S.D. Human Development, Research & Training Center | वैशेषिकसूत्रम् वैशेषिकसूत्रम् | S.D. Human Development, Research & Training Center
सनातन धर्म मानव विकास शोध एवम् प्रशिक्षण केन्द्र
Sanatan Dharma Human Development, Research & Training Center
Tie-Ups
  • Amity Centre for Sanskrit and Indic Studies Amity University, Gurugram
  • Punjabi University, Patiala
  • Guru Nanak Girls College, Santpura, Yamunanagar
  • D.A.V. College For Girls, Yamunanagar
  • Mata Sundri Khalsa Girls College – Nissing, Karnal
  • D.A.V. College, Pehowa
  • M.P.N. College, Mullana

वैशेषिकसूत्रम्

अथातो धर्मं व्याख्यास्यामः । वैशेषिक-१,१.१ ।

यतो ऽभ्युदयनिःश्रेयससिद्धिः स धर्मः । वैशेषिक-१,१.२ ।

तद्वचनादाम्नायस्य प्रामाण्यम् । वैशेषिक-१,१.३ ।

धर्मविशेष प्रसूतात् द्रव्यगुणकर्मसामान्य विशेषसमवायानां पदार्थानां साधर्म्यवैधर्म्याभ्यां तत्त्वज्ञानान्निःश्रेयसम् । वैशेषिक-१,१.४ ।

पृथिव्यापस्तेजो वायुराकाशं कालो दिगात्मा मन इति द्रव्याणि । वैशेषिक-१,१.५ ।

रुपरसगन्धस्पर्शाः संख्याः परिमाणानि पृथक्त्वं संयोगविभागौ परत्वापरत्वे बुद्धयः सुखदुःखे इच्छाद्वेषौ प्रयत्नाश्च गुणाः । वैशेषिक-१,१.६ ।

उत्क्षेपणमवक्षेपणं आकुञ्चनं प्रसारणं गमनमिति कर्माणि । वैशेषिक-१,१.७ ।

सदनित्यं द्रव्यवत् कार्यं कारणं सामान्यविशेषवदिति द्रव्यगुणकर्मणामविशेषः । वैशेषिक-१,१.८ ।

द्रव्यगुणयोः सजातीयारम्भकत्वं साधर्म्यम् । वैशेषिक-१,१.९ ।

द्रव्याणि द्रव्यान्तरमारभन्ते गुणाश्च गुणान्तरम् । वैशेषिक-१,१.१० ।

कर्म कर्मसाध्यं न विद्यते । वैशेषिक-१,१.११ ।

न द्रव्यं कारणं च भवति । वैशेषिक-१,१.१२ ।

उभयथा गुणाः । वैशेषिक-१,१.१३ ।

कार्यविरोधि कर्म । वैशेषिक-१,१.१४ ।

क्रियागुणवत् समवायिकारणमिति द्रव्यलक्षणम् । वैशेषिक-१,१.१५ ।

द्रव्याश्रय्यगुणवान् संयोगविभागेष्वकारणमनपेक्ष इति गुणलक्षणम् । वैशेषिक-१,१.१६ ।

एकद्रव्यमगुणं संयोगविभागेष्वनपेक्ष कारणमिति कर्मलक्षणम् । वैशेषिक-१,१.१७ ।

द्रव्यगुणकर्मणां द्रव्यं कारणं सामान्यम् । वैशेषिक-१,१.१८ ।

तथा गुणः । वैशेषिक-१,१.१९ ।

संयोगविभागवेगानां कर्म समानम् । वैशेषिक-१,१.२० ।

न द्रव्याणां कर्म । वैशेषिक-१,१.२१ ।

व्यतिरेकात् । वैशेषिक-१,१.२२ ।

द्रव्याणां द्रव्यं कार्यं सामान्यम् । वैशेषिक-१,१.२३ ।

गुणवैधर्म्यान्न कर्मणां कर्म । वैशेषिक-१,१.२४ ।

द्वित्वप्रभृतयः संख्याः पृथक्त्व संयोग विभागाश्च । वैशेषिक-१,१.२५ ।

असमवायात् सामान्यकार्यं कर्म न विद्यते । वैशेषिक-१,१.२६ ।

संयोगानां द्रव्यम् । वैशेषिक-१,१.२७ ।

रूपाणां रूपम् । वैशेषिक-१,१.२८ ।

गुरुत्वप्रयत्नसंयोगानामुत्क्षेपणम् । वैशेषिक-१,१.२९ ।

संयोगविभागाश्च कर्मणाम् । वैशेषिक-१,१.३० ।

कारणसामान्ये द्रव्यकर्मणां कर्माकारणमुक्तम् । वैशेषिक-१,१.३१ ।

कारणाभावात् कार्याभावः । वैशेषिक-१,२.१ ।

न तु कार्याभावात् कारणाभावः । वैशेषिक-१,२.२ ।

सामान्यविशेष इति बुद्ध्यपेक्षम् । वैशेषिक-१,२.३ ।

भावो ऽनुवृत्तेरेव हेतुत्वात् सामान्यमेव । वैशेषिक-१,२.४ ।

द्रव्यत्वं गुणत्वं कर्मत्वं च सामान्यानि विशेषाश्च । वैशेषिक-१,२.५ ।

अन्यत्रान्त्येभ्यो विशेषेभ्यः । वैशेषिक-१,२.६ ।

सदिति यतो द्रव्यगुणकर्मसु सा सत्ता । वैशेषिक-१,२.७ ।

द्रव्यगुणकर्मभ्योर्ऽथान्तरं सत्ता । वैशेषिक-१,२.८ । गुणकर्मसु च भावान्न कर्म न गुणः । वैशेषिक-१,२.९ ।

