्रव्यथितं मनो मे |

तदेव मे दर्शय देव रूपं

प्रसीद देवेश जगन्निवास ||११-४५||

किरीटिनं गदिनं चक्रहस्तं

इच्छामि त्वां द्रष्टुमहं तथैव |

तेनैव रूपेण चतुर्भुजेन

सहस्रबाहो भव विश्वमूर्ते ||११-४६||

श्रीभगवानुवाच |

मया प्रसन्नेन तवार्जुनेदं

रूपं परं दर्शितमात्मयोगात् |

तेजोमयं विश्वमनन्तमाद्यं

यन्मे त्वदन्येन न दृष्टपूर्वम् ||११-४७||

न वेदयज्ञाध्ययनैर्न दानैर्-

न च क्रियाभिर्न तपोभिरुग्रैः |

एवंरूपः शक्य अहं नृलोके

द्रष्टुं त्वदन्येन कुरुप्रवीर ||११-४८||

मा ते व्यथा मा च विमूढभावो

दृष्ट्वा रूपं घोरमीदृङ्ममेदम् |

व्यपेतभीः प्रीतमनाः पुनस्त्वं

तदेव मे रूपमिदं प्रपश्य ||११-४९||

सञ्जय उवाच |

इत्यर्जुनं वासुदेवस्तथोक्त्वा

स्वकं रूपं दर्शयामास भूयः |

आश्वासयामास च भीतमेनं

भूत्वा पुनः सौम्यवपुर्महात्मा ||११-५०||

अर्जुन उवाच |

दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन |

इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः ||११-५१||

श्रीभगवानुवाच |

सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम |

देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः ||११-५२||

नाहं वेदैर्न तपसा न दानेन न चेज्यया |

शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा ||११-५३||

भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन |

ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप ||११-५४||

मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः |

निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव ||११-५५||

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु

ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे

विश्वरूपदर्शनयोगो नामैकादशोऽध्यायः ||१२-११||

 

 

अथ द्वादशोऽध्यायः |   भक्तियोगः

अर्जुन उवाच |

एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते |

ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः ||१२-१||

श्रीभगवानुवाच |

मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते |

श्रद्धया परयोपेताः ते मे युक्ततमा मताः ||१२-२||

ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते |

सर्वत्रगमचिन्त्यञ्च कूटस्थमचलन्ध्रुवम् ||१२-३||

सन्नियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः |

ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः ||१२-४||

क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् ||

अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते ||१२-५||

ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्परः |

अनन्येनैव योगेन मां ध्यायन्त उपासते ||१२-६||

तेषामहं समुद्धर्ता मृत्युसंसारसागरात् |

भवामि नचिरात्पार्थ मय्यावेशितचेतसाम् ||१२-७||

मय्येव मन आधत्स्व मयि बुद्धिं निवेशय |

निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः ||१२-८||

अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् |

अभ्यासयोगेन ततो मामिच्छाप्तुं धनञ्जय ||१२-९||

अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव |

मदर्थमपि कर्माणि कुर्वन्सिद्धिमवाप्स्यसि ||१२-१०||

अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रितः |

सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् ||१२-११||

श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद्ध्यानं विशिष्यते |

ध्यानात्कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम् ||१२-१२||

अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च |

निर्ममो निरहङ्कारः समदुःखसुखः क्षमी ||१२-१३||

सन्तुष्टः सततं योगी यतात्मा दृढनिश्चयः |

मय्यर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रियः ||१२-१४||

यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः |

हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः ||१२-१५||

अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः |

सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः ||१२-१६||

यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति |

शुभाशुभपरित्यागी भक्तिमान्यः स मे प्रियः ||१२-१७||

समः शत्रौ च मित्रे च तथा मानापमानयोः |

शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः ||१२-१८||

तुल्यनिन्दास्तुतिर्मौनी सन्तुष्टो येन केनचित् |

अनिकेतः स्थिरमतिर्भक्तिमान्मे प्रियो नरः ||१२-१९||

ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते |

श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः ||१२-२०||

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु

ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे

भक्तियोगो नाम द्वादशोऽध्यायः ||१२||

 

 

