S.D. Human Development, Research & Training Center | अध्यात्मोपनिषत् अध्यात्मोपनिषत् | S.D. Human Development, Research & Training Center
सनातन धर्म मानव विकास शोध एवम् प्रशिक्षण केन्द्र
Sanatan Dharma Human Development, Research & Training Center
Tie-Ups
  • Amity Centre for Sanskrit and Indic Studies Amity University, Gurugram
  • Punjabi University, Patiala
  • Guru Nanak Girls College, Santpura, Yamunanagar
  • D.A.V. College For Girls, Yamunanagar
  • Mata Sundri Khalsa Girls College – Nissing, Karnal
  • D.A.V. College, Pehowa
  • M.P.N. College, Mullana

अध्यात्मोपनिषत्

यत्रान्तर्याम्यादिभेदस्तत्त्वतो न हि युज्यते .

निर्भेदं परमाद्वैतं स्वमात्रमवशिष्यते ..

ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते .

पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ..

ॐ शान्तिः शान्तिः शान्तिः ..

हरिः ॐ .. अन्तःशरीरे निहितो गुहायामज एको नित्यमस्य

पृथिवी शरीरं यः पृथिवीमन्तरे संचरन्यं पृथिवी न वेद .

यस्यापःशरीरं यो अपोऽन्तरे संचरन्यमापो न विदुः .

यस्य तेजः शरीरं यस्तेजोऽन्तरे संचरन्यं तेजो न वेद .

यस्य वायुः शरीरं यो वायुमन्तरे संचरन्यं वायुर्न वेद .

यस्याकाशः शरीरं य आकाशमन्तरे संचरन्यमाकाशो न वेद .

यस्य मनः शरीरं यो मनोऽन्तरे संचरन्यं मनो न वेद .

यस्य बुद्धिः शरीरं यो बुद्धिमन्तरे संचरन्यं बुद्धिर्न वेद .

यस्याहंकारः शरीरं योऽहंकारमन्तरे संचरन्यमहंकारो न वेद .

यस्य चित्तं शरीरं यश्चित्तमन्तरे संचरन्यं चित्तं न वेद .

यस्याव्यक्तं शरीरं योऽव्यक्तमन्तरे संचरन्यमव्यक्तं न वेद .

यस्याक्षरं शरीरं योऽक्षरमन्तरे संचरन्यम्क्षरं न वेद .

यस्य मृयुः शरीरं यो मृत्युमन्तरे संचरन्यं मृत्युर्न वेद .

स एष सर्वभूतान्तरात्मापहतपाप्मा दिव्यो देव एको नारायणः .

अहं ममेति यो भावो देहाक्षादावनात्मनि . अध्यासोऽयं निरस्तव्यो

विदुषा ब्रह्मनिष्ठया .. १..

ज्ञात्वा स्वं प्रत्यगात्मानं बुद्धितद्वृत्तिसाक्षिणम् .

सोऽहमित्येव तद्वृत्त्या स्वान्यत्रात्म्यमात्मनः .. २..

लोकानुवर्तनं त्यक्त्वा त्यक्त्वा देहानुवर्तनम् .

शास्त्रानुवर्तनं त्यक्त्वा स्वाध्यासापनयं कुरु .. ३..

स्वात्मन्येव सदा स्थित्या मनो नश्यति योगिनः .

युक्त्या श्रुत्या स्वानुभूत्या ज्ञात्वा सार्वात्म्यमात्मनः .. ४..

निद्राया लोकवार्तायाः शब्दादेरात्मविस्मृतेः .

क्वचिन्नवसरं दत्त्वा चिन्तयात्मानमात्मनि .. ५..

मातापित्रोर्मलोद्भूतं मलमांसमयं वपुः .

त्यक्त्वा चण्डालवद्दूरं ब्रह्मभूय कृती भव .. ६..

घटाकाशं महाकाश इवात्मानं परात्मनि .

विलाप्याखण्डभावेन तूष्णीं भव सदा मुने .. ७..

स्वप्रकाशमधिष्ठानं स्वयंभूय सदात्मना .