सामान्यविशेषाभावेन च । वैशेषिक-१,२.१० ।

अनेकद्रव्यवत्त्वेन द्रव्यत्वमुक्तम् । वैशेषिक-१,२.११ ।

सामान्यविशेषाभावेन च । वैशेषिक-१,२.१२ ।

तथा गुणेषु भावाद्गुणत्वमुक्तम् । वैशेषिक-१,२.१३ ।

सामान्यविशेषाभावेन च । वैशेषिक-१,२.१४ ।

कर्मसु भावात्कर्मत्वमुक्तम् । वैशेषिक-१,२.१५ ।

सामान्यविशेषाभावेन च । वैशेषिक-१,२.१६ ।

सदिति लिङ्गाविशेषात् विशेषलिङ्गाभावाच्चैको भावः । वैशेषिक-१,२.१७ ।

रूपरसगन्धस्पर्शवती पृथिवी । वैशेषिक-२,१.१ ।

रूपरसस्पर्शवत्य आपो द्रवाः स्निग्धाः । वैशेषिक-२,१.२ ।

तेजो रूपस्पर्शवत् । वैशेषिक-२,१.३ ।

स्पर्शवान् वायुः । वैशेषिक-२,१.४ ।

त आकाशे न विद्यन्ते । वैशेषिक-२,१.५ ।

सर्पिर्जतुमधूच्छिष्टानां अग्निसंयोगाद्द्रवत्वमद्भिः सामान्यम् । वैशेषिक-२,१.६ ।

त्रपुसीस लोह रजत सुवर्णानामग्निसंयोगाद्द्रवत्वमद्भिः सामान्यम् । वैशेषिक-२,१.७ ।

विषाणी ककुद्मान् प्रान्तेवालधिः सास्नावान् इति गोत्वे दृष्टं लिङ्गम् । वैशेषिक-२,१.८ ।

स्पर्शश्च वायोः । वैशेषिक-२,१.९ ।

न च दृष्टानां स्पर्श इत्यदृष्टलिङ्गो वायुः । वैशेषिक-२,१.१० ।

अद्रव्यवत्त्वेन द्रव्यम् । वैशेषिक-२,१.११ ।

क्रियावत्त्वात् गुणवत्त्वाच्च । वैशेषिक-२,१.१२ ।

अद्रव्यत्वेन नित्यत्वमुक्तम् । वैशेषिक-२,१.१३ ।

वायोर्वायुसंमूर्छनं नानात्वलिङ्गम् । वैशेषिक-२,१.१४ ।

वायुसन्निकर्षे प्रत्यक्षाभावात् दृष्टं लिङ्गं न विद्यते । वैशेषिक-२,१.१५ ।

सामान्यतो दृष्टाच्चाविशेषः । वैशेषिक-२,१.१६ ।

तस्मादागमिकम् । वैशेषिक-२,१.१७ ।

संज्ञाकर्म त्वस्मद्विशिष्टानां लिङ्गम् । वैशेषिक-२,१.१८ ।

प्रत्यक्षप्रवृत्तत्वात् संज्ञाकर्मणः । वैशेषिक-२,१.१९ ।

निष्क्रमणं प्रवेशनमित्याकाशस्य लिङ्गम् । वैशेषिक-२,१.२० ।

तदलिङ्गमेकद्रव्यत्वात् कर्मणः । वैशेषिक-२,१.२१ ।

कारणान्तरानुकिप्ति वैधर्म्याच्च । वैशेषिक-२,१.२२ ।

संयोगादभावः कर्मणः । वैशेषिक-२,१.२३ ।

कारणगुणपूर्वकः कार्यगुणो दृष्टः । वैशेषिक-२,१.२४ ।

कार्यान्तराप्रादुर्भावाच्च शब्दः स्पर्शवतामगुणः । वैशेषिक-२,१.२५ ।

परत्र समवायात् प्रत्यक्षत्वाच्च नात्मगुणो न मनोगुणः । वैशेषिक-२,१.२६ ।

परिशेषाल्लिङ्गमाकाशस्य । वैशेषिक-२,१.२७ ।

द्रव्यत्वनित्यत्वे वायुना व्याख्याते । वैशेषिक-२,१.२८ ।

तत्त्वम्भावेन । वैशेषिक-२,१.२९ ।

शब्दालिङ्गाविशेषाद्विशेषलिङ्गाभावाच्च । वैशेषिक-२,१.३० ।

तदनुविधानादेकपृथक्त्वञ्चेति । वैशेषिक-२,१.३१ ।

पुष्पवस्त्रयोः सति सन्निकर्षे गुणान्तराप्रादुर्भावो वस्त्रे गन्धाभावलिङ्गम् । वैशेषिक-२,२.१ ।