अथ त्रयोदशोऽध्यायः |   क्षेत्रक्षेत्रज्ञविभागयोगः

अर्जुन उवाच |

प्रकृतिं पुरुषं चैव क्षेत्रं क्षेत्रज्ञमेव च |

एतद्वेदितुमिच्छामि ज्ञानं ज्ञेयं च केशव ||१३-१||

श्रीभगवानुवाच |

इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते |

एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ||१३-२||

क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत |

क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम ||१३-३||

तत्क्षेत्रं यच्च यादृक्च यद्विकारि यतश्च यत् |

स च यो यत्प्रभावश्च तत्समासेन मे शृणु ||१३-४||

ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक् |

ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः ||१३-५||

महाभूतान्यहंकारो बुद्धिरव्यक्तमेव च |

इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः ||१३-६||

इच्छा द्वेषः सुखं दुःखं संघातश्चेतना धृतिः |

एतत्क्षेत्रं समासेन सविकारमुदाहृतम् ||१३-७||

अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम् |

आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः ||१३-८||

इन्द्रियार्थेषु वैराग्यमनहंकार एव च |

जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् ||१३-९||

असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु |

नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु ||१३-१०||

मयि चानन्ययोगेन भक्तिरव्यभिचारिणी |

विविक्तदेशसेवित्वमरतिर्जनसंसदि ||१३-११||

अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् |

एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा ||१३-१२||

ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते |

अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते ||१३-१३||

सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् |

सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ||१३-१४||

सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् |

असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च ||१३-१५||

बहिरन्तश्च भूतानामचरं चरमेव च |

सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत् ||१३-१६||

अविभक्तं च भूतेषु विभक्तमिव च स्थितम् |

भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च ||१३-१७||

ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते |

ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य विष्ठितम् ||१३-१८||

इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः |

मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते ||१३-१९||

प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि |

विकारांश्च गुणांश्चैव विद्धि प्रकृतिसम्भवान् ||१३-२०||

कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते |

पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते ||१३-२१||

पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान्गुणान् |

कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु ||१३-२२||

उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः |

परमात्मेति चाप्युक्तो देहेऽस्मिन्पुरुषः परः ||१३-२३||

य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह |

सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते ||१३-२४||

ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना |

अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे ||१३-२५||

अन्ये त्वेवमजानन्तः श्रुत्वान्येभ्य उपासते |

तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः ||१३-२६||

यावत्सञ्जायते किञ्चित्सत्त्वं स्थावरजङ्गमम् |

क्षेत्रक्षेत्रज्ञसंयोगात्तद्विद्धि भरतर्षभ ||१३-२७||

समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् |

विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति ||१३-२८||

समं पश्यन्हि सर्वत्र समवस्थितमीश्वरम् |

न हिनस्त्यात्मनात्मानं ततो याति परां गतिम् ||१३-२९||

प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः |

यः पश्यति तथात्मानमकर्तारं स पश्यति ||१३-३०||

यदा भूतपृथग्भावमेकस्थमनुपश्यति |

तत एव च विस्तारं ब्रह्म सम्पद्यते तदा ||१३-३१||

अनादित्वान्निर्गुणत्वात्परमात्मायमव्ययः |

शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते ||१३-३२||

यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते |

सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते ||१३-३३||

यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः |

क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ||१३-३४||

क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा |

भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम् ||१३-३५||

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु

ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे

क्षेत्रक्षेत्रज्ञविभागयोगो नाम त्रयोदशोऽध्यायः ||१३||

 

 

