ऋग्वेद: सूक्तं १.७
इन्द्रमिद गाथिनो बर्हदिन्द्रमर्केभिरर्किणः ।
इन्द्रं वाणीरनूषत ॥
इन्द्र इद धर्योः सचा सम्मिश्ल आ वचोयुजा ।
इन्द्रो वज्रीहिरण्ययः ॥
इन्द्रो दीर्घाय चक्षस आ सूर्यं रोहयद दिवि ।
वि गोभिरद्रिमैरयत ॥
इन्द्र वाजेषु नो.अव सहस्रप्रधनेषु च ।
उग्र उग्राभिरूतिभिः ॥
इन्द्रं वयं महाधन इन्द्रमर्भे हवामहे ।
युजं वर्त्रेषु वज्रिणम ॥
स नो वर्षन्नमुं चरुं सत्रादावन्नपा वर्धि ।
अस्मभ्यमप्रतिष्कुतः ॥
तुञ्जे-तुञ्जे य उत्तरे सतोमा इन्द्रस्य वज्रिणः ।
न विन्धेस्य सुष्टुतिम ॥
वर्षा यूथेव वंसगः कर्ष्टीरियर्त्योजसा ।
ईशानो अप्रतिष्कुतः ॥
य एकश्चर्षणीनां वसूनामिरज्यति ।
इन्द्रः पञ्च कसितीनाम ॥
इन्द्रं वो विश्वतस परि हवामहे जनेभ्यः ।
अस्माकमस्तु केवलः ॥