अभिज्ञानशाकुन्तलम्
प्रथमोऽङ्कः |
या सृष्टिः स्रष्टुराद्या वहति विधिहुतं या हविर्या च होत्री
ये द्वे कालं विधत्तः श्रुतिविषयगुणा या स्थिता व्याप्य विश्वम् |
यां आहुः सर्वबीजप्रकृतिरिति यया प्राणिनः प्राणवन्तः
प्रत्यक्षाभिः प्रपन्नस्तनुभिरवतु वस्ताभिरष्टाभिरीशः||१||
( नान्द्यन्ते )
सूत्रधारः – – ( नेपथ्याभिमुखमवलोक्य )
आर्ये यदि नेपथ्यविधानमवसि अमितस्तावदागम्यताम् |
( प्रविश्य )
नटी – आर्यपुत्र इयमस्मि |
सूत्रधारः – – आर्य अभिरूपभूयिष्ठा परिषदियम् | अद्य खलु
कालिदासग्रथितवस्तुना नवेनाभिज्ञानशकुंतलाख्येन
नाटकेनोपस्थातव्यमस्माभिः | तत्प्रतिपात्रमाधीयतां यत्नः |
नटी – – सुविहितप्रयोगतयायार्यस्य न किमपि परिहास्यते |
सूत्रधारः – – आर्ये कथयामि ते भूतार्थम् |
आ परितोषाद्विदुषां न साधु मन्ये प्रयोगविज्ञानम् |
बलवदपि शिक्षितानामात्मन्यप्रत्ययं चेतः||२||
नटी – – आर्य एवमेतत् | अनन्तरकरणीयमार्य आज्ञापयतु |
सूत्रधारः – – किमन्यदस्याः परिषदः श्रुतिप्रसादनतः | तदिममेव
तावदचिरप्रवृत्तमुपभोगक्षमं ग्रीष्मसमयमधिकृत्य गीयताम् |
सम्प्रति हि –
सुभगसलिलावगाहाः पाटलसंसर्गसुरभिवनवाताः |
प्रच्छायसुलभनिद्रा दिवसाः परिणामरमणीयाः||३||
नटी – – तथा |
( इति गायति )
ईषदीषच्चुम्बितानि भ्रमरैः सुकुमारकेसरशिखानि |
अवतंसयन्ति दममानाः प्रमदाः शिरीषकुसुमानि||४||
सूत्रधारः – – आर्य साधु गीतम् | अहो
रागबद्धचित्तवृत्तिरालिखित इव सर्वतो रङ्गः |
तदिदानीं कतमत्प्रकरणमाश्रित्यैनमाराधयामः |
नटी – – नन्वार्यमिश्रैः प्रथममेवाज्ञप्तमभिज्ञानशकुंतलं
नामापूर्वं नाटकं प्रयोगे अधिक्रियतामिति |
सूत्रधारः – – आर्ये सम्यगनुबोधितोऽस्मि | अस्मिन्क्षणे विस्मृतं खलु
मया तत् | कुतः |
तवास्मि गीतरागेण हारिणा प्रसभं हृतः |
एष राजेव दुष्यन्तः सारङ्गेणतिरंहसा||५||
( इति निष्क्रान्तौ )
( प्रस्तावना )
( ततः प्रविशति मृगानुसारी सशरचापहस्तो राजा रथेन सूतश्च
)
सूतः – – ( राजानं मृगं चावलोक्य ) आयुष्मन् |
कृष्णसारे ददश्चक्षुस्त्वयि चाधिज्यकार्मुके |
मृगानुसारिणं साक्षात्पश्यामीव पिनाकिनम्||६||
राजाः – – सूत दूरममुना सारङ्गेण वयमाकृष्टाः | अयं
पुनरिदानीमपि ग्रीवाभङ्गभिरामं मुहुरनुपतति स्यन्दने दत्तदृष्टिः
पश्चार्धेन प्रविष्टः शरपतनभयाद्भूयसा पूर्वकायम् |
दर्भैण्रर्धावलीढैः श्रमविवृतमुखभ्रंशिभिः कीर्णवर्त्मा
पश्योदग्रप्लुतत्वाद्वियति बहुतरं स्तोकमुर्व्याम् प्रयाति||७||
( सविस्मयम् )
तदेष कथमनुपतत एव मे प्रयत्नप्रेक्षणीयः संवृत्तः |
सूतः – – आयुष्मन् उद्घातिनी भूमिरिति मया रश्मिसंयमनाद्रथस्य