अथ चतुर्दशोऽध्यायः |   गुणत्रयविभागयोगः

श्रीभगवानुवाच |

परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् |

यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः ||१४-१||

इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः |

सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च ||१४-२||

मम योनिर्महद् ब्रह्म तस्मिन्गर्भं दधाम्यहम् |

सम्भवः सर्वभूतानां ततो भवति भारत ||१४-३||

सर्वयोनिषु कौन्तेय मूर्तयः सम्भवन्ति याः |

तासां ब्रह्म महद्योनिरहं बीजप्रदः पिता ||१४-४||

सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः |

निबध्नन्ति महाबाहो देहे देहिनमव्ययम् ||१४-५||

तत्र सत्त्वं निर्मलत्वात्प्रकाशकमनामयम् |

सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ ||१४-६||

रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम् |

तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् ||१४-७||

तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् |

प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत ||१४-८||

सत्त्वं सुखे सञ्जयति रजः कर्मणि भारत |

ज्ञानमावृत्य तु तमः प्रमादे सञ्जयत्युत ||१४-९||

रजस्तमश्चाभिभूय सत्त्वं भवति भारत |

रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा ||१४-१०||

सर्वद्वारेषु देहेऽस्मिन्प्रकाश उपजायते |

ज्ञानं यदा तदा विद्याद्विवृद्धं सत्त्वमित्युत ||१४-११||

लोभः प्रवृत्तिरारम्भः कर्मणामशमः स्पृहा |

रजस्येतानि जायन्ते विवृद्धे भरतर्षभ ||१४-१२||

अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च |

तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन ||१४-१३||

यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत् |

तदोत्तमविदां लोकानमलान्प्रतिपद्यते ||१४-१४||

रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते |

तथा प्रलीनस्तमसि मूढयोनिषु जायते ||१४-१५||

कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम् |

रजसस्तु फलं दुःखमज्ञानं तमसः फलम् ||१४-१६||

सत्त्वात्सञ्जायते ज्ञानं रजसो लोभ एव च |

प्रमादमोहौ तमसो भवतोऽज्ञानमेव च ||१४-१७||

ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः |

जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः ||१४-१८||

नान्यं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यति |

गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति ||१४-१९||

गुणानेतानतीत्य त्रीन्देही देहसमुद्भवान् |

जन्ममृत्युजरादुःखैर्विमुक्तोऽमृतमश्नुते ||१४-२०||

अर्जुन उवाच |

कैर्लिङ्गैस्त्रीन्गुणानेतानतीतो भवति प्रभो |

किमाचारः कथं चैतांस्त्रीन्गुणानतिवर्तते ||१४-२१||

श्रीभगवानुवाच |

प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव |

न द्वेष्टि सम्प्रवृत्तानि न निवृत्तानि काङ्क्षति ||१४-२२||

उदासीनवदासीनो गुणैर्यो न विचाल्यते |

गुणा वर्तन्त इत्येवं योऽवतिष्ठति नेङ्गते ||१४-२३||

समदुःखसुखः स्वस्थः समलोष्टाश्मकाञ्चनः |

तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः ||१४-२४||

मानापमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः |

सर्वारम्भपरित्यागी गुणातीतः स उच्यते ||१४-२५||

मां च योऽव्यभिचारेण भक्तियोगेन सेवते |

स गुणान्समतीत्यैतान्ब्रह्मभूयाय कल्पते ||१४-२६||

ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य च |

शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च ||१४-२७||

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु

ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे

गुणत्रयविभागयोगो नाम चतुर्दशोऽध्यायः ||१४||

 

 