व्यवस्थितः पृथिव्यां गन्धः । वैशेषिक-२,२.२ ।

एतेनोष्णता व्याख्याता । वैशेषिक-२,२.३ ।

तेजस उष्णता । वैशेषिक-२,२.४ ।

अप्सु शीतता । वैशेषिक-२,२.५ ।

अपरस्मिन्नपरं युगपत् चिरं क्षिप्रमिति काललिङ्गानि । वैशेषिक-२,२.६ ।

द्रव्यत्व नित्यत्वे वायुना व्याख्याते । वैशेषिक-२,२.७ ।

तत्त्वम्भावेन । वैशेषिक-२,२.८ ।

नित्योष्वभावादनित्येषु भावात् कारणे कालाख्येति । वैशेषिक-२,२.९ ।

इत इदमिति यतस्तद्दिश्यं लिङ्गम् । वैशेषिक-२,२.१० ।

द्रव्यत्व नित्यत्वे वायुना व्याख्याते । वैशेषिक-२,२.११ ।

तत्त्वम्भावेन । वैशेषिक-२,२.१२ ।

कार्यविशेषेण नानात्वम् । वैशेषिक-२,२.१३ ।

आदित्यसंयोगात् भूतपूर्वात् भविष्यतो भूताच्च प्राची । वैशेषिक-२,२.१४ ।

तथा दक्षिणा प्रतीची उदीची च । वैशेषिक-२,२.१५ ।

एतेन दिगन्तरालानि व्याख्यातानि । वैशेषिक-२,२.१६ ।

सामान्यप्रत्यक्षाद्विशेषस्मृतेश्च संशयः । वैशेषिक-२,२.१७ ।

दृष्टञ्च दृष्टवत् । वैशेषिक-२,२.१८ ।

यथादृष्टमयथादृष्टत्वाच्च । वैशेषिक-२,२.१९ ।

विद्याविद्यातश्च संशयः । वैशेषिक-२,२.२० ।

श्रोत्रग्रहणो योर्ऽथः स शब्दः । वैशेषिक-२,२.२१ ।

तुल्यजातीयेष्वर्थान्तरभूतेषु विशेषस्य उभयथा दृष्टत्वात् । वैशेषिक-२,२.२२ ।

एकद्रव्यत्वान्न द्रव्यम् । वैशेषिक-२,२.२३ ।

नापि कर्माचाक्षुषत्वात् । वैशेषिक-२,२.२४ ।

गुणस्य सतो ऽपवर्गः कर्मभिः साधर्म्यम् । वैशेषिक-२,२.२५ ।

सतो लिङ्गाभावात् । वैशेषिक-२,२.२६ ।

नित्यवैधर्म्यात् । वैशेषिक-२,२.२७ ।

अनित्यश्चायं कारणतः । वैशेषिक-२,२.२८ ।

ज चासिद्धं विकारात् । वैशेषिक-२,२.२९ ।

अभिव्यक्तौ दोषात् । वैशेषिक-२,२.३० ।

संयोगाद्विभागाच्च शब्दाच्च शब्दनिष्पत्तिः । वैशेषिक-२,२.३१ ।

लिङ्गाच्चानित्यः शब्दः । वैशेषिक-२,२.३२ ।

द्वयोस्तु प्रवृत्त्योरभावात् । वैशेषिक-२,२.३३ ।

प्रथमाशब्दात् । वैशेषिक-२,२.३४ ।

सम्प्रतिपत्तिभावाच्च । वैशेषिक-२,२.३५ ।

सन्दिग्धाः सति बहुत्वे । वैशेषिक-२,२.३६ ।

संख्याभावः सामान्यतः । वैशेषिक-२,२.३७ ।

प्रसिद्धा इन्द्रियार्थाः । वैशेषिक-३,१.१ ।

इन्द्रियार्थाप्रसिद्धिरिन्द्रियार्थेभ्योर्ऽथान्तरस्य हेतुः । वैशेषिक-३,१.२ ।

सो ऽनपदेशः । वैशेषिक-३,१.३ ।

कारणाज्ञानात् । वैशेषिक-३,१.४ ।

कार्येषु ज्ञानात् । वैशेषिक-३,१.५ ।

अज्ञानाच्च । वैशेषिक-३,१.६ ।

अन्यदेव हेतुरित्यनपदेशः । वैशेषिक-३,१.७ ।

अर्थान्तरं ह्यर्थान्तरस्यानपदेशः । वैशेषिक-३,१.८ ।

संयोगि समवाय्येकार्थसमवायि विरोधि च । वैशेषिक-३,१.९ ।

कार्यं कार्यान्तरस्य । वैशेषिक-३,१.१० ।

विरोध्यभूतं भूतस्य । वैशेषिक-३,१.११ ।

भूतमभूतस्य । वैशेषिक-३,१.१२ ।

भूतो भूतस्य । वैशेषिक-३,१.१३ ।

प्रसिद्धिपूर्वकत्वादपदेशस्य । वैशेषिक-३,१.१४ ।

अप्रसिद्धो ऽनपदेशो ऽसन् सन्दिग्धश्चानपदेशः । वैशेषिक-३,१.१५ ।

यस्माद्विषाणी तस्मादश्वः । वैशेषिक-३,१.१६ ।

यस्माद्विषाणी तस्माद्गौरितिचानैकान्तिकस्योदाहरणम् । वैशेषिक-३,१.१७ ।

आत्मेन्द्रियार्थसन्निकर्षाद्यन्निष्पद्यते तदन्यत् । वैशेषिक-३,१.१८ ।

प्रवृत्तिनिवृत्ती च प्रत्यगात्मनि दृष्टे परत्र लिङ्गम् । वैशेषिक-३,१.१९ ।

आत्मेन्द्रियार्थसन्निकर्षज्ञानस्य भावो ऽभावश्च मनसो लिङ्गम् । वैशेषिक-३,२.१ ।

तस्य द्रव्यत्व नित्यत्वे वायुना व्याख्याते । वैशेषिक-३,२.२ ।

प्रयत्नायौगपद्याज्ज्ञानायौगपद्याच्चैकम् । वैशेषिक-३,२.३ ।

प्राणापाननिमेषोन्मेषजीवनमनोगतीन्द्रियान्तर विकाराः सुखदुःखेच्छाद्वेष प्रयत्नाश्चात्मनो लिङ्गानि । वैशेषिक-३,२.४ ।

