यक्षप्रश्नाः
वैशंपायन उवाच .
स ददर्श हतान्भ्रातॄँल्लोकपालानिव च्युतान् .
युगान्ते समनुप्राप्ते शक्रप्रतिमगौरवान् .. १..
विनिकीर्णधनुर्बाणं दृष्ट्वा निहतमर्जुनम् .
भीमसेनं यमौ चोभौ निर्विचेष्टान् गतायुषः .. २..
स दीर्घमुष्णं निःश्वस्य शोकबाष्पपरिप्लुतः .
तान् दृष्ट्वा पतितान् भ्रातॄन् सर्वांश्चिन्तासमन्वितः .. ३..
धर्मपुत्रो महाबाहुर्विललाप सुविस्तरम् .
ननु त्वया महाबाहो प्रतिज्ञातं वृकोदर .. ४..
सुयोधनस्य भेत्स्यामि गदया सक्थिनि रणे .
व्यर्थं तदद्य मे सर्वं त्वयि नीरे निपातिते .. ५..
महात्मनि महाबाहो कुरूणां कीर्तिवर्धने .
मनुष्यसंभवा वाचो विधर्मिण्यः प्रति श्रुताः .. ६..
बहवतां दिव्यवाचस्तु ता भवन्तु कथं मृषा .
देवाश्चापि यदाऽवोचन् सूतके त्वां धनञ्जय .. ७..
सहस्राक्षादनवरः कुन्तिपुत्रस्तवेति वै .
उत्तरे पारियात्रे च जगुर्भूतानि सर्वशः .. ८..
विपनष्टां श्रियं चैषामाहर्ता पुनरञ्जसा .
नास्य जेता रणे कश्चिदजेता नैष कस्यचित् .. ९..
सोऽयं मृत्युवशं यातः कथं जिष्णुर्महाबलः .
अयं ममांशां संहत्य शेते भूमौ धनञ्जयः .. १०..
आश्रित्य यं वयं नाथं दुःखान्येतानि सेहिम .
रणे प्रमत्तौ वीरौ च सदा शत्रुनिबहर्णौ .. ११..
कथं रिपुवशं यातौ कुन्तीपुत्रौ महाबलौ .
यौ सर्वास्त्राप्रतिहतौ भीमसेनधनञ्जयौ .. १२..
अश्मसारमयं नूनं हृदयं मम दुहृर्दः .
यमौ यदेतौ दृष्ट्वाऽद्य पतितौ नावदीर्यते .. १३..
शास्त्रज्ञा देशकालज्ञास्तपोयुक्ताः क्रियान्विताः .
अकृत्वा सदृशं कर्म किं शेध्वं पुरुषर्षभाः .. १४..
अविक्षतशरीश्चाप्यप्रमृष्टशरासनाः .
असंज्ञा भुवि सङ्गम्य किं शेध्वमपराजिताः .. १५..
सानूनिवाद्रेः संसुप्तां दृष्ट्वा भ्रातॄन् महामतिः .
सुखं प्रसुप्तां प्रस्विन्नः खिन्नः कष्टां दशां गतः .. १६..
एवमेवेदमित्युक्त्वा धर्मात्मा स नरेश्वरः .
शोकसागर मध्यस्थो दध्यौ कारणमाकुलः .. १७..
इतिकर्तव्यतां चेति देशकालविभागवित् .
नाभिपेदे महाबाहुश्चिन्तयानो महामतिः .. १८..
अथ संस्तभ्य धर्मात्मा तदाऽऽत्मानं तपः सुतः .
एवं विलप्य बहुधा धर्मपुत्रो युधिष्ठिरः .. १९..
बुद्ध्या विचिन्तयामास वीराः केन निपातिताः .. २०..
नैषां शस्त्रप्रहारोऽस्ति पदं नेहास्ति कस्यचित् .
भूतं महदिदं मन्ये भ्रातरो येन मे हताः .. २१..
एकाग्रं चिन्तयिष्यामि पीत्वा वेत्स्यामि वा जलम् .