अथ पञ्चदशोऽध्यायः |   पुरुषोत्तमयोगः

श्रीभगवानुवाच |

ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम् |

छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् ||१५-१||

अधश्चोर्ध्वं प्रसृतास्तस्य शाखा

गुणप्रवृद्धा विषयप्रवालाः |

अधश्च मूलान्यनुसन्ततानि

कर्मानुबन्धीनि मनुष्यलोके ||१५-२||

न रूपमस्येह तथोपलभ्यते

नान्तो न चादिर्न च सम्प्रतिष्ठा |

अश्वत्थमेनं सुविरूढमूलं

असङ्गशस्त्रेण दृढेन छित्त्वा ||१५-३||

ततः पदं तत्परिमार्गितव्यं

यस्मिन्गता न निवर्तन्ति भूयः |

तमेव चाद्यं पुरुषं प्रपद्ये |

यतः प्रवृत्तिः प्रसृता पुराणी ||१५-४||

निर्मानमोहा जितसङ्गदोषा

अध्यात्मनित्या विनिवृत्तकामाः |

द्वन्द्वैर्विमुक्ताः सुखदुःखसंज्ञैर्-

गच्छन्त्यमूढाः पदमव्ययं तत् ||१५-५||

न तद्भासयते सूर्यो न शशाङ्को न पावकः |

यद्गत्वा न निवर्तन्ते तद्धाम परमं मम ||१५-६||

ममैवांशो जीवलोके जीवभूतः सनातनः |

मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति ||१५-७||

शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः |

गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् ||१५-८||

श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च |

अधिष्ठाय मनश्चायं विषयानुपसेवते ||१५-९||

उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम् |

विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः ||१५-१०||

यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम् |

यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः ||१५-११||

यदादित्यगतं तेजो जगद्भासयतेऽखिलम् |

यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् ||१५-१२||

गामाविश्य च भूतानि धारयाम्यहमोजसा |

पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः ||१५-१३||

अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः |

प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् ||१५-१४||

सर्वस्य चाहं हृदि सन्निविष्टो

मत्तः स्मृतिर्ज्ञानमपोहनञ्च |

वेदैश्च सर्वैरहमेव वेद्यो

वेदान्तकृद्वेदविदेव चाहम् ||१५-१५||

द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च |

क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ||१५-१६||

उत्तमः पुरुषस्त्वन्यः परमात्मेत्युधाहृतः |

यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ||१५-१७||

यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः |

अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ||१५-१८||

यो मामेवमसम्मूढो जानाति पुरुषोत्तमम् |

स सर्वविद्भजति मां सर्वभावेन भारत ||१५-१९||

इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ |

एतद्बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत ||१५-२०||

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु

ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुन संवादे

पुरुषोत्तमयोगो नाम पञ्चदशोऽध्यायः ||१५||

 

 

अथ षोडशोऽध्यायः |   दैवासुरसम्पद्विभागयोगः

श्रीभगवानुवाच |

अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः |

दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ||१६-१||

अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् |

दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम् ||१६-२||

तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता |

भवन्ति सम्पदं दैवीमभिजातस्य भारत ||१६-३||

दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च |

अज्ञानं चाभिजातस्य पार्थ सम्पदमासुरीम् ||१६-४||

दैवी सम्पद्विमोक्षाय निबन्धायासुरी मता |

मा शुचः सम्पदं दैवीमभिजातोऽसि पाण्डव ||१६-५||

द्वौ भूतसर्गौ लोकेऽस्मिन्दैव आसुर एव च |

दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शृणु ||१६-६||

प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः |

न शौचं नापि चाचारो न सत्यं तेषु विद्यते ||१६-७||

असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् |

अपरस्परसम्भूतं किमन्यत्कामहैतुकम् ||१६-८||

एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः |

प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः ||१६-९||

काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः |

मोहाद्गृहीत्वासद्ग्राहान्प्रवर्तन्तेऽशुचिव्रताः ||१६-१०||

चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिताः |

कामोपभोगपरमा एतावदिति निश्चिताः ||१६-११||

आशापाशशतैर्बद्धाः कामक्रोधपरायणाः |

ईहन्ते कामभोगार्थमन्यायेनार्थसञ्चयान् ||१६-१२||

इदमद्य मया लब्धमिमं प्राप्स्ये मनोरथम् |

इदमस्तीदमपि मे भविष्यति पुनर्धनम् ||१६-१३||

असौ मया हतः शत्रुर्हनिष्ये चापरानपि |

ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी ||१६-१४||

आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया |

यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः ||१६-१५||

अनेकचित्तविभ्रान्ता मोहजालसमावृताः |

प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ ||१६-१६||

आत्मसम्भाविताः स्तब्धा धनमानमदान्विताः |

यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम् ||१६-१७||

अहंकारं बलं दर्पं कामं क्रोधं च संश्रिताः |

मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः ||१६-१८||

तानहं द्विषतः क्रुरान्संसारेषु नराधमान् |

क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु ||१६-१९||

आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि |

मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् ||१६-२०||

त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः |

कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् ||१६-२१||

एतैर्विमुक्तः कौन्तेय तमोद्वारैस्त्रिभिर्नरः |

आचरत्यात्मनः श्रेयस्ततो याति परां गतिम् ||१६-२२||

यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः |

न स सिद्धिमवाप्नोति न सुखं न परां गतिम् ||१६-२३||

तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ |

ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि ||१६-२४||

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु

ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे

दैवासुरसम्पद्विभागयोगो नाम षोडशोऽध्यायः ||१६||

 

 