मन्दीकृतो वेगः | तेन मृग एष विप्रकृष्टान्तरः संवृत्तः |
संप्रति समदेशवर्तिनस्ते न दुरासदो भविष्यति |
राजाः – – तेन हि मुच्यन्तामभीषवः |
सूतः – – यदाज्ञापयत्यायुष्मान् |
( रथवेगं निरूप्य )
आयुष्मन्पश्य पश्य |
मुक्तेषु रश्मिषु निरायतपूर्वकाया
निष्कम्पचामरशिखा निभृतोर्ध्वकर्णाः |
आत्मौद्धतैरपि रजोभिरलङ्घनीया
धावन्त्यमी मृगजवाक्षमयेव रथ्याः||८||
राजाः – – सत्यम् | अतीत्य हरितो हरींश्च वर्तन्ते वाजिनः | तथा
हि |
यदालोके सूक्ष्मं व्रजति सहसा तद्विपुलतां
यदर्धे विछिन्नं भवति कृतसंधानमिव तत् |
प्रकृत्या यद्वक्त्रं तदपि समरेखं नयनयोर्न
मे दूरे किञ्चित्क्षणमपि न पार्श्वे रथज्जवात्||९||
सूत पश्यैनं व्यापद्यमानम् |
( इति शरसंधानं नाटयति )
( नेपथ्ये )
भो भो राजन् आश्रममृगोऽयं न हन्तव्यो न हन्तव्यः |
सूतः – – ( आकर्ण्यावलोक्य च )
आयुष्मनस्य खलु ते बाणपातवर्तिनः कृष्टसारस्यान्तरे तपस्विन
उपस्थिताः |
राजाः – – ( ससंभ्रमम् )
तेन हि प्रगृह्यन्तां वाजिनः |
सूतः – – तथा |
( इति रथं स्थापयति )
( ततः प्रविशत्यात्मनातृतीयो वैखानसः )
वैखानसः – – ( हस्तमुद्यम्य )
राजन् आश्रममृगोऽयं न हन्तव्यो न हन्तव्यः |
न खलु न खलु बाणः संनिपात्योऽयमस्मिन्मृदुनि
मृगशरीरे पुष्पराशाविवाग्निः |
क्व बत हरिणकानां जीवितं चातिलोलं क्व च
निशितनिपाता वज्रसाराः शरास्ते||१०||
तत्साधुकृतसंधानं प्रतिसंहर सायकम् |
आर्तत्राणाय वः शस्त्रं न प्रहर्तुमनागसि||११||
राजाः – – एष प्रतिसम्हृतः |
( इति यथोक्तं करोति )
वैखानसः – – सदृशमेतत् पुरुवंशप्रदीपस्य भवतः |
जन्म यस्य पुरोर्वंशे युक्तरूपमिदं तव |
पुत्रमेवंगुणोपेतं चक्रवर्तिनमाप्नुहि||१२||
इतरौ – – ( बाहू उद्यम्य ) सर्वथा चक्रवर्तिनं पुत्रमाप्नुहि |
राजाः – – ( सप्रणामम् )
प्रतिगृहीतं ब्राह्मणवचनम् |
वैखानसः – – राजन् समिदाहरणाय प्रस्थिता वयम् | एष खलु
कण्वस्य कुलपतेरनुमालिनीतीरमाश्रमो दृश्यते | न
चेदन्यकार्यातिपातः प्रविश्य प्रतिगृह्यतामातिथेयः सत्कारः | अपि
च |
रम्यास्तपोधनानां प्रतिहतविघ्नाः क्रियाः समवलोक्य |
ज्ञास्यसि कियद्भुजो मे रक्षति मौर्वीकिणाङ्क इति||१३||
राजाः – – अपि संनिहितोऽत्र कुलपतिः |
वैखानसः – – इदानीमेव दुहितरं शकुंतलामतिथिसत्काराय
नियुज्य दैवं अस्याः प्रतिकूलं शमयितुं सोमतीर्थं गतः |
राजाः – – भवतु | तामेव पश्यामि | सा खलु विदितभक्तिं मां
महर्षेः करिष्यति |
वैखानसः – – साधयामस्तावत् |
( इति सशिष्यो निष्क्रान्तः )
राजाः – – सूत चोदयाश्वान् पुण्याश्रमदर्शनेन तावदात्मानं
पुनीमहे |
सूतः – – यदाज्ञापयत्यायुष्मन् |
( इति भूयो रथवेगं निरूपयति )
राजाः – – ( समन्तादवलोक्य )