स्यात्तु दुर्योधनेनेदमुपांशु विहितं कृतम् .. २२..
गन्धारराजरचितं सततं जिह्मबुद्धिना .
यस्य कार्यमकार्यं वा सममेव भवत्युत .. २३..
कस्तस्य विश्वसेद्वीरो दुष्कृतेरकृतात्मनः .
अथवा पुरुषैर्गूढैः प्रयोगोऽयं दुरात्मनः .. २४..
भवेदिति महाबुद्धिर्बहुधा तदचिन्तयत् .
तस्यासीन्न विषेणेदमुदकं दूषितं यथा .. २५..
मृतानामपि चैतेषां विकृतं नैव जायते .
मुखवर्णाः प्रसन्ना मे भ्रातॄणामित्यचिन्तयत् .. २६..
एकैकशश्चौघबलानिमान्पुरुषसत्तमान् .
कोऽन्यः प्रतिसमासेत कालान्तकयमादृते .. २७..
एतेन व्यवसायेन तत्तोयं व्यवगाढवान् .
गाहमानश्च तत्तोयमन्तरिक्षात्स शुश्रुवे .. २८..
यक्ष उवाच .
अहं बकः शैवलमत्स्यभक्षो
नीताः मया प्रेतवशं तवानुजाः .
त्वं पञ्चमो भविता राजपुत्र
न चेत्प्रश्नान्पृच्छतो व्याकरोषि .. २९..
मा तात साहसं कार्षीर्मम पूर्वपरिग्रहः .
प्रश्नानुक्त्वा तु कौन्तेय ततः पिब हरस्व च .. ३०..
युधिष्ठिर उवाच .
रुद्राणां वा वसूनां वा मरुतां वा प्रधानभाक् .
पृच्छामि को भवान्देवो नैतच्छकुनिना कृतम् .. ३१..
हिमवान्पारियात्रश्च विन्ध्यो मलय एव च .
चत्वारः पर्वताः केन पातिता भूरितेजसः .. ३२..
अतीव ते महत्कर्म कृतं च बलिनां वर .
यान्न देवा न गन्धर्वा नासुराश्च राक्षसाः .. ३३..
विषहेरन्महायुद्धे कृतं ते तन्महाद्भुतम् .
न ते जानामि यत्कार्यं नाभिजानामि काङ्क्षितम् ..३४..
कौतूहलं महज्जातं साध्वसं चागतं मम .
येनास्म्युद्विग्नहृदयः समुत्पन्नशिरोज्वरः .. ३५..
पृच्छामि भगवंस्तस्मात्को भवानिह तिष्ठति .
यक्ष उवाच .
यक्षोऽहमस्मि भद्रं ते नास्मि पक्षी जलेचरः .. ३६..
मयैते निहताः सर्वे भ्रातरस्ते महौजसः .
वैशंपायन उवाच .
ततस्तामशिवां श्रुत्वा वाचं स परुषाक्षराम् .. ३७..
यक्षस्य ब्रुवतो राजन्नुपक्रम्य तदा स्थितः .
विरूपाक्षं महाकायं यक्षं तालसमुच्छ्रयम् .. ३८..
ज्वलनार्कप्रतीकाशमधृष्यं पर्वतोपमम् .
वृक्षमाश्रित्य तिष्ठन्तं ददर्श भरतर्षभः .. ३९..
मेघगंभीरनादेन तर्जयन्तं महास्वनम् .
यक्ष उवाच .
इमे ते भ्रातरो राजन्वार्यमाणा मयाऽसकृत् ..४०..
बलात्तोयं जिहीर्षन्तस्ततो वै मृदिता मया .
न पेयमुदकं राजन्प्राणानिह परीप्सता .. ४१..
पार्थ मा साहसं कार्षीर्मम पूर्वपरिग्रहः .
प्रश्नानुक्त्वा तु कौन्तेय ततः पिब हरस्व च .. ४२..
युधिष्ठिर उवाच .