अथ सप्तदशोऽध्यायः |   श्रद्धात्रयविभागयोगः

अर्जुन उवाच |

ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः |

तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः ||१७-१||

श्रीभगवानुवाच |

त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा |

सात्त्विकी राजसी चैव तामसी चेति तां शृणु ||१७-२||

सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत |

श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः ||१७-३||

यजन्ते सात्त्विका देवान्यक्षरक्षांसि राजसाः |

प्रेतान्भूतगणांश्चान्ये यजन्ते तामसा जनाः ||१७-४||

अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः |

दम्भाहंकारसंयुक्ताः कामरागबलान्विताः ||१७-५||

कर्षयन्तः शरीरस्थं भूतग्राममचेतसः |

मां चैवान्तःशरीरस्थं तान्विद्ध्यासुरनिश्चयान् ||१७-६||

आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः |

यज्ञस्तपस्तथा दानं तेषां भेदमिमं शृणु ||१७-७||

आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः |

रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः ||१७-८||

कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः |

आहारा राजसस्येष्टा दुःखशोकामयप्रदाः ||१७-९||

यातयामं गतरसं पूति पर्युषितं च यत् |

उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् ||१७-१०||

अफलाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते |

यष्टव्यमेवेति मनः समाधाय स सात्त्विकः ||१७-११||

अभिसन्धाय तु फलं दम्भार्थमपि चैव यत् |

इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् ||१७-१२||

विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम् |

श्रद्धाविरहितं यज्ञं तामसं परिचक्षते ||१७-१३||

देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम् |

ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते ||१७-१४||

अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् |

स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते ||१७-१५||

मनः प्रसादः सौम्यत्वं मौनमात्मविनिग्रहः |

भावसंशुद्धिरित्येतत्तपो मानसमुच्यते ||१७-१६||

श्रद्धया परया तप्तं तपस्तत्त्रिविधं नरैः |

अफलाकाङ्क्षिभिर्युक्तैः सात्त्विकं परिचक्षते ||१७-१७||

सत्कारमानपूजार्थं तपो दम्भेन चैव यत् |

क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम् ||१७-१८||

मूढग्राहेणात्मनो यत्पीडया क्रियते तपः |

परस्योत्सादनार्थं वा तत्तामसमुदाहृतम् ||१७-१९||

दातव्यमिति यद्दानं दीयतेऽनुपकारिणे |

देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम् ||१७-२०||

यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः |

दीयते च परिक्लिष्टं तद्दानं राजसं स्मृतम् ||१७-२१||

अदेशकाले यद्दानमपात्रेभ्यश्च दीयते |

असत्कृतमवज्ञातं तत्तामसमुदाहृतम् ||१७-२२||

ॐतत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः |

ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा ||१७-२३||

तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः |

प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् ||१७-२४||

तदित्यनभिसन्धाय फलं यज्ञतपःक्रियाः |

दानक्रियाश्च विविधाः क्रियन्ते मोक्षकाङ्क्षिभिः ||१७-२५||

सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते |

प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते ||१७-२६||

यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते |

कर्म चैव तदर्थीयं सदित्येवाभिधीयते ||१७-२७||

अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् |

असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह ||१७-२८||

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु

ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे

श्रद्धात्रयविभागयोगो नाम सप्तदशोऽध्यायः ||१७||

 

 