सूत अकथितोऽपि ज्ञायत एव यथायमाश्रमाभोगस्तपोवनस्येति |
सूतः – – कथमिव |
राजाः – – किं न पश्यति भवान् | इह हि
नीवाराः शुकगर्भकोटरमुखभ्रष्टास्तरूणामधः
प्रस्निग्धाः क्वचिदिङ्गुदीफलभिदः सूच्यन्त एवोपलाः |
विश्वासोपगमादभिन्नगतयः शब्दं सहन्ते
मृगास्तोयाधारपथाश्च वल्कलशिखानिष्यन्दरेखाङ्किताः||१४||
<कुल्याम्भोभिः पवनचपलैः शाखिनो धौतमूला
<भिन्नो रागः किसलयरुचामाज्यधूमोद्गमेन |
<एते चार्वागुपवनभुवि च्छिन्नदर्भान्कुरायां
<नष्टांशका हरिणशिशवो मन्दमन्दं चरन्ति |
सूतः – – सर्वमुपपन्नम् |
राजाः – – ( स्तोकमन्तरं गत्वा )
तपोवननिवासिनामुपरोधो मा भूत् | एतावत्येव रथं स्थापय
यावदवतरामि |
सूतः – – धृताः प्रग्रहाः | अवतरत्वायुष्मान् |
राजाः – – ( अवतीर्य )
सूत विनीतवेषेण प्रवेष्टव्यानि तपोवनानि नाम | इदं
तावद्गृह्यताम् |
( इति सूतस्याभरणानि धनुश्चोपनीयार्पयति )
सूत यावदाश्रमवासिनः प्रत्यवेक्ष्याहमुपावर्ते
तावदार्द्रपृष्ठाः क्रियन्तां वाजिनः |
सूतः – – तथा |
( इति निष्क्रान्तः )
राजाः – – ( परिक्रम्यावलोक्य च )
इदमाश्रमद्वारम् | यावत्प्रविशामि |
( प्रविश्य | निमित्तं सूचयन् )
शान्तमिदमाश्रमपदं स्फुरति च बाहुः कुतः फलमिहस्य |
अथवा भवितव्यानां द्वाराणि भवन्ति सर्वत्र||१५||
( नेपथ्ये )
इत इतः सख्यौ |
राजाः – – ( कर्णं दत्त्वा )
अये दक्षिणेन वृक्षवाटिकामालाप इव श्रूयते | यावदत्र गच्छामि |
( परिक्रम्यावलोक्य च )
अये एतास्तपस्विकन्यकाः स्वप्रमाणानुरूपैः सेचनघटैर्बालपादपेभ्यः
पयो दातुइत एवाभिवर्तन्ते |
( निपुणं निरूप्य )
अहो मधुरमासां दर्शनम् |
शुद्धान्तदुर्लभमिदं वपुराश्रमवासिनो यदि जनस्य |
दूरीकृताः खलु गुणैरुद्यानलता वनलताभिः||१६||
यावदिमां छायामाश्रित्य प्रतिपालयामि |
( इति विलोकयन् स्थितः )
( ततः प्रविश्यति यथोक्तव्यापारा सह सखीभ्यां शकुंतल )
शकुंतला – – इत इतः सख्यौ |
अनसूया – – हला शकुन्तले त्वत्तोऽपि तातकाश्यपस्याश्रमवृक्षकाः
प्रियतरा इति तर्कयामि | येन नवमालिकाकुसुमपेलवापि
त्वमेतेषामालवालपूरणे नियुक्ता |
शकुंतला – – न केवलं तातनियोग एव | अस्ति मे सोदरस्नेहोऽप्येतेषु |
( इति वृक्षसेचनं रूपयति )
राजाः – – कथमियं सा कण्वदुहिता | असाधुदर्शी खलु
तत्रभवान्काश्यपो य इमामाश्रमधर्मे नियुङ्क्ते |
इदं किलाव्याजमनोहरं वपुस्तपःक्षमं साधयितुं य इच्छति |
ध्रुवं स नीलोत्पलपत्रधारया शमीलतां छेतुमृषिर्व्यवस्यति||
१७||
भवतु | पादपान्तर्हित एव विश्रब्धं तावदेनां पश्यामि |
( इति तथा करोति )
शकुंतला – – सखि अनसूये अतिपिनद्धेन वल्कलेन प्रियंवदया
नियन्त्रिताऽस्मि | शिथिलय तावदेतत् |