न चाह्ं कामये यक्ष तव पूर्वपरिग्रहम् .
कामं नैतत्प्रशंसन्ति सन्तो हि पुरुषाः सदा .. ४३..
यदात्मना स्वमात्मानं प्रशंसे पुरुषर्षभ .
यथा प्रज्ञं तु ते प्रश्नान्प्रतिवक्ष्यामि पृच्छ माम् .. ४४..
यक्ष उवाच .
किं स्विदादित्यमुन्नयति के च तस्याभितश्चराः .
कश्चैनमस्तं नयति कस्मिंश्च प्रतितिष्ठति .. ४५..
युधिष्ठिर उवाच .
ब्रह्मादित्यमुन्नयति देवास्तस्याभितश्चराः .
धर्मश्चास्तं नयति च सत्ये च प्रतितिष्ठति .. ४६..
यक्ष उवाच .
केनस्विच्छ्रोत्रियो भवति केनस्विद्विन्दते महत् .
केनस्विद्द्वितीयवान्भवति राजन् केन च बुद्धिमान् .. ४७..
युधिष्ठिर उवाच .
श्रुतेन श्रोत्रियो भवति तपसा विन्दते महत् .
धृत्या द्वितीयवान्भवति बुद्धिमान् वृद्धसेवया .. ४८..
यक्ष उवाच .
किं ब्राह्मणानां देवत्वं कश्च धर्मः सतामिव .
कश्चैषां मानुषो भावः किमेषामसतामिव .. ४९..
युधिष्ठिर उवाच .
स्वाध्याय एषां देवत्वं तप एषां सतामिव .
मरणं मानुषो भावः परिवादोऽसतामिव .. ५०..
यक्ष उवाच .
किं क्षत्रियाणां देवत्वं कश्च धर्मः सतामिव .
कश्चैषां मानुषो भावः किमेषामसतामिव .. ५१..
युधिष्ठिर उवच .
इष्वस्त्रमेषां देवत्वं यज्ञ एषां सतामिव .
भयं वै मानुषो भावः परित्यागोऽसतामिव .. ५२..
यक्ष उवाच .
किमेकं यज्ञियं साम किमेकं यज्ञियं यजुः .
का चैषां वृणुते यज्ञं कां यज्ञो नातिवर्तते .. ५३..
युधिष्ठिर उवाच .
प्राणो वै यज्ञियं साम मनो वै यज्ञियं यजुः .
ऋगेका वृणुते यज्ञं तां यज्ञो नातिवर्तते .. ५४..
यक्ष उवाच .
किंस्विदावपतां श्रेष्ठं किंस्विन्निवपतां वरम् .
किंस्वित्प्रतिष्ठमानानां किंस्वित्प्रसवतां वरम् .. ५५..
युधिष्ठिर उवाच .
वर्षमावततां श्रेष्ठं बीजं निवपतां वरम् .
गावः प्रतिष्ठमानानां पुत्रः प्रसवतां वरः .. ५६..
यक्ष उवाच .
इन्द्रियार्थाननुभवन् बुद्धिमाँल्लोकपूजितः .
संमतः सर्वभूतानामुच्छ्वसन् को न जीवति .. ५७..
युधिष्ठिर उवाच .
देवतातिथिभृत्यानां पितॄणामात्मनश्च यः .
न निर्वपति पञ्चानामुच्छ्वसन्न स जीवति .. ५८..
यक्ष उवाच .
किंस्विद्गुरुतरं भूमेः किंस्विदुच्चतरं च खात् .
किंस्विच्छीघ्रतरं वायोः किंस्विद्बहुतरं तृणात् .. ५९..
युधिष्ठिर उवाच .
माता गुरुतरा भूमेः खात् पितोच्चरस्तथा .
मनः शीघ्रतरं वाताच्चिन्ता बहुतरी तृणात् .. ६०..
यक्ष उवाच .
किंस्वित्सुप्तं न निमिषति किंस्विज्जातं न चोपति .