अथाष्टादशोऽध्यायः |   मोक्षसंन्यासयोगः

अर्जुन उवाच |

संन्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम् |

त्यागस्य च हृषीकेश पृथक्केशिनिषूदन ||१८-१||

श्रीभगवानुवाच |

काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः |

सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः ||१८-२||

त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः |

यज्ञदानतपःकर्म न त्याज्यमिति चापरे ||१८-३||

निश्चयं शृणु मे तत्र त्यागे भरतसत्तम |

त्यागो हि पुरुषव्याघ्र त्रिविधः सम्प्रकीर्तितः ||१८-४||

यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत् |

यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् ||१८-५||

एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च |

कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम् ||१८-६||

नियतस्य तु संन्यासः कर्मणो नोपपद्यते |

मोहात्तस्य परित्यागस्तामसः परिकीर्तितः ||१८-७||

दुःखमित्येव यत्कर्म कायक्लेशभयात्त्यजेत् |

स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् ||१८-८||

कार्यमित्येव यत्कर्म नियतं क्रियतेऽर्जुन |

सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः ||१८-९||

न द्वेष्ट्यकुशलं कर्म कुशले नानुषज्जते |

त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशयः ||१८-१०||

न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः |

यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते ||१८-११||

अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम् |

भवत्यत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित् ||१८-१२||

पञ्चैतानि महाबाहो कारणानि निबोध मे |

साङ्ख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् ||१८-१३||

अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् |

विविधाश्च पृथक्चेष्टा दैवं चैवात्र पञ्चमम् ||१८-१४||

शरीरवाङ्मनोभिर्यत्कर्म प्रारभते नरः |

न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः ||१८-१५||

तत्रैवं सति कर्तारमात्मानं केवलं तु यः |

पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः ||१८-१६||

यस्य नाहंकृतो भावो बुद्धिर्यस्य न लिप्यते |

हत्वाऽपि स इमाँल्लोकान्न हन्ति न निबध्यते ||१८-१७||

ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना |

करणं कर्म कर्तेति त्रिविधः कर्मसंग्रहः ||१८-१८||

ज्ञानं कर्म च कर्ताच त्रिधैव गुणभेदतः |

प्रोच्यते गुणसङ्ख्याने यथावच्छृणु तान्यपि ||१८-१९||

सर्वभूतेषु येनैकं भावमव्ययमीक्षते |

अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम् ||१८-२०||

पृथक्त्वेन तु यज्ज्ञानं नानाभावान्पृथग्विधान् |

वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम् ||१८-२१||

यत्तु कृत्स्नवदेकस्मिन्कार्ये सक्तमहैतुकम् |

अतत्त्वार्थवदल्पं च तत्तामसमुदाहृतम् ||१८-२२||

नियतं सङ्गरहितमरागद्वेषतः कृतम् |

अफलप्रेप्सुना कर्म यत्तत्सात्त्विकमुच्यते ||१८-२३||

यत्तु कामेप्सुना कर्म साहंकारेण वा पुनः |

क्रियते बहुलायासं तद्राजसमुदाहृतम् ||१८-२४||

अनुबन्धं क्षयं हिंसामनपेक्ष्य च पौरुषम् |

मोहादारभ्यते कर्म यत्तत्तामसमुच्यते ||१८-२५||

मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः |

सिद्ध्यसिद्ध्योर्निर्विकारः कर्ता सात्त्विक उच्यते ||१८-२६||

रागी कर्मफलप्रेप्सुर्लुब्धो हिंसात्मकोऽशुचिः |

हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः ||१८-२७||

अयुक्तः प्राकृतः स्तब्धः शठो नैष्कृतिकोऽलसः |

विषादी दीर्घसूत्री च कर्ता तामस उच्यते ||१८-२८||

बुद्धेर्भेदं धृतेश्चैव गुणतस्त्रिविधं शृणु |

प्रोच्यमानमशेषेण पृथक्त्वेन धनञ्जय ||१८-२९||

प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये |

बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी ||१८-३०||

यया धर्ममधर्मं च कार्यं चाकार्यमेव च |

अयथावत्प्रजानाति बुद्धिः सा पार्थ राजसी ||१८-३१||

अधर्मं धर्ममिति या मन्यते तमसावृता |

सर्वार्थान्विपरीतांश्च बुद्धिः सा पार्थ तामसी ||१८-३२||

धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः |

योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी ||१८-३३||

यया तु धर्मकामार्थान्धृत्या धारयतेऽर्जुन |

प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी ||१८-३४||

यया स्वप्नं भयं शोकं विषादं मदमेव च |

न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी ||१८-३५||

सुखं त्विदानीं त्रिविधं शृणु मे भरतर्षभ |

अभ्यासाद्रमते यत्र दुःखान्तं च निगच्छति ||१८-३६||

यत्तदग्रे विषमिव परिणामेऽमृतोपमम् |

तत्सुखं सात्त्विकं प्रोक्तमात्मबुद्धिप्रसादजम् ||१८-३७||

विषयेन्द्रियसंयोगाद्यत्तदग्रेऽमृतोपमम् |

परिणामे विषमिव तत्सुखं राजसं स्मृतम् ||१८-३८||

यदग्रे चानुबन्धे च सुखं मोहनमात्मनः |

निद्रालस्यप्रमादोत्थं तत्तामसमुदाहृतम् ||१८-३९||

न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः |

सत्त्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात्त्रिभिर्गुणैः ||१८-४०||