अनसूया – – तथा |
( इति शिथिलयति )
प्रियंवदा – – ( सहासम् )
अत्र पयोधरविस्तारयितृ आत्मनो यौवनं उपालभस्व | मां किं
उपालभसे |
राजाः – – काममननुरूपमस्य वपुषो वल्कलं न
पुनरलंकारश्रियं न पुष्यति | कुतः |
सरसिजमनुविद्धं शैवलेनापि रम्यं
मलिनमपि हिमांशोर्लक्ष्म लक्ष्मीं तनोति |
इयमधिकमनोज्ञा वल्कलेनापि तन्वी
किमिव हि मधुराणां मण्डनं नाकृतीनाम्||१८||
शकुंतला – – ( अग्रतोऽवलोक्य )
एष वातीरितपल्लवाङ्गुलीभिस्त्वरयतीव मां केसरवृक्षकः |
यावदेनं सम्भावयामि |
( इति परिक्रामति )
प्रियंवदा – – हला शकुन्तले अत्रैव तावन्मुहूर्तं तिष्ठ
यावत्वयोपगतया लतासनाथ इवायं केसरवृक्षकः प्रतिभाति |
शकुंतला – – अतः खलु प्रियंवदासि त्वम् |
राजाः – – प्रियमपि तथ्यमाह शकुंतलां प्रियंवदा | अस्याः खलु
अधरः किसलयरागः कोमलविटपानुकारिणौ बाहू |
कुसुममिव लोभनीयं यौवनमङ्गेषु संनद्धम्||१९||
अनसूया – – हला शकुन्तले इयं स्वयम्वरवधूः सहकारस्य त्वया
कृतनामधेया वनज्योत्स्नेति नवमालिका |
एनां विस्मृताऽसि |
शकुंतला – – तदात्मानमपि विस्मरिष्यामि |
( लतामुपेत्यावलोक्य च )
हला रमणीये खलु काल एतस्य लतापादपमिथुनस्य व्यतिकरः
संवृत्तः | नवकुसुमयौवना वनज्योत्स्ना स्निग्धपल्लवतयोपभोगक्षमः
सहकारः |
( इति पश्यन्ती तिष्ठति )
प्रियंवदा – – अनसूये जानासि किं शकुंतला वनज्योत्स्नामतिमात्रं
पश्यतीति |
अनसूया – – न खलु विभावयामि | कथय |
प्रियंवदा – – यथा वनज्योत्स्नानुरूपेण पादपेन संगता अपि
नामैवमहमप्यात्मनोनुरूपं वरं लभेयेति |
शकुंतला – – एष नूनं तवात्मगतो मनोरथः |
( इति कलशमावर्जयति )
राजाः – – अपि नाम कुलपतेरियमसवर्णक्षेत्रसम्भवा स्यात् | अथवा
कृतं संदेहेन |
असंशयं क्षत्रपरिग्रहक्षमा यदार्यमस्यामभिलाषि मे मनः |
सतां हि संदेहपदेषु वस्तुषु प्रमाणमन्तःकरण प्रवृत्तयः||२०||
तथापि तत्त्वत एनामुपलस्ये |
शकुंतला – – ( ससंभ्रमम् )
अम्भो | सलिलसेकसंभ्रमोद्गतो नवमालिकामुज्झित्वा वदनं मे
मधुकरोभिवर्तते |
( इति भ्रमरबाधां रूपयति )
राजाः – – ( सस्पृहम् )
चलपाङ्गां दृष्टिं स्पृशसि बहुशो वेपथुमतीं
रहस्याख्यायीव स्वनसि मृदु कर्णान्तिकचरः |
करौ व्याधुन्वत्याः पिबसि रतिसर्वस्वमधरम्
वयं तत्त्वान्वेषान्मधुकर हतास्त्वं खलु कृती||२१||
शकुंतला – – न एष धृष्टो विरमति | अन्यतो गमिष्यामि |
कथमितोऽप्यागच्छति | हला परित्रायेथां मामनेन दुर्विनीतेन
मधुकरेणाभिभूयमानाम् |
उभे – – ( सस्मितम् ) के आवां परित्रातुम् | दुष्यंतमाक्रन्द |
राजरक्षितव्यानि तपोवनानि नाम |
राजाः – – अवसरोऽयमात्मानं प्रकाशयितुम् | न भेतव्यं न
भेतव्यम् -|
