अनात्म श्री विगर्हणम्
.. अनात्म श्री विगर्हणम् ..
अनात्मश्रीविगर्हणप्रकरणम् ..
लब्धा विद्या राजमान्या ततः किं
प्राप्ता सम्पत्प्राभवाढ्या ततः किम् .
भुक्ता नारी सुन्दराङ्गी ततः किं
येन स्वात्मा नैव साक्षात्कृतोऽभूत् .. १..
केयूराद्यैर्भूषितो वा ततः किं
कौशेयाद्यैरावृतो वा ततः किम् .
तृप्तो मृष्टान्नदिना वा ततः किं
येन स्वात्मानैव साक्षात्कृतोऽभूत् .. २..
दृष्टा नाना चारुदेशास्ततः किं
पुष्टाश्चेष्टा बन्धु वर्गास्ततः किम् .
नष्ट.म् दारिद्र्यादिदुःख.म् ततः किं
येन स्वात्मा नैव साक्षात्कृतोऽभूत् .. ३..
स्नातस्तीर्थे जह्नुजादौ ततः किं
दानं दत्तं द्व्यष्टस.म्ख्यं ततः किम् .
जप्ता मन्त्राः कोटिशो वा ततः किं
येन स्वात्मा नैव साक्षात्कृतोऽभूत् .. ४..
गोत्र.म् सम्यग्भूषितं वा ततः किं
गात्रं भस्माच्छादितं वा ततः किम् .
रुद्राक्षादिः सद्धृतो वा ततः किं
येन स्वात्मा नैव साक्षात्कृतोऽभूत् .. ५..
अन्नैर्विप्रास्तर्पिता वा ततः किं
यज्ञैर्देवास्तोषिता वा ततः किम् .
कीर्त्या व्याप्ताः सर्वलोकास्ततः किं
येन स्वात्मा नैव साक्षात्कृतोऽभूत् .. ६..
कायः क्लिष्टश्चोपवासैस्ततः किं
लब्धा पुत्राः स्वीयपत्न्यास्ततः किम् .
प्राणायामः साधितो वा ततः किं
येन स्वात्मा नैव साक्षात्कृतोऽभूत् .. ७..
युद्धे शत्रुर्निजितो वा ततः किं
भूयो मित्रैः पूरितो वा ततः किम् .
योगैः प्राप्ताः सिद्धयो वा ततः किं
येन स्वात्मा नैव साक्षात्कृतोऽभूत् .. ८..
अब्धिः पद्भ्यां लङ्घितो वा ततः किं
वायुः कुम्भे स्थापितो वा ततः किम् .
मेरुः पाणावुद्धृतो वा ततः किं
येन स्वात्मा नैव साक्षात्कृतोऽभूत् .. ९..
क्ष्वेलः पीतो दुग्धवद्वा ततः किं
वह्निर्जग्धो लाजवद्वा ततः किम् .
प्राप्तश्चारः पक्षिवत्खे ततः किं
येन स्वात्मा नैव साक्षात्कृतोऽभूत् .. १०..
बद्धा सम्यक्पावकाद्यास्ततः किं
साक्षाद्विद्धा लोहवर्यास्ततः किम् .
लब्धो निक्षेपोऽञ्जनाद्यैस्ततः किं
येन स्वात्मा नैव साक्षात्कृतोऽभूत् .. ११..
भूपेन्द्रत्वं प्राप्तमुर्व्यां ततः किं
देवेन्द्रत्वं स.म्भृतं वा ततः किम् .
मुन्डीन्द्रत्वं चोपलब्धं ततः किं
येन स्वात्मा नैव साक्षात्कृतोऽभूत् .. १२..
मन्त्रैः सर्वः स्तम्भितो वा ततः किं
बाणैर्लक्ष्यो भेदितो वा ततः किम् .
कालज्ञानं चापि लब्धं ततः किं
येन स्वात्मा नैव साक्षात्कृतोऽभूत् .. १३..
कामातङ्कः खण्डितो वा ततः किं
कोपावेशः कुण्ठितो वा ततः किम् .
लोभाश्लेषो वर्जितो वा ततः किं
येन स्वात्मा नैव साक्षात्कृतोऽभूत् .. १४..
मोहध्वान्तः पोषितो वा ततः किं
जातो भूमौ निर्मदो वा ततः किम् .
मात्सर्यातिर्मीलिता वा ततः किं
येन स्वात्मा नैव साक्षात्कृतोऽभूत् .. १५..
धातुर्लोकः साधितो वा ततः किं
विष्णोर्लोको वीक्षितो वा ततः किम् .
शम्भोर्लोकः शासितो वा ततः किं
येन स्वात्मा नैव साक्षात्कृतोऽभूत् .. १६..
यस्येदं हृदये सम्यगनात्मश्रीविगर्हणम् .
सदोदेति स एवात्मसाक्षात्कारस्य भाजनम् .. १७..
अन्ये तु मायिक जगद्भ्रान्तिव्यामोहमोहिताः.
न तेषां जायते क्वापि स्वात्मसाक्षात्कृतिर्भुवि .. १८..
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य
श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य
श्रीमच्छङ्करभगवतः कृतौ अनात्मश्रीविगर्हणप्रकरणं
संपूर्णम् ..