कस्यस्विद्धृदयं नास्ति किंस्विद्वेगेन वर्धते .. ६१..
युधिष्ठिर उवाच .
मत्स्यः सुप्तो न निमिषत्यण्डं जातं न चोपति .
अश्मनो हृदयं नास्ति नदी वेगेन वर्धते .. ६२..
यक्ष उवाच .
किंस्वित्प्रवसतो मित्रं किंस्विन्मित्रं गृहे सतः .
आतुरस्य च किं मित्रं किंस्विन्मित्रं मरिष्यतः .. ६३..
युधिष्ठिर उवाच .
सार्थः प्रवसतो मित्रं भार्या मित्रं गृहे सतः .
आतुरस्य भिषङ्मित्रं दानं मित्रं मरिष्यतः .. ६४..
यक्ष उवाच .
कोऽतिथिः सर्वभूतानां किंस्विद्धर्मं सनातनम् .
अमृतं किंस्विद्राजेन्द्र किंस्वित् सर्वमिदं जगत् .. ६५..
युधिष्ठिर उवाच .
अतिथिः सर्वभूतानामग्निः सोमो गवामृतम् .
सनातनोऽमृतो धर्मो वायुः सर्वमिदं जगत् .. ६६..
यक्ष उवाच .
किंस्विदेको विचरते जातः को जायते पुनः .
किंस्विद्धिमस्य भैषज्यं किंस्विदावपनं महत् .. ६७..
युधिष्ठिर उवाच .
सूर्य एको विचरते चन्द्रमा जायते पुनः .
अग्निर्हिमस्य भैषज्यं भूमिरापवनं महत् .. ६८..
यक्ष उवाच .
किंस्विदेकपदं धर्म्यं किंस्विदेकपदं यशः .
किंस्विदेकपदं स्वर्ग्यं किंस्विदेकपदं सुखम् .. ६९..
युधिष्ठिर उवाच .
दाक्ष्यमेकपदं धर्म्यं दानमेकपदं यशः .
सत्यमेकपदं स्वर्ग्यं शीलमेकपदं सुखम् .. ७०..
यक्ष उवाच .
किंस्विदात्मा मनुष्यस्य किंस्विद्दैवकृतः सखा .
उपजीवनं किंस्विदस्य किंस्विदस्य परायणम् .. ७१..
युधिष्ठिर उवाच .
पुत्र आत्मा मनुष्यस्य भार्या दैवकृतः सखा .
उपजीवनं च पर्जन्यो दानमस्य परायणम् .. ७२..
यक्ष उवाच .
धन्यानामुत्तमं किंस्विद् धनानां स्यात् किमुत्तमम् .
लाभानामुत्तमं किंस्यात् सुखानां स्यात्किमुत्तमम् .. ७३..
युधिष्ठिर उवाच .
धन्यानामुत्तमं दाक्ष्यं धनानामुत्तमं श्रुतम् .
लाभानां श्रेय आरोग्यं सुखानां तुष्टिरुत्तमा .. ७४..
यक्ष उवाच .
कश्च धर्मः परो लोके कश्च धर्मः सदा फलः .
किं नियम्य न शोचन्ति कैश्च सन्धिर्न जीर्यते .. ७५..
युधिष्ठिर उवाच .
आनृशंस्यं परो धर्मस्त्रयी धर्मः सदा फलः .
मनो यम्य न शोचन्ति सन्धिः सद्भिर्न जीर्यते .. ७६..
यक्ष उवाच .
किं नु हित्वा प्रियो भवति किं नु हित्वा न शोचति .
किं नु हित्वाऽर्थवान्भवति किं नु हित्वा सुखी भवेत् .. ७७..
युधिष्ठिर उवाच .
मानं हित्वा प्रियो भवति क्रोधं हित्वा न शोचति .
कामं हित्वाऽर्थवान्भवति लोभं हित्वा सुखी भवेत् .. ७८..
यक्ष उवाच .
किमर्थं ब्राह्मणे दानं किमर्थं नटनर्तके .