( इत्यर्धोक्ते स्वगतम् )
राजभावस्त्वभिज्ञातो भवेत् | भवतु एवं तावदभिधास्ये |
शकुंतला – – ( पदान्तरे स्थित्वा | सदृष्टिक्षेपम् )
कथमितोऽपि मामनुसरति |
राजाः – – ( सत्वरमुपसृत्य )
आः
कः पौरवे वसुमतीं शासति शासितरि दुर्विनीतानाम्
अयमाचरत्यविनयं मुग्धासु तपस्विकन्यासु||२२||
( सर्वा राजानं दृष्टा किंचिदिव सम्भ्रान्ताः )
अनसूया – – आर्य न खलु किमप्यत्याहितम् | इयं नौ प्रियसखी
मधुकरेणाभिभूयमाना कातरीभूता |
( इति शकुंतलां दर्शयति )
राजाः – – ( शकुंतलाभिमुखो भूत्वा )
अपि तपो वर्धते |
( शकुंतला साध्वसादवचना तिष्ठति )
अनसूया – – इदानीमतिथिविशेषलाभेन | हला शकुन्तले
गच्छोटजम् | फलमिश्रमर्घमुपहर | इदं पादोदकं भविष्यति|
राजाः – – भवतीनां सूनृतयैव गिराकृतमातिथ्यम् |
प्रियंवदा – – तेन ह्यस्यां प्रछायशीतलायां सप्तपर्णवेदिकायां
मुहूर्तमुपविश्य परिश्रमविनोदं करोत्वार्यः |
राजाः – – नूनं यूयमप्यनेन कर्मणा परिश्रान्ताः |
अनसूया – – हला शकुन्तले उचितं नः पर्युपासनमतिथीनाम् |
अत्रोपविशामः |
( इति सर्वा उपविशन्ति )
शकुंतला – – ( आत्मगतम् )
किं नु खल्विमं प्रेक्ष्य तपोवनविरोधिनो विकारस्य गमनीयास्मि
संवृत्ता |
राजाः – – ( सर्वा विलोक्य )
अहो समवयोरूपरमणीयं भवतीनां सौहार्दम् |
प्रियंवदा – – ( जनान्तिकम् )
अनसूये को नु खल्वेष चतुरगम्भीराकृतिर्मधुरं
प्रियमालपन्प्रभाववानिव लक्ष्यते |
अनसूया – – सखि ममाप्यस्ति कौतूहलम् | पृच्छामि तावदेनम् |
( प्रकाशम् )
आर्यस्य मधुरालापजनितो विश्रम्भो मां मन्त्रयते कतम आर्येण
राजर्षिवंशोऽलंक्रियते कतमो वा विरहपर्युत्सुकजनः कुतो देशः
किंनिमित्तं वा सुकुमारतरोऽपि तपोवनगमनपरिश्रमस्यात्मा
पदमुपनीतः |
शकुंतला – – ( आत्मगतम् )
हृदय मोत्ताम्य | एषा त्वया चिन्तितान्यनसूया मन्त्रयते |
राजाः – – ( आत्मगतम् )
कथमिदानीं आत्मानं निवेदयामि कथं वात्मापहारं करोमि | भवतु |
एवं तावदेनां वक्ष्ये |
( प्रकाशम् )
भवति यः पौरवेण राज्ञा धर्माधिकारे नियुक्तः
सोहमविघ्नक्रियौपलम्भाय धर्मारण्यमिदं आयातः |
( शकुंतला शृङ्गारलज्जां रूपयति )
अनसूया – – ( उभयोराकारं विदित्वा | जनान्तिकम् )
हला शकुन्तले यद्यत्राद्य तातः संनिहितो भवेत् |
शकुंतला – – ततः किं भवेत् |
सख्यौ – – इमं जीवितसर्वस्वेनाप्यतिथिविशेषं कृतार्थं
करिष्यति |
शकुंतला – – युवामपेतम् | किमपि हृदये कृत्वा मत्रयेथे | न
युवयोर्वचनं श्रोष्यामि |
राजाः – – वयमपि तावद्भवत्योः सखीगतं किमपि पृच्छामः |
सख्यौ – – आर्य अनुग्रह इवेयमभ्यर्थना |
राजाः – – भगवान्काश्यपः शाश्वते ब्रह्मणि स्थित इति प्रकाशः |
इयं च वः सखी तदात्मजेति कथमेतत् |