तस्य द्रव्यत्वनित्यत्वे वायुना व्याख्याते । वैशेषिक-३,२.५ ।

यज्ञदत्त इति सन्निकर्षे प्रत्यक्षाभावात् दृष्टं लिङ्गं न विद्यते । वैशेषिक-३,२.६ ।

सामान्यतो दृष्टाच्चाविशेषः । वैशेषिक-३,२.७ ।

तस्मादागमिकः । वैशेषिक-३,२.८ ।

अहमिति शब्दस्य व्यतिरेकान्नागमिकम् । वैशेषिक-३,२.९ ।

यदि दृष्टमन्वक्षमहं देवदत्तो ऽहं यज्ञदत्त इति । वैशेषिक-३,२.१० ।

दृष्ट्यात्मनि लिङ्गे एक एव दृढत्वात् प्रत्यक्षवत् प्रत्ययः । वैशेषिक-३,२.११ ।

देवदत्तो गच्छति यज्ञदत्तो गच्छतीत्युपचाराच्छरीरे प्रत्ययः । वैशेषिक-३,२.१२ ।

सन्दिग्धास्तूपचाराः । वैशेषिक-३,२.१३ ।

अहमिति प्रत्यगात्मनि भावात् परत्राभावादर्थान्तर प्रत्यक्षः । वैशेषिक-३,२.१४ ।

देवदत्तो गच्छतीत्युपचारादभिमानात्तावच्छरीरप्रत्यक्षो ऽहङ्कारः । वैशेषिक-३,२.१५ ।

सन्दिग्धस्तूपचारः । वैशेषिक-३,२.१६ ।

न तु शरीरविशेषाद्यज्ञदत्त विष्णुमित्रयोर्ज्ञानविषयः । वैशेषिक-३,२.१७ ।

अहमिति मुख्ययोग्याभ्यां शब्दवद्व्यतिरेकाव्यभिचाराद्विशेष सिद्धेर्नागमिकः । वैशेषिक-३,२.१८ ।

सुखदुःख ज्ञाननिष्पत्त्यविशेषादैकात्म्यम् । वैशेषिक-३,२.१९ ।

व्यवस्थातो नाना । वैशेषिक-३,२.२० ।

शास्त्रसामर्थ्याच्च । वैशेषिक-३,२.२१ ।

सदकारणवन्नित्यम् । वैशेषिक-४,१.१ ।

तस्य कार्यं लिङ्गम् । वैशेषिक-४,१.२ ।

कारणभावात् कार्याभावः । वैशेषिक-४,१.३ ।

अनित्य इति विशेषतः प्रतिषेधभावः । वैशेषिक-४,१.४ ।

अविद्या । वैशेषिक-४,१.५ ।

महत्यनेकद्रव्यवत्त्वात् रूपाच्चोपलब्धिः । वैशेषिक-४,१.६ ।

सत्यपि द्रव्यत्वे महत्त्वे रूपसंस्काराभावाद्वायोरनुपलब्धिः । वैशेषिक-४,१.७ ।

अनेकद्रव्यसमवायात् रूपविशेषाच्च रूपोपलब्धिः । वैशेषिक-४,१.८ ।

तेन रसगन्धस्पर्शेषु ज्ञानं व्याख्यातम् । वैशेषिक-४,१.९ ।

तस्याभावादव्यभिचारः । वैशेषिक-४,१.१० ।

संख्याः परिमाणानि पृथक्त्वं संयोग विभागौ परत्वापरत्वे कर्म च रूपद्रव्यसमवायात् चाक्षुषाणि । वैशेषिक-४,१.११ ।

अरूपिष्वचाक्षुषाणि । वैशेषिक-४,१.१२ ।

एतेन गुणत्वे भावे च सर्वेन्द्रियं ज्ञानं व्याख्यातम् । वैशेषिक-४,१.१३ ।

तत्पुनः पृथिव्यादिकार्यद्रव्यं त्रिविधं शरीरेन्द्रियविषयसंज्ञकम् । वैशेषिक-४,२.१ ।

प्रत्यक्षाप्रत्यक्षाणां संयोगस्याप्रत्यक्षत्वात् पञ्चात्मकं न विद्यते । वैशेषिक-४,२.२ ।

