सनातन धर्म मानव विकास शोध एवम् प्रशिक्षण केन्द्र
Sanatan Dharma Human Development, Research & Training Center
Tie-Ups
  • Amity Centre for Sanskrit and Indic Studies Amity University, Gurugram
  • Punjabi University, Patiala
  • Guru Nanak Girls College, Santpura, Yamunanagar
  • D.A.V. College For Girls, Yamunanagar
  • Mata Sundri Khalsa Girls College – Nissing, Karnal
  • D.A.V. College, Pehowa
  • M.P.N. College, Mullana

साधन पञ्चकं

.. साधन पञ्चकम् ..

वेदो नित्यमधीयतां तदुदितं कर्म स्वनुष्ठीयताम् .

तेनेशस्य विधीयतामपचितिः काम्ये मतिस्त्यज्यताम् .

पापौघः परिधूयतां भवसुखे दोशोऽनुसन्धीयताम् .

आत्मेच्छा व्यवसीयतां निजगृहात्तूर्णं विनिर्गम्यताम् .. १..

सङ्गः सत्सु विधीयतां भगवतो भक्तिर्दृढाऽऽधीयताम् .

शान्त्यादिः परिचीयतां दृढतरं कर्माशु सन्त्यज्यताम् .

सद्विद्वानुपसृप्यतां प्रतिदिनं तत्पादुका सेव्यताम् .

ब्रह्मैकाक्षरमर्थ्यतां श्रुतिशिरोवाक्यं समाकर्ण्यताम् .. २..

वाक्यार्थ्यश्च विचार्यतां श्रुतिशिरपक्षः समाश्रीयताम् .

दुस्तर्कात् सुविरम्यतां श्रुतिमतस्तर्कोऽनुसन्धीयताम् .

ब्रह्मास्मीति विभाव्यतामहरहर्गवर्ः परित्यज्यताम् .

देहेऽहंमतिरुझ्यतां बुधजनैर्वादः परित्यज्यताम् .. ३..

क्षुद्व्याधिश्च चिकित्स्यतां प्रतिदिनं भिक्षौषधं भुज्यताम् .

स्वाद्वन्नं न तु याच्यतां विधिवशात् प्राप्तेन सन्तुष्यताम् .

शीतोष्णादि विषह्यतां न तु वृथा वाक्यं समुच्चार्यताम् .

औदासीन्यमभीप्स्यतां जनकृपानैष्ठुर्यमुत्सृज्यताम् .. ४..

एकान्ते सुखमास्यतां परतरे चेतः समाधीयताम् .

पूर्णात्मा सुसमीक्ष्यतां जगदिदं तद्बाधितं दृश्यताम् .

प्राक्कर्म प्रविलाप्यतां चितिबलान्नाप्युत्तरैः श्लिष्यताम् .

प्रारब्धं त्विह भुज्यतामथ परब्रह्मात्मना स्थीयताम् .. ५..

||इति परमहंसपरिव्राजकाचार्यश्रीमच्छङ्कराचार्यविरचित साधन पञ्चकं संपूर्णम् ||