ब्रह्माण्डमपि पिण्डाण्डं त्यज्यतां मलभाण्डवत् .. ८..

चिदात्मनि सदानन्दे देहरूढामहंधियम् .

निवेश्य लिङ्गमुत्सृज्य केवलो भव सर्वदा .. ९..

यत्रैष जगदाभासो दर्पणान्तःपुरं यथा .

तद्ब्रह्माहमिति ज्ञात्वा कृतकृत्यो भवानघ .. १०..

अहंकारग्रहान्मुक्तः स्वरूपमुपपद्यते .

चन्द्रवद्विमलः पूर्णः सदानन्दः स्वयंप्रभः .. ११..

क्रियानाशाद्भवेच्चिन्तानाशोऽस्माद्वासनाक्षयः .

वासनाप्रक्षयो मोक्षः सा जीवन्मुक्तिरिष्यते .. १२..

सर्वत्र सर्वतः सर्वब्रह्ममात्रावलोकनम् .

सद्भावभावानादाढ्याद्वासनालयमश्नुते .. १३..

प्रमादो ब्रह्मनिष्ठायां न कर्तव्यज़् कदाचन .

प्रमादो मृत्युरित्याहुर्विद्यायां ब्रह्मवादिनः .. १४..

यथापकृष्टं शैवालं क्षणमात्रं न तिष्ठति .

आवृणोति तथा माया प्राज्ञं वापि पराङ्मुखम् .. १५..

जीवतो यस्य कैवल्यं विदेहोऽपि स केवलः .

समाधिनिष्ठतामेत्य निर्विकल्पो भवानघ .. १६..

अज्ञानहृदयग्रन्थेर्निःशेषविलयस्तदा .

समाधिना विकल्पेन यदाद्वैतात्मदर्शनम् .. १७..

अत्रात्मत्वं दृढीकुर्वन्नहमादिषु संत्यजन् .

उदासीनतया तेषु तिष्ठेद्घटपटादिवत् .. १८..

ब्रह्मादिस्तम्बपर्यन्तं मृषामात्रा उपाधयः .

ततः पूर्णं स्वमात्मानं पश्येदेकात्मना स्थितम् .. १९..

स्वयं ब्रह्मा स्वयं विष्णुः स्वयमिन्द्रः स्वयं शिवः .

स्वयं विश्वमिदं सर्वं स्वस्मादन्यन्न किंचन .. २०..

स्वात्मन्यारोपिता शेषाभासवस्तुनिरासतः .

स्वयमेव परंब्रह्म पूर्णमद्वयमक्रियम् .. २१..

असत्कल्पो विकल्पोऽयं विश्वमित्येकवस्तुनि .

निर्विकारे निराकारे निर्विशेषे भिदा कुतः .. २२..

द्रष्टृदर्शनदृश्यादिभावशून्ये निरामये .

कल्पार्णव इवात्यन्तं परिपूर्णे चिदात्मनि .. २३..

तेजसीव तमो यत्र विलीनं भ्रान्तिकारणम् .

अद्वितीये परे तत्त्वे निर्विशेषे भिदा कुतः .. २४..

एकात्मके परे तत्त्वे भेदकर्ता कथं वसेत् .

सुषुप्तौ सुखमात्रायां भेदः केनावलोकितः .. २५..

चित्तमूलो विकल्पोऽयं चित्ताभावे न कश्चन .

अतश्चित्तं समाधेयि प्रत्यग्रूपे परात्मनि .. २६..

अखण्डानन्दमात्मानं विज्ञाय स्वस्वरूपतः .

बहिरन्तः सदानन्दरसास्वादनमात्मनि .. २७..

वैराग्यस्य फलं बोधो बोधस्योपरतिः फलम् .

स्वानन्दानुभवच्छान्तिरेषैवोपरतेः फलम् .. २८..

यद्युत्तरोत्तराभावे पूर्वरूपं तु निष्फलम् .

निवृत्तिः परमा तृप्तिरानन्दोऽनुपमः स्वतः .. २९..

मायोपाधिर्जगद्योनिः सर्वज्ञत्वादिलक्षणः .