अनसूया – – शृणोत्वार्यः | अस्ति कोऽपि कौशिक इति गोत्रनामधेयो
महाप्रभावो राजर्षिः |
राजाः – – अस्ति | श्रूयते |
अनसूया – – तमावयोः प्रियसख्याः प्रभवमवगच्छ | उज्झितायाः
शरीरसंवर्धनादिभिस्तातकाश्यपोऽस्याः पिता |
राजाः – – उज्झितशब्देन जनितं मे कौतूहलम् |
आमूलाच्छ्ह्रोतुमिच्छामि |
अनसूया – – शृणोत्व् आर्यः | गौतमीतीरे पुरा किल तस्य
राजर्षेरुग्रे तपसि वर्तमानस्य किमपि जातशङ्कैर्देवैर्मेनका
नामाप्सराः प्रेषिता नियमविघ्नकारिणी |
राजाः – – अस्त्येतदन्यसमाधिभीरुत्वं देवानाम् |
अनसूया – – ततो वसंतोदारसमये तस्या उन्मादयितृ रूपं प्रेक्ष्य –
( इत्यर्धोक्ते लज्जया विरमति )
राजाः – – परस्ताज्ज्ञायत एव | सर्वथाप्सरःसंभवैषा |
अनसूया – – अथ किम् |
राजाः – – उपपद्यते |
मानुषीषु कथं वा स्यादस्य रूपस्य संभवः |
न प्रभातरलं ज्योतिरुदेति वसुधातलात्||२३||
( शकुंतलाऽधोमुखी तिष्ठति )
राजाः – – ( आत्मगतम् )
लब्धावकाशो मे मनोरथः | किं तु सख्या परिहासोदाहृतां
वरप्रार्थनां श्रुत्वा धृतद्वैधीभावकातरं मे मनः |
प्रियंवदा – – ( सस्मितं शकुंतलां विलोक्य नायकाभिमुखी भूत्वा )
पुनरपि वक्तुकाम इवार्यः |
( शकुंतला सखीमङ्गुल्या तर्जयति )
राजाः – – सम्यगुपलक्षितं भवत्या | अस्ति नः
सच्चरितश्रवणलोभादन्यदपि प्रष्टव्यम् |
प्रियंवदा – – अलं विचार्य | अनियन्त्रणानुयोगस्तपस्विजनो नाम |
राजाः – – इति सखीं ते ज्ञातुमिच्छामि |
वैखानसं किमनया व्रतमाप्रदानाद् –
व्यापाररोधि मदनस्य निषेवितव्यम् |
अत्यन्तमात्मसदृशेक्षणवल्लभाभिराहो
निवत्स्यति समं हरिणाङ्गनाभि||२४||
प्रियंवदा – – आर्य धर्मचरणेऽपि परवशोऽयं जनः | गुरोः
पुनरस्या अनुरूपवरप्रदाने संकल्पः |
राजाः – – ( आत्मगतम् )
न दुरवापेयं खलु प्रार्थना |
भव हृदय साभिलाषं संप्रति संदेहनिर्णयो जातः |
आशङ्कसे यदग्निं तदिदं स्पर्शक्षमं रत्नम्||२५||
शकुंतला – – ( सरोषमिव )
अनसूये गमिष्याम्यहम् |
अनसूया – – किंनिमित्तम् |
शकुंतला – – इमामसम्बद्धप्रलापिनीं प्रियंवदां आर्यायै गौतम्यै
निवेदयिष्यामि |
अनसूया – – सखि न युक्तमकृतसत्कारमतिथिविशेषं विसृज्य
स्वछन्दतो गमनम् |
( शकुंतला न किंचिदुक्त्वा प्रस्थितैव )
राजाः – – ( ग्रहीतुमिच्छन्निगृह्यात्मानम् | आत्मगतम् )
अहो चेष्टाप्रतिरूपिका कामिजनमनोवृत्तिः | अहं हि
अनुयास्यन्मुनितनयां सहसा विनयेन वारितप्रसरः |
स्थानादनुच्चलन्नपि गत्वेव पुनः प्रतिनिवृत्तः||२६||
प्रियंवदा – – ( शकुंतलां निरुध्य )
हला न ते युक्तं गन्तुम् |
शकुंतला – – ( सभ्रूभङ्गम् )
किंनिमित्तम् |
प्रियंवदा – – वृक्षसेचने द्वे धारयसि मे | एहि तावत् | आत्मानं
