कपिलमुनिप्रणीत तत्त्वसमास
अथातस्तत्त्वसमासः || १||
अष्टौ प्रकृतयः || २||
षोडश विकाराः || ३||
पुरुषः || ४||
त्रैगुण्यम् || ५||
संचरः प्रतिसंचरः || ६||
अध्यात्ममधिभूतमधिदैवं च || ७||
पञ्चाभिबुद्धयः || ८||
पञ्च दृग्योनयः || ९||
पञ्च वायवः || १०||
पञ्च कर्मात्मानः || ११||
पञ्चपर्वा अविद्या || १२||
अष्टाविंशतिधाऽशक्तिः || १३||
नवधा तुष्टिः || १४||
अष्टधा सिद्धिः || १५||
दश मौलिकार्थाः || १६||
अनुग्रहः सर्गः || १७||
चतुर्दशविधो भूतसर्गः || १८||
त्रिविधो बन्धः || १९||
त्रिविधो मोक्षः || २०||
त्रिविधं प्रमाणम् || २१||
|| इति ||