पारोक्ष्यशबलः सत्याद्यात्मकस्तत्पदाभिधः .. ३०..

आलम्बनतया भाति योऽस्मत्प्रत्ययशब्दयोः .

अन्तःकरणसंभिन्नबोधः स त्वंपदाभिधः .. ३१..

मायाविद्ये विहायैव उपाधी परजीवयोः .

अखण्डं सच्चिदानन्दं परं ब्रह्म विलक्ष्यते .. ३२..

इत्थं वाक्यैस्तथार्थानुसन्धानं श्रवणं भवेत् .

युक्त्या संभावितत्वानुसन्धानं मननं तु तत् .. ३३..

ताभ्यं निर्विचिकित्सेऽर्थे चेतसः स्थापितस्य यत् .

एकतानत्वमेतद्धि निदिध्यासनमुच्यते .. ३४..

ध्यातृध्याने परित्यज्य क्रमाद्ध्येयैकगोचरम् .

निवातदीपवच्चित्तं समाधिरभिधीयते .. ३५..

वृत्तयस्तु तदानीमप्यज्ञाता आत्मगोचराः .

स्मरणादनुमीयन्ते व्युत्थितस्य समुत्थिताः .. ३६..

अनादाविह संसारे संचिताः कर्मकोटयः .

अनेन विलयं यान्ति  शुद्धो धर्मो विवर्धते .. ३७..

धर्ममेघमिमं प्राहुः समाधिं योगवित्तमाः .

वर्षत्येष यथा धर्मामृतधाराः सहस्रशः .. ३८..

अमुना वासनाजाले निःशेषं प्रविलापिते  .

समूलोन्मूलिते पुण्यपापाख्ये कर्मसंचये .. ३९..

वाक्यमप्रतिबद्धं सत्प्राक्परोक्षावभासिते .

करामलकमवद्बोधपरोक्षं प्रसूयते .. ४०..

वासनानुदयो भोग्ये वैराग्यस्य तदावधिः .

अहंभावोदयाभावो बोधस्य परमावधिः .. ४१..

लीनवृत्तेरनुत्पत्तिर्मर्यादोपरतेस्तु सा .

स्थितप्रज्ञो यतिरयं यः सदानन्दमश्नुते .. ४२..

ब्रह्मण्येव विलीनात्मा निर्विकारो विनिष्क्रियः .

ब्रह्मात्मनोः शोधितयोरेकभावावगाहिनि .. ४३..

निर्विकल्पा च चिन्मात्रा वृत्तिः प्रज्ञेति कथ्यते .

सा सर्वदा भवेद्यस्य स जीवन्मुक्त इष्यते .. ४४..

देहेन्द्रियेष्वहंभाव इदंभावस्तदन्यके .

यस्य नो भवतः क्वापि स जीवन्मुक्त इष्यते .. ४५..

न प्रत्यग्ब्रह्मणोर्भेदं कदापि ब्रह्मसर्गयोः .

प्रज्ञया यो विजानाति स जीवन्मुक्त इष्यते .. ४६..

साधुभिः पूज्यमानेऽस्मिन्पीड्यमानेऽपि दुर्जनैः .

समभावो भवेद्यस्य स जीवन्मुक्त इष्यते .. ४७..

विज्ञातब्रह्मतत्त्वस्य यथापूर्वं न संसृतिः .

अस्ति चेन्न स विज्ञातब्रह्मभावो बहिर्मुखः .. ४८..

सुखाद्यनुभवो यावत्तावत्प्रारब्धमिष्यते .

फलोदयः क्रियापूर्वो निष्क्रियो नहि कुत्रचित् .. ४९..

अहं ब्रह्मेति विज्ञानात्कल्पकोटिशतार्जितम् .

संचितं विलयं याति प्रबोधात्स्वप्नकर्मवत् .. ५०..

स्वमसङ्गमुदासीनं परिज्ञाय नभो यथा .

न श्लिष्यते यतिः किंचित्कदाचिद्भाविकर्मभिः .. ५१..

न नभो घटयोगेन सुरागन्धेन लिप्यते .