किमर्थं चैव भृत्येषु किमर्थं चैव राजसु .. ७९..
युधिष्ठिर उवाच .
धर्मार्थं ब्राह्मणे दानं यशोर्थं नटनर्तके .
भृत्येषु भरणार्थं वै भयार्थं चैव राजसु .. ८०..
यक्ष उवाच .
केन स्विदावृतो लोकः केन स्विन्न प्रकाशते .
केन त्यजति मित्राणि केन स्वर्गं न गच्छति .. ८१..
युधिष्ठिर उवाच .
अज्ञानेनावृतो लोकस्तमसा न प्रकाशते .
लोभात्त्यजति मित्राणि सङ्गात् स्वर्गं न गच्छति .. ८२..
यक्ष उवाच .
मृतः कथं स्यात्पुरुषः कथं राष्ट्रं मृतं भवेत् .
श्राद्धं मृतं कथं वा स्यात् कथं यज्ञो मृतो भवेत् .. ८३..
युधिष्ठिर उवाच .
मृतो दरिद्रः पुरुषो मृतं राष्ट्रमराजकम् .
मृतमश्रोत्रियं श्राद्धं मृतो यज्ञस्त्वदक्षिणः .. ८४..
यक्ष उवाच .
का दिक्किमुदकं प्रोक्तं किमन्नं किंच वै विषम् .
श्राद्धस्य कालमाख्याहि ततः पिब हरस्व च .. ८५..
युधिष्ठिर उवाच .
सन्तो दिग्जलमाकाशं गौरन्नं प्रार्थना विषम् .
श्राद्धस्य ब्राह्मणः कालः कथं वा यक्ष मन्यसे .. ८६..
यक्ष उवाच .
तपः किंलक्षणं प्रोक्तं को दमश्च प्रकीर्तितः .
क्षमा च का परा प्तोक्ता का च हृईः परिकीर्तिता .. ८७..
युधिष्ठिर उवाच .
तपः स्वधर्मवर्तित्वं मनसो दमनं दमः .
क्षमा द्वन्द्वसहिष्णुत्वं हृईरकार्यनिवर्तनम् .. ८८..
यक्ष उवाच .
किं ज्ञानं प्रोच्यते राजन् कः शमश्च प्रकीर्तितः .
दया च का परा प्रोक्ता किञ्चार्जवमुदाहृतम् .. ८९..
युधिष्ठिर उवाच .
ज्ञानं तत्त्वार्थसंबोधः शमश्चित्तप्रशान्तता .
दया सर्वसुखैषित्वमार्जवं समचित्तता .. ९०..
यक्ष उवाच .
कः शत्रुर्दुर्जयः पुंसां कश्च व्यादिरनन्तकः .
कीदृशश्च स्मृतः साधुरसाधुः कीदृशः स्मृतः .. ९१..
युधिष्ठिर उवाच .
क्रोधः सुदुर्जयः शत्रुर्लोभो व्यादिरनन्तकः .
सर्वभूतहितः साधुरसादुर्निर्दयः स्मृतः .. ९२..
यक्ष उवाच .
को मोहः प्रोच्यते राजन् कश्च मानः प्रकीर्तितः .
किमालस्यं च विज्ञेयं कश्च शोकः प्रकीर्तितः .. ९३..
युधिष्ठिर उवाच .
मोहो हि धर्ममूढत्वं मानस्त्वात्माभिमानिता .
धर्मनिष्क्रियताऽऽलस्यं शोकस्त्वज्ञानमुच्यते .. ९४..
यक्ष उवाच .
किं स्थैर्यमृषिभिः प्रोक्तं किं च धैर्यमुदाहृतम् .
स्नानं च किं परं प्रोक्तं दानं च किमिहोच्यते .. ९५..
युधिष्ठिर उवाच .
स्वधर्मे स्थिरता स्थैर्यं धैर्यमिन्द्रियनिग्रहः .
स्नानं मनोमलत्यागो दानं वै भूतरक्षणम् .. ९६..
यक्ष उवाच .
कः पण्डितः पुमान् ज्ञेयो नास्तिकः कश्च उच्यते .
को मूर्खः कश्च कामः स्यात् को मत्सर इति स्मृतः .. ९७..
युधिष्ठिर उवाच .
धर्मज्ञः पण्डितो ज्ञेयो नास्तिको मूर्ख उच्यते .
कामः संसारहेतुश्च हृत्तापो मत्सरः स्मृतः .. ९८..
यक्ष उवाच .
कोऽहङ्कार इति प्रोक्तः कश्च दंभः प्रकीर्तितः .
किं तद्दैवं परं प्रोक्तं किं तत्पैशुन्यमुच्यते .. ९९..
युधिष्ठिर उवाच .
महाज्ञानमहङ्कारो दम्भो धर्मो ध्वजोच्छ्रयः .
दैवं दानफलं प्रोक्तं पैशुन्यं परदूषणम् .. १००..
यक्ष उवाच .
धर्मश्चार्थश्च कामश्च परस्परविरोधिनः .
एषां नित्यविरुद्धानां कथमेकत्र सङ्गमः .. १०१..
युधिष्ठिर उवाच .
यदा धर्मश्च भार्या च परस्परवशानुगौ .
तदा धर्मार्थकामानां त्रयाणामपि सङ्गमः .. १०२..
यक्ष उवाच .
अक्षयो नरकः केन प्राप्यते भरतर्षभ .
एतन्मे पृच्छतः प्रश्नं तच्छीघ्रं वक्तुमर्हसि .. १०३..
युधिष्ठिर उवाच .
ब्राह्मणं स्वयमाहूय याचमानमकिञ्चनम् .
पश्चान्नस्तीति यो ब्रूयात् सोऽक्षयं नरकं व्रजेत् .. १०४..
वेदेषु धर्मशास्त्रेषु मिथ्या यो वै द्विजातिषु .
देवेषु पितृधर्मेषु सोऽक्षयं नरकं व्रजेत् .. १०५..
विद्यमाने धने लोभाद्दानभोगविवर्जितः .
पश्चान्नास्तीति यो ब्रूयात् सोऽक्षयं नरकं व्रजेत् .. १०६..
यक्ष उवाच .
राजन् कुलेन वृत्तेन स्वाध्यायेन श्रुतेन वा .
ब्राह्मण्यं केन भवति प्रब्रूह्येतत् सुनिश्चितम् .. १०७..
युधिष्ठिर उवाच .
श्रुणु यक्ष कुलं तात न स्वाध्यायो न च श्रुतम् .
कारणं हि द्विजत्वे च वृत्तमेव न संशयः .. १०८..
वृत्तं यत्नेन संरक्ष्यं ब्राह्मणेन विशेषतः .
अक्षीणवृत्तो न क्षीणो वृत्ततस्तु हतो हतः .. १०९..
पठकाः पाठकाश्चैव ये चान्ये शास्त्रचिन्तकाः .
सर्वे व्यसनिनो मूर्खा यः क्रियावान् स पण्डितः .. ११०..
चतुर्वेदोऽपि दुर्वृत्तः स शूद्रादतिरिच्यते .
योऽग्निहोत्रपरो दान्तः स ब्राह्मण इति स्मृतः .. १११..
यक्ष उवाच .
प्रियवचनवादी किं लभते
विमृशितकार्यकरः किं लभते .
बहुमित्रकरः किं लभते
धर्मे रतः किं लभते कथय .. ११२..
युधिष्ठिर उवाच .
प्रियवचनवादी प्रियो भवति
विमृशितकार्यकरोऽधिकं जयति .
बहुमित्रकरः सुखं वसते
यश्च धर्मरतः स गतिं लभते .. ११३..
यक्ष उवाच .
को मोदते किमाश्चर्यं कः पन्थाः का च वार्तिका .
वद मे चतुरः प्रश्नान् मृता जीवन्तु बान्धवाः .. ११४..
युधिष्ठिर उवाच .
पञ्चमेऽहनि षष्ठे वा शकं पचति स्वे गृहे .
अनृणी चाप्रवासी च स वारिचर मोदते .. ११५..
अहन्यहनि भूतानि गच्छन्तीह यमालयम् .
शेषाः स्थावरमिच्छन्ति किमाश्चर्यमतः परम् .. ११६..
तर्कोऽप्रतिष्ठः श्रुतयो विभिन्न
नैको ऋषिर्यस्य मतं प्रमाणम् .
धर्मस्य तत्त्वं निहितं गुहायां
महाजनो येन गतः स पन्थाः .. ११७..
अस्मिन् महामोहमये कटाहे
सूर्याग्निना रात्रिदिवेन्धनेन .
मासर्तुदर्वीपरिघट्टनेन
भूतानि कालः पचतीति वार्ता .. ११८..
यक्ष उवाच .
व्याख्याता मे त्वया प्रश्ना याथातथ्यं परन्तप .
पुरुषं त्विदानीं व्याख्याहि यश्च सर्वधनी नरः .. ११९..
युधिष्ठिर उवाच .
दिवं स्पृशति भूमिं च शब्दः पुण्येन कर्मणा .
यावत्स शब्दो भवति तावत्पुरुष उच्यते .. १२०..
तुल्ये प्रियाप्रिये यस्य सुखदुःखे तथैव च .
अतीतानागते चोभे स वै सर्वधनी नरः .. १२१..
यक्ष उवाच .
व्याख्यातः पुरुषो राजन्यश्च सर्वधनी नरः .
तस्मात्त्वमेकं भ्रातॄणां यमिच्छसि स जीवतु .. १२२..
युधिष्ठिर उवाच .
श्यामो य एष रक्ताक्षो बृहच्छाल इवोत्थितः .
व्यूढोरस्को महाबाहुर्नकुलो यक्ष जीवतु .. १२३..
यक्ष उवाच .
प्रियस्ते भीमसेनोऽयमर्जुनो वः परायणम् .
स कस्मान्नकुलो राजन्सापत्नं जीवमिच्छसि .. १२४..
यस्य नागसहस्रेण दशसङ्ख्येन वै बलम् .
तुल्यं तं भीममुत्सृज्य नकुलं जीवमिच्छसि .. १२५..
तथैनं मनुजाः प्राहुर्भीमसेनं प्रियं तव .
अथ केनानुभावेन सापत्नं जीवमिच्छसि .. १२६..
यस्य बाहुबलं सर्वे पाण्डवाः समुपासते .
अर्जुनं तमपाहाय नकुलं जीवमिच्छसि .. १२७..
युधिष्ठिर उवाच .
धर्म एव हतो हन्ति धर्मो रक्षति रक्षितः .
तस्माद्धर्मं न त्यजामि मा नो धर्मो हतोऽवधीत् .. १२८..
आनृशंस्यं परो धर्मः परमार्थाच्च मे मतम् .
आनृशंस्यं चिकीर्षामि नकुलो यक्ष जीवतु .. १२९..
धर्मशीलः सदा राजा इति मां मानवा विदुः .
स्वधर्मान्न चलिष्यामि नकुलो यक्ष जीवतु .. १३०..
कुन्ती चैव माद्री च द्वे भार्ये तु पितुर्मम .
उभे सपुत्रे स्यातां वै इति मे धीयते मतिः .. १३१..
यथा कुन्ती तथा माद्री विशेषो नास्ति मे तयोः .
मातृभ्यां सममिच्छामि नकुलो यक्ष जीवतु .. १३२..
यक्ष उवाच .
तस्य तेऽर्थाच्च कामाच्च आनृशंस्यं परं मतम् .
तस्मात्ते भ्रातरः सर्वे जीवन्तु भरतर्षभ .. १३३..
इति श्रीमहाभारते आरण्यके पर्वणि आरणेयपर्वणि यक्षप्रश्ने
त्रयोदशाधिकत्रिशततमोऽध्यायः
.. इति..