गुणान्तराप्रादुर्भावाच्च न त्र्यात्मकम् । वैशेषिक-४,२.३ ।

अणुसंयोगस्त्वप्रतिषिद्धः । वैशेषिक-४,२.४ ।

तत्र शरीरं द्विविधं योनिजमयोनिजं च । वैशेषिक-४,२.५ ।

अनियतदिग्देशपूर्वकत्वात् । वैशेषिक-४,२.६ ।

धर्मविशेषाच्च । वैशेषिक-४,२.७ ।

समाख्याभावाच्च । वैशेषिक-४,२.८ ।

संज्ञाया आदित्वात् । वैशेषिक-४,२.९ ।

सन्त्ययोनिजाः । वैशेषिक-४,२.१० ।

वेदलिङ्गाच्च । वैशेषिक-४,२.११ ।

आत्मसंयोग प्रयत्नाभ्यां हस्ते कर्म । वैशेषिक-५,१.१ ।

तथा हस्तसंयोगाच्च मुसले कर्म । वैशेषिक-५,१.२ ।

अभिघातजे मुसलादौ कर्मणि व्यतिरेकादकारणं हस्तसंयोगः । वैशेषिक-५,१.३ ।

तथात्मसंयोगो हस्तकर्मणि । वैशेषिक-५,१.४ ।

अभिघातान्मुसलसंयोगाद्धस्ते कर्म । वैशेषिक-५,१.५ ।

आत्मकर्म हस्तसंयोगाच्च । वैशेषिक-५,१.६ ।

संयोगाभावे गुरुत्वात् पतनम् । वैशेषिक-५,१.७ ।

नोदनविशेषाभावान्नोर्ध्वं न तिर्यग्गमनम् । वैशेषिक-५,१.८ ।

प्रयत्नविशेषान्नोदन विशेषः । वैशेषिक-५,१.९ ।

नोदनविशेषादुदसनविशेषः । वैशेषिक-५,१.१० ।

हस्तकर्मणा दारककर्म व्याख्यातम् । वैशेषिक-५,१.११ ।

तथा दग्धस्य विस्फोटने । वैशेषिक-५,१.१२ ।

यत्नाभावे प्रसुप्तस्य चलनम् । वैशेषिक-५,१.१३ ।

तृणे कर्म वायुसंयोगात् । वैशेषिक-५,१.१४ ।

मणिगमनं सूच्यभिसर्पणमदृष्टकारणम् । वैशेषिक-५,१.१५ ।

इषावयुगपत् संयोगविशेषाः कर्मान्यत्वे हेतुः । वैशेषिक-५,१.१६ ।

नोदनादाद्यमिषोः कर्म तत्कर्मकारिताच्च संस्कारादुत्तरं तथोत्तरमुत्तरं च । वैशेषिक-५,१.१७ ।

संस्काराभावे गुरुत्वात् पतनम् । वैशेषिक-५,१.१८ ।

नोदनाभिघातात् संयुक्तसंयोगाच्च पृथिव्यां कर्म । वैशेषिक-५,२.१ ।

तद्विशेषेणादृष्टकारितम् । वैशेषिक-५,२.२ ।

अपां संयोगाभावे गुरुत्वात् पतनम् । वैशेषिक-५,२.३ ।

द्रवत्वात् स्यन्दनम् । वैशेषिक-५,२.४ ।

नाड्या वायुसंयोगादारोहणम् । वैशेषिक-५,२.५ ।

नोदनापीडनात् संयुक्तसंयोगाच्च । वैशेषिक-५,२.६ ।

वृक्षाभिसर्पणमित्यदृष्टकारितम् । वैशेषिक-५,२.७ ।

अपां सङ्घातो विलयनं च तेजः संयोगात् । वैशेषिक-५,२.८ ।

तत्र विस्फूर्जतुर्लिङ्गम् । वैशेषिक-५,२.९ ।

वैदिकं च । वैशेषिक-५,२.१० ।

अपां संयोगाद्विभागाच्च स्तनयित्नोः । वैशेषिक-५,२.११ ।

पृथिवीकर्मणा तेजः कर्म वायुकर्म च व्याख्यातम् । वैशेषिक-५,२.१२ ।

अग्नेरूर्ध्वज्वलनं वायोस्तिर्यग्गमनं अणूनां मनसश्चाद्यं कर्मादृष्टकारितम् । वैशेषिक-५,२.१३ ।

हस्तकर्मणा मनसः कर्म व्याख्यातम् । वैशेषिक-५,२.१४ ।

आत्मेन्द्रियमनोर्ऽथसन्निकर्षात् सुख दुःखे । वैशेषिक-५,२.१५ ।

तदनारम्भ आत्मस्थे मनसि शरीरस्य दुःखाभावः संयोगः । वैशेषिक-५,२.१६ ।

अपसर्पणमुपसर्पणमशित पीतसंयोगाः कार्यान्तर संयोगाश्चेत्यदृष्टकारितानि । वैशेषिक-५,२.१७ ।