तथात्मोपाधियोगेन तद्धर्मे नैव लिप्यते .. ५२..

ज्ञानोदयात्पुरारब्धं कर्म ज्ञानान्न नश्यति .

अदत्त्वा स्वफलं लक्ष्यमुद्दिश्योत्सृष्टबाणवत् .. ५३..

व्याघ्रबुद्ध्या विनिर्मुक्तो बाणः पश्चात्तु गोमतौ .

न तिष्ठति भिनत्त्येव लक्ष्यं वेगेन निर्भरम् .. ५४..

अजरोऽस्म्यमरोऽस्मीति य आत्मानं प्रपद्यते .

तदात्मना तिष्ठतोऽस्य कुतः प्रारब्धकल्पना .. ५५..

प्रारब्धं सिद्ध्यति तदा यदा देहात्मना स्थितिः .

देहात्मभावो नैवेष्टः प्रारब्धं त्यज्यतामतः .. ५६..

प्रारब्धकल्पनाप्यस्य देहस्य भ्रान्तिरेव हि .. ५७..

अध्यस्तस्य कुतस्तत्त्वमसत्यस्य कुतो जनिः .

अजातस्य कुतो नाशः प्रारब्धमसतः कुतः .. ५८..

ज्ञानेनाज्ञानकार्यस्य समूलस्य लयो यदि .

तिष्ठत्ययं कथं देह इति शङ्कावतो जडान् .

समाधातुं बाह्यदृष्ट्या प्रारब्धं वदति श्रुतिः .. ५९..

न तु देहादिसत्यत्वबोधनाय विपश्चिताम् .

परिपूर्णमनाद्यन्तमप्रमेयमविक्रियम् .. ६०..

सद्घनं चिद्घनं नित्यमानन्दघनमव्ययम् .

प्रत्यगेकरसं पूर्णमनन्तं सर्वतोमुखम् .. ६१..

अहेयमनुपादेयमनाधेयमनाश्रयम् .

निर्गुणं निष्क्रियं सूक्ष्मं निर्विकल्पं निरञ्जनम् .. ६२..

अनिरूप्यस्वरूपं यन्मनोवाचामगोचरम् .

सत्समृद्धं स्वतःसिद्धं शुद्धं बुद्धमनोदृशम् .. ६३..

स्वानुभूत्या स्वयं ज्ञात्वा स्वमात्मानमखण्डितम् .

स सिद्धः सुसुखं तिष्ठ निर्विकल्पात्मनात्मनि .. ६४..

क्व गतं केन वा नीतं कुत्र लीनमिदं जगत् .

अधुनैव मया दृष्टं नास्ति किं महदद्भुतम् .. ६५..

किं हेयं किमुपादेयं किमन्यत्किं विलक्षणम् .

अखण्डानन्दपीयूषपूर्णब्रह्ममहार्णवे .. ६६..

न किंचिदत्र पश्यामि न शृणोमि न वेद्म्यहम् .

स्वात्मनैव सदानन्दरूपेणास्मि स्वलक्षणः .. ६७..

असङ्गोऽहमनङ्गोऽहमलिङ्गोऽहं हरिः .

प्रशान्तोऽहमनन्तोऽहं परिपूर्णश्चिरन्तनः .. ६८..

अकर्ताहमभोक्ताहमविकारोऽहमव्ययः .

शुद्ध बोधस्वरूपोऽहं केवलोऽहं सदाशिवः .. ६९..

एतां विद्यामपान्तरतमाय ददौ . अपान्तरतमो ब्रह्मणे ददौ .

ब्रह्मा घोराङ्गिरसे ददौ . घोराङ्गिरा रैक्वाय ददौ . रैक्वो रामाय ददौ .

रामः सर्वेभ्यो भूतेभ्यो ददावित्येतन्निर्वाणानुशासनं

वेदानुशासनं वेदानुशासनमित्युपनिषत् ..

ॐ पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते .

पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ..

ॐ शान्तिः शान्तिः शान्तिः .. हरिः ॐ तत्सत् ..

इति अध्यात्मोपनिषत्समाप्ता ..