मोचयित्वा ततो गमिष्यसि |
( इति बलादेनां निवर्तयति )
राजाः – – भद्रे वृक्षसेचनादेव परिश्रान्तामत्रभवतीं लक्षये |
तथा ह्यस्याः
स्रस्तांसावतिमात्रलोहिततलौ बाहू घटोत्क्षेपणादद्यपि स्तनवेपथुं
जनयति श्वासः प्रमाणाधिकः |
बद्धं कर्णशिरीषरोधि वदने धर्माम्भसां जालकं
बन्धे स्रंसिनि चैकहस्तयमिताः पर्याकुला मूर्धजाः||२७||
तदहमेनांनृणां करोमि |
( इत्यङ्गुलीयं दातुमिच्छति )
( उभे नाममुद्राक्षराण्यनुवाच्य परस्परमवलोकयतः )
राजाः – – अलमस्मानन्यथा संभाव्य | राज्ञः परिग्रहोयमिति
राजपुरुष मामवगच्छत |
प्रियंवदा – – तेन हि नार्हत्यङ्गुलीयकमङ्गुलीवियोगम् | आर्यस्य
वचनेनानृणेदानीमेषा |
( किञ्चिद्विहस्य )
हला शकुन्तले मोचितास्यनुकम्पिनार्येण | अथवा महाराजेन |
गच्छेदानीम् |
शकुंतला – – ( आत्मगतम् )
यद्यात्मनः प्रभविष्यामि |
( प्रकाशम् )
का त्वं विस्रष्टव्यस्य रोद्धव्यस्य वा |
राजाः – – ( शकुंतलां विलोक्य | आत्मगतम् )
किं नु खलु यथा वयमस्यामेवमियमप्यस्मान्प्रति स्यात् | अथवा
लब्धावकाशा मे प्रार्थना | कुतः |
वाचं न मिश्रयति यद्यपि मद्वचोभिः
कर्णं ददात्यभिमुखं मयि भाषमाणे |
कामं न तिष्ठति मदाननसंमुखीना
भूयिष्ठमन्यविषया न तु दृष्टिरस्याः||२८||
( नेपथ्ये )
भो भोस्तपस्विनः संनिहितास्तपोवनसत्त्वरक्षायै भवत | प्रत्यासन्नः
किल मृगयाविहारी पार्थिवो दुष्यन्तः |
तुरगखुरहतस्तथा हि रेणुर्विटपविषक्तजलार्द्रवल्कलेषु |
पतति परिणतारुणप्रकाशः शलभसमूह इवाश्रमद्रुमेषु||२९||
अपि च |
तीव्राघातप्रतिहततरुस्कन्धलग्नैकदन्तः
पादाकृष्टव्रततिवलयासङ्गसंजातपाशः |
मूर्तो विघ्नस्तपस इव नो भिन्नसारङ्गयूथो
धर्मारण्यं प्रविशति गजः स्यन्दनालोकभीतः||३०||
( सर्वाः कर्णं दत्त्वा किंचिदिव सम्भ्रान्ताः )
राजाः – – ( आत्मगतम् )
अहो धिक् पौरा अस्मदन्वेषिणस्तपोवनुपरुन्धन्ति | भवतु |
प्रतिगमिष्यामस्तावत् |
सख्यौ – – आर्य अनेनारण्यकवृत्तान्तेन पर्याकुलाः स्मः | अनुजानीहि
न उटजगमनाय |
राजाः – – ( ससंभ्रमम् )
गच्छन्तु भवत्यः | वयमप्याश्रमपीडा यथा न भवति तथा
प्रयतिष्यामहे |
( सर्वे उत्तिष्ठन्ति )
सख्यौ – – आर्य असंभावितातिथिसत्कारं भूयोऽपि प्रेक्षणनिमित्तं
लज्जामहे आर्यं विज्ञापयितुम् |
राजाः – – मा मैवम् | दर्शनेनैव भवतीनां पुरस्कृतोऽस्मि |
शकुंतला – – अनसूये अभिनवकुशसूच्या परिक्षतं मे चरणं
कुरबकशाखापरिलग्नं च वल्कलम् | तावत्परिपालयत मां
यावदेतन्मोचयामि |
( शकुंतला राजानमवलोकयन्ती सव्याजं विलम्ब्य सह सखीभ्यां
निष्क्रान्ता )
राजाः – – मन्दौत्सुक्योऽस्मि नगरगमनं प्रति |
यावदनुयात्रिकान्समेत्य नातिदूरे तपोवनस्य निवेशयेयम् | न खलु
शक्नोमि शकुंतलाव्यापारादात्मानं निवर्तयितुम् | मम हि
गच्छति पुरः शरीरं धावति पश्चादसंस्तुतं चेतः |
चीनांशुकमिव केतोः प्रतिवातं नीयमानस्य||३१||
( इति निष्क्रान्ताः सर्वे )
( इति प्रथमोऽङ्कः | )
द्वितीयोऽङ्कः |
( ततः प्रविशति विषण्णो विदूषकः )
विदूषकः – – ( निःश्वस्य )
भो दिष्टम् | एतस्य मृगयाशीलस्य राज्ञो वयस्यभावेन निर्विण्णोऽस्मि
| अयम् मृगोऽयं वहारोऽयं शार्दूल इति मध्याह्नेऽपि
ग्रीष्मविरलपादपछायासु वनराजिष्वाहिण्डयते अटवीतोऽटवी |
पत्रसङ्करकषायाणि कदुष्णानि गिरिनदीजलानि पीयन्ते | अनियतवेलं
शूल्यमांसभूयिष्ठ आहारो भुज्यते | तुरगानुधावनकण्डितसंधे
रात्रावपि निकामं शयितव्यं नास्ति | ततो महत्येव प्रत्यूषे
दास्याःपुत्रैः शकुनिलुब्धकैर्वनग्रहणकोलाहलेन प्रतिबोधितोऽस्मि |
इयतेदानीमपि पीडा न निष्क्रामति | ततो गण्डस्योपरि पिण्डकः
संवृत्तः | ह्यः किलास्मास्ववहीनेषु तत्र भवतो
मृगानुसारेणाश्रमपदं प्रविष्टस्य तापसकन्यका शकुंतला
ममाधन्यतया दर्शिता | साम्प्रतं नगरगमनाय मनः कथमपि न
करोति | अद्यापि तस्य तामेव चिन्तयतोऽक्ष्णोः प्रभातमासीत् | का गतिः
| यावत्तं कृताचारपरिक्रमं पश्यामि |
( इति परिक्रम्यावलोक्य च )
एष बाणासनहस्ताभिर्यवनीभिर्वनपुष्पमालाधारिणीभिः परिवृत
इत एवागछति प्रियवयस्यः | भवतु | अन्गभन्गविकल इव भूत्वा
स्थास्यामि | यद्येवमपि नाम विश्रमं लभेय |
( इति दण्डकाष्ठमवलम्ब्य स्थितः )
( ततः प्रविशति यथानिर्दिष्टपरिवारो राजा )
राजाः – –
कामं प्रिया न सुलभा मनस्तु तद्भावदर्शनाश्वासि |
अकृतार्थेऽपि मनसिजे रतिमुभयप्रार्थना कुरुते||१||
( स्मितं कृत्वा )
एवमात्माभिप्रायसम्भावितेष्टजनचित्तवृत्तिः प्रार्थयिता विडम्ब्यते
|
स्निग्धं वीक्षितमन्यतोऽपि नयने यत्प्रेरयन्त्या तया
यातं यच्च नितम्बयोर्गुरुतया मन्दं विलासादिव |
मा गा इत्युपरुद्धया यदपि सा सासूयमुक्ता सखी
सर्वं तत्किल मत्परायणमहो कामी स्वतां पश्यति||२||
विदूषकः – – ( तथास्थित एव )
भो वयस्य न मे हस्तपादं प्रसरति तद्वाङ्मात्रेण जापयिष्यामि |
जयतु जयतु भवान् |
राजाः – – कुतोऽयं गात्रोपघातः |
विदुषकः – – कुतः किल स्वयमक्ष्याकुलीकृत्याश्रुकारणं पृच्छसि
|
राजाः – – न खल्वावगच्छामि |
विदुषकः – – भो वयस्य यद्वेतसः कुब्जलीलां विडम्बयति तत्किमात्मनः
प्रभावेण ननु नदीवेगस्य |
राजाः – – नदीवेगस्तत्र कारणम् |
विदुषकः – – ममापि भवान् |
राजाः – – कथमिव |
विदुषकः – – एवं राजकार्याण्युज्झित्वैतादृश आकुलप्रदेशे
वनचरवृत्तिना त्वया भवितव्यम् | यत्सत्यं प्रत्यहं
श्वापदसमुत्सारणैः संक्षोभितसंधिबन्धानां मम