तदभावे संयोगाभावो ऽप्रादुर्भावश्च मोक्षः । वैशेषिक-५,२.१८ ।

द्रव्यगुणकर्मनिष्पत्तिवैधर्म्यादभावस्तमः । वैशेषिक-५,२.१९ ।

तेजसो द्रव्यान्तरेणावरणाच्च । वैशेषिक-५,२.२० ।

दिक्कालावाकाशं च क्रियावद्वैधर्म्यान्निष्क्रियाणि । वैशेषिक-५,२.२१ ।

एतेन कर्माणि गुणाश्च व्याख्याताः । वैशेषिक-५,२.२२ ।

निष्क्रियाणां समवायः कर्मभ्यो निषिद्धः । वैशेषिक-५,२.२३ ।

कारणं त्वसमवायिनो गुणाः । वैशेषिक-५,२.२४ ।

गुणैर्दिक् व्याख्याता । वैशेषिक-५,२.२५ ।

कारणेन कालः । वैशेषिक-५,२.२६ ।

बुद्धिपूर्वा वाक्यकृतिर्वेदे । वैशेषिक-६,१.१ ।

ब्राह्मणे संज्ञाकर्म सिद्धिलिङ्गम् । वैशेषिक-६,१.२ ।

बुद्धिपूर्वो ददातिः । वैशेषिक-६,१.३ ।

तथा प्रतिग्रहः । वैशेषिक-६,१.४ ।

आत्मान्तरगुणानामात्मान्तरे ऽकारणत्वात् । वैशेषिक-६,१.५ ।

तद्दुष्टभोजने न विद्यते । वैशेषिक-६,१.६ ।

दुष्टं हिंसायाम् । वैशेषिक-६,१.७ ।

तस्य समभिव्याहारतो दोषः । वैशेषिक-६,१.८ ।

तददुष्टे न विद्यते । वैशेषिक-६,१.९ ।

पुनर्विशिष्टे प्रवृत्तिः । वैशेषिक-६,१.१० ।

समे हीने वा प्रवृत्तिः । वैशेषिक-६,१.११ ।

एतेन हीनसमविशिष्ट धार्मिकेभ्यः परस्वादानं व्याख्यातम् । वैशेषिक-६,१.१२ ।

तथा विरुद्धानां त्यागः । वैशेषिक-६,१.१३ ।

हीने परे त्यागः । वैशेषिक-६,१.१४ ।

समे आत्मत्यागः परत्यागो वा । वैशेषिक-६,१.१५ ।

विशिष्टे आत्मत्याग इति । वैशेषिक-६,१.१६ ।

दृष्टादृष्ट प्रयोजनानां दृष्टाभावे प्रयोजनमभ्युदयाय । वैशेषिक-६,२.१ ।

अभिषेचनोपवास ब्रह्मचर्यगुरुकुलवासवानप्रस्थ यज्ञदान प्रोक्षणदिङ्नक्षत्रमन्त्रकालनियमाश्चादृष्टाय । वैशेषिक-६,२.२ ।

चातुराश्रम्यमुपधा अनुपधाश्च । वैशेषिक-६,२.३ ।

भावदोष उपधादोषो ऽनुपधा । वैशेषिक-६,२.४ । यदिष्टरूपरसगन्धस्पर्शं प्रोक्षितमभ्युक्षितं च तच्छुचि । वैशेषिक-६,२.५ ।

अशुचीति शुचिप्रतिषेधः । वैशेषिक-६,२.६ ।

अर्थान्तरं च । वैशेषिक-६,२.७ ।

अयतस्य शुचिभोजनादभ्युदयो न विद्यते नियमाभावाद् विद्यते वार्ऽथान्तरत्वाद् यमस्य । वैशेषिक-६,२.८ ।

असति चाभावात् । वैशेषिक-६,२.९ ।

सुखाद्रागः । वैशेषिक-६,२.१० ।

तन्मयत्वाच्च । वैशेषिक-६,२.११ ।

अदृष्टाच्च । वैशेषिक-६,२.१२ ।

जातिविशेषाच्च । वैशेषिक-६,२.१३ ।

इच्छाद्वेषपूर्विका धर्माधर्म प्रवृत्तिः । वैशेषिक-६,२.१४ ।

तत्संयोगो विभागः । वैशेषिक-६,२.१५ ।

आत्मकर्मसु मोक्षो व्याख्यातः । वैशेषिक-६,२.१६ ।

उक्ता गुणाः । वैशेषिक-७,१.१ ।

पृथिव्यादि रूपरसगन्धस्पर्शा द्रव्यानित्यत्वादनित्याश्च । वैशेषिक-७,१.२ ।

एतेन नित्येषु नित्यत्वमुक्तम् । वैशेषिक-७,१.३ ।

अप्सु तेजसि वायौ च नित्या द्रव्यनित्यवात् । वैशेषिक-७,१.४ ।

अनित्येष्वनित्या द्रव्यानित्यत्वात् । वैशेषिक-७,१.५ ।

कारणगुणपूर्वकाः पृथिव्यां पाकजाः । वैशेषिक-७,१.६ ।

एकद्रव्यत्वात् । वैशेषिक-७,१.७ ।

अणोर्महतश्चोपलब्ध्यनुपलब्धी नित्ये व्याख्याते । वैशेषिक-७,१.८ ।

कारण बहुत्वाच्च । वैशेषिक-७,१.९ ।

अतो विपरितमणु । वैशेषिक-७,१.१० ।

अणु महदिति तस्मिन् विशेषभावात् विशेषाभावाच्च । वैशेषिक-७,१.११ ।

एककालत्वात् । वैशेषिक-७,१.१२ ।

दृष्टान्ताच्च । वैशेषिक-७,१.१३ ।

अणुत्वमहत्त्वयोरणुत्वमहत्त्वाभावः कर्मगुणैर्व्याख्यातः । वैशेषिक-७,१.१४ ।

कर्मभिः कर्माणि गुणैश्च गुणा व्याख्याताः । वैशेषिक-७,१.१५ ।

अणुत्वमहत्त्वाभ्यां कर्मगुणाश्च व्याख्याताः । वैशेषिक-७,१.१६ ।

एतेन दीर्घत्व ह्रस्वत्वे व्याख्याते । वैशेषिक-७,१.१७ ।

अनित्ये ऽनित्यम् । वैशेषिक-७,१.१८ ।

नित्ये नित्यम् । वैशेषिक-७,१.१९ ।

नित्यं परिमण्डलम् । वैशेषिक-७,१.२० ।

अविद्या च विद्यालिङ्गम् । वैशेषिक-७,१.२१ ।

विभवान्महानाकाशः तथा चात्मा । वैशेषिक-७,१.२२ ।

तदभावादणु मनः । वैशेषिक-७,१.२३ ।

गुणैर्दिग्व्याख्याता । वैशेषिक-७,१.२४ ।

कारणेन कालः । वैशेषिक-७,१.२५ ।

रुपरसगन्धस्पर्शव्यतिरेकादर्थान्तरमेकत्वम् । वैशेषिक-७,२.१ ।

तथा पृथक्त्वम् । वैशेषिक-७,२.२ ।

एकत्वैकपृथक्त्वयोरेकत्वैकपृथक्त्वाभावो ऽणुत्वमहत्त्वाभ्यां व्याख्यातः । वैशेषिक-७,२.३ ।

निः संख्यत्वात् कर्मगुणानां सर्वैकत्वं न विद्यते । वैशेषिक-७,२.४ ।

भ्रान्तं तत् । वैशेषिक-७,२.५ ।

एकत्वाभावाद्भक्तिस्तु न विद्यते । वैशेषिक-७,२.६ ।

कार्यकारणयोरेकत्वैकपृथक्त्वाभावादेकत्वैकपृथक्त्वं न विद्यते । वैशेषिक-७,२.७ ।

एतदनित्ययोर्व्याख्यातम् । वैशेषिक-७,२.८ ।

अन्यतरकर्मज उभकर्मजः संयोगजश्च संयोगः । वैशेषिक-७,२.९ । एतेन विभागो व्याख्यातः । वैशेषिक-७,२.१० ।

संयोगविभागयोः संयोगविभागाभावः अणुत्वमहत्त्वाभ्यां व्याख्यातः । वैशेषिक-७,२.११ ।

कर्मभिः कर्माणि गुणैर्गुणा अणुत्व महत्त्वाभ्यामिति । वैशेषिक-७,२.१२ ।

युतसिद्ध्यभावात् कार्यकारणयोः संयोगविभागौ न विद्येते । वैशेषिक-७,२.१३ ।

गुणत्वात् । वैशेषिक-७,२.१४ ।

गुणो ऽपि विभाव्यते । वैशेषिक-७,२.१५ ।

निष्क्रियत्वात् । वैशेषिक-७,२.१६ ।

असति नास्तीति च प्रयोगात् । वैशेषिक-७,२.१७ ।

शब्दार्थावसम्बन्धौ । वैशेषिक-७,२.१८ ।

संयोगिनो दण्डात् समवायिनो विशेषाच्च । वैशेषिक-७,२.१९ ।

सामयिकः शब्दादर्थप्रत्ययः । वैशेषिक-७,२.२० ।

एकदिक्काभ्यामेककालाभ्यां सन्निकृष्टविप्रकृष्टाभ्यां परमपरञ्च । वैशेषिक-७,२.२१ ।

कारणपरत्वात् कारणापरत्वाच्च । वैशेषिक-७,२.२२ ।

परत्वापरत्वयोः परत्वापरत्वाभावो ऽणुत्वमहत्त्वाभ्यां व्याख्यातः । वैशेषिक-७,२.२३ ।

कर्मभिः कर्माणि । वैशेषिक-७,२.२४ ।

गुणैर्गुणाः । वैशेषिक-७,२.२५ ।

इहेदमिति यतः कार्यकारणयोः स समवायः । वैशेषिक-७,२.२६ ।

तत्त्वम्भावेन । वैशेषिक-७,२.२७ ।

द्रव्येषु ज्ञानं व्याख्यातम् । वैशेषिक-८,१.१ ।

तत्रात्मा मनश्चाप्रत्यक्षे । वैशेषिक-८,१.२ ।

ज्ञाननिर्देशे ज्ञाननिष्पत्तिविधिरुक्तः । वैशेषिक-८,१.३ ।

गुणकर्मसु सन्निकृष्टेषु ज्ञाननिष्पत्तेः द्रव्यं कारणम् । वैशेषिक-८,१.४ ।

सामान्यविशेषेषु सामान्यविशेषाभावात् तदेव ज्ञानम् । वैशेषिक-८,१.५ ।

सामान्यविशेषापेक्षं द्रव्यगुणकर्मसु । वैशेषिक-८,१.६ ।

द्रव्ये द्रव्यगुणकर्मापेक्षम् । वैशेषिक-८,१.७ ।

गुणकर्मसु गुणकर्माभावात् गुणकर्मापेक्षं न विद्यते । वैशेषिक-८,१.८ ।

समवायिनः श्वैत्याच्छ्वैत्य बुद्धेश्च श्वेते बुद्विस्ते एते कार्यकारणभूते । वैशेषिक-८,१.९ ।

द्रव्येष्वनितरेतरकारणाः । वैशेषिक-८,१.१० ।

कारणायौगपद्यात् कारणक्रमाच्च घटपटादिबुद्धीनां क्रमो न हेतुफलभावात् । वैशेषिक-८,१.११ ।