ब्राह्मणक्षत्रियविशां शूद्राणां च परन्तप |

कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः ||१८-४१||

शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च |

ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम् ||१८-४२||

शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् |

दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् ||१८-४३||

कृषिगौरक्ष्यवाणिज्यं वैश्यकर्म स्वभावजम् |

परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम् ||१८-४४||

स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः |

स्वकर्मनिरतः सिद्धिं यथा विन्दति तच्छृणु ||१८-४५||

यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् |

स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः ||१८-४६||

श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् |

स्वभावनियतं कर्म कुर्वन्नाप्नोति किल्बिषम् ||१८-४७||

सहजं कर्म कौन्तेय सदोषमपि न त्यजेत् |

सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृताः ||१८-४८||

असक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः |

नैष्कर्म्यसिद्धिं परमां संन्यासेनाधिगच्छति ||१८-४९||

सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे |

समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा ||१८-५०||

बुद्ध्या विशुद्धया युक्तो धृत्यात्मानं नियम्य च |

शब्दादीन्विषयांस्त्यक्त्वा रागद्वेषौ व्युदस्य च ||१८-५१||

विविक्तसेवी लघ्वाशी यतवाक्कायमानसः |

ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः ||१८-५२||

अहंकारं बलं दर्पं कामं क्रोधं परिग्रहम् |

विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते ||१८-५३||

ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति |

समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम् ||१८-५४||

भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वतः |

ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् ||१८-५५||

सर्वकर्माण्यपि सदा कुर्वाणो मद्व्यपाश्रयः |

मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम् ||१८-५६||

चेतसा सर्वकर्माणि मयि संन्यस्य मत्परः |

बुद्धियोगमुपाश्रित्य मच्चित्तः सततं भव ||१८-५७||

मच्चित्तः सर्वदुर्गाणि मत्प्रसादात्तरिष्यसि |

अथ चेत्त्वमहंकारान्न श्रोष्यसि विनङ्क्ष्यसि ||१८-५८||

यदहंकारमाश्रित्य न योत्स्य इति मन्यसे |

मिथ्यैष व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति ||१८-५९||

स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा |

कर्तुं नेच्छसि यन्मोहात्करिष्यस्यवशोपि तत् ||१८-६०||

ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति |

भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया ||१८-६१||

तमेव शरणं गच्छ सर्वभावेन भारत |

तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् ||१८-६२||

इति ते ज्ञानमाख्यातं गुह्याद्गुह्यतरं मया |

विमृश्यैतदशेषेण यथेच्छसि तथा कुरु ||१८-६३||

सर्वगुह्यतमं भूयः शृणु मे परमं वचः |

इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम् ||१८-६४||

मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु |

मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे ||१८-६५||

सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज |

अहं त्वा सर्वपापेभ्यो मोक्षयिष्यामि मा शुचः ||१८-६६||

इदं ते नातपस्काय नाभक्ताय कदाचन |

न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति ||१८-६७||

य इदं परमं गुह्यं मद्भक्तेष्वभिधास्यति |

भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः ||१८-६८||

न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः |

भविता न च मे तस्मादन्यः प्रियतरो भुवि ||१८-६९||

अध्येष्यते च य इमं धर्म्यं संवादमावयोः |

ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः ||१८-७०||

श्रद्धावाननसूयश्च शृणुयादपि यो नरः |

सोऽपि मुक्तः शुभाँल्लोकान्प्राप्नुयात्पुण्यकर्मणाम् ||१८-७१||

कच्चिदेतच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा |

कच्चिदज्ञानसम्मोहः प्रनष्टस्ते धनञ्जय ||१८-७२||

अर्जुन उवाच |

नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत |

स्थितोऽस्मि गतसन्देहः करिष्ये वचनं तव ||१८-७३||

सञ्जय उवाच |

इत्यहं वासुदेवस्य पार्थस्य च महात्मनः |

संवादमिममश्रौषमद्भुतं रोमहर्षणम् ||१८-७४||

व्यासप्रसादाच्छ्रुतवानेतद्गुह्यमहं परम् |

योगं योगेश्वरात्कृष्णात्साक्षात्कथयतः स्वयम् ||१८-७५||

राजन्संस्मृत्य संस्मृत्य संवादमिममद्भुतम् |

केशवार्जुनयोः पुण्यं हृष्यामि च मुहुर्मुहुः ||१८-७६||

तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरेः |

विस्मयो मे महान् राजन्हृष्यामि च पुनः पुनः ||१८-७७||

यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः |

तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ||१८-७८||

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु

ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे

मोक्षसंन्यासयोगो नाम अष्टादशोऽध्यायः ||१८||

शान्ताकारं भुजगशयनं पद्मनाभं सुरेशम् |

विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम् |

लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यम् |

वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ||