संज्ञान सूक्तम्
सं गच्छध्वं सं वदध्वं सं वो मनांसि जानताम् .
देवा भागं यथा पूर्वे संजानाना उपासते ..
समानो मन्त्रः समितिः समानी
समानं मनः सह चित्तमेषाम् .
समानं मन्त्रमभिमन्त्रये वः
समानेन वो हविषा जुहोमि ..
समानी व आकूतिः समाना हृदयानि वः .
समानमस्तु वो मनो यथा वः सुसहासति ..
ऋग्वेद मंडल १०:१९१:२-३-४