अयमेष त्वया कृतं भोजयैनं इति बुद्ध्यपेक्षम् । वैशेषिक-८,२.१ ।

दृष्टेषु भावाददृष्टेष्वभावात् । वैशेषिक-८,२.२ ।

अर्थ इति द्रव्यगुणकर्मसु । वैशेषिक-८,२.३ ।

द्रव्येषु पञ्चात्मकत्वं प्रतिषिद्धम् । वैशेषिक-८,२.४ ।

भूयस्त्वात् गन्धवत्त्वाच्च पृथिवी गन्धज्ञाने प्रकृतिः । वैशेषिक-८,२.५ ।

तथापस्तेजो वायुश्च रसरूपस्पर्शाविशेषात् । वैशेषिक-८,२.६ ।

क्रियागुणव्यपदेशाभावात् प्रागसत् । वैशेषिक-९,१.१ ।

सदसत् । वैशेषिक-९,१.२ ।

असतः क्रियागुणव्यपदेशाभावादर्थान्तरम् । वैशेषिक-९,१.३ ।

सच्चासत् । वैशेषिक-९,१.४ ।

यच्चान्यदसदतस्तदसत् । वैशेषिक-९,१.५ ।

असदिति भूतप्रत्यक्षाभावात् भूतस्मृतेर्विरोधिप्रत्यक्षवत् । वैशेषिक-९,१.६ ।

तथाभावे भावप्रत्यक्षाच्च । वैशेषिक-९,१.७ ।

एतेनाघटो ऽगौरधर्मश्च व्याख्याताः । वैशेषिक-९,१.८ ।

अभूतं नास्तीत्यनर्थान्तरम् । वैशेषिक-९,१.९ ।

नास्ति घटो गेहे इति सतो घटस्य गेहसंसर्गप्रतिषेधः । वैशेषिक-९,१.१० ।

आत्मन्यात्ममनसोः संयोगादात्मप्रत्यक्षम् । वैशेषिक-९,१.११ ।

तथा द्रव्यान्तरेषु प्रत्यक्षम् । वैशेषिक-९,१.१२ ।

असमाहितान्तः करणा उपसंहृतसमाधयस्तेषाञ्च । वैशेषिक-९,१.१३ ।

तत्समवायात्कर्मगुणेषु । वैशेषिक-९,१.१४ ।

आत्मसमवायादात्मगुणेषु । वैशेषिक-९,१.१५ ।

अस्येदं कार्यं कारणं संयोगि विरोधि समवायि चेति लैङ्गिकम् । वैशेषिक-९,२.१ ।

अस्येदं कार्य कारणसम्बन्धश्चावयवाद्भवति । वैशेषिक-९,२.२ ।

एतेन शाब्दं व्याख्यातम् । वैशेषिक-९,२.३ ।

हेतुरपदेशो लिङ्गं प्रमाणं करणमित्यनर्थान्तरम् । वैशेषिक-९,२.४ ।

अस्येदमिति बुद्ध्यपेक्षितत्वात् । वैशेषिक-९,२.५ ।

आत्मनः संयोगविशेषात् संस्काराच्च स्मृतिः । वैशेषिक-९,२.६ ।

तथा स्वप्नः । वैशेषिक-९,२.७ ।

स्वप्नान्तिकम् । वैशेषिक-९,२.८ ।

धर्माच्च । वैशेषिक-९,२.९ ।

इन्द्रियदोषात्संस्कारदोषाच्चाविद्या । वैशेषिक-९,२.१० ।

तद्दुष्टज्ञानम् । वैशेषिक-९,२.११ ।

अदुष्टं विद्या । वैशेषिक-९,२.१२ ।

आर्षं सिद्धदर्शनं च धर्मेभ्यः । वैशेषिक-९,२.१३ ।

इष्टानिष्टकारणविशेषाद्विरोधाच्च मिथः सुखदुःखयोर्थान्तरभावः । वैशेषिक-१०,१.१ ।

संशयनिर्णयान्तराभावश्च ज्ञानान्तरत्वे हेतुः । वैशेषिक-१०,१.२ ।

तयोर्निष्पत्तिः प्रत्यक्षलैङ्गिकाभ्याम् । वैशेषिक-१०,१.३ । अभूदित्यपि । वैशेषिक-१०,१.४ ।

सति च कार्यादर्शनात् । वैशेषिक-१०,१.५ ।

एकार्थसमवायि कारणान्तरेषु दृष्टत्वात् । वैशेषिक-१०,१.६ ।

एकदेशे इत्येकस्मिन् शिरः पृष्ठमुदरं मर्माणि तद्विशेषस्तद्विशेषेभ्यः । वैशेषिक-१०,१.७ ।

कारणमिति द्रव्ये कार्यसमवायात् । वैशेषिक-१०,२.१ ।

संयोगाद्वा । वैशेषिक-१०,२.२ ।

कारणे समवायात् कर्माणि । वैशेषिक-१०,२.३ ।

तथा रूपे कारणैकार्थसमवायाच्च । वैशेषिक-१०,२.४ ।

कारणसमवायात् संयोगः पटस्य । वैशेषिक-१०,२.५ ।

कारणाकारणसमवायाच्च । वैशेषिक-१०,२.६ ।

संयुक्तसमवायादग्नेर्वैशेषिक-म् । वैशेषिक-१०,२.७ ।

दृष्टानां दृष्टप्रयोजनानां दृष्टाभावे प्रयोगो ऽभ्युदयाय । वैशेषिक-१०,२.८ ।

तद्वचनादाम्नायस्य प्रमाण्यमिति । वैशेषिक-१०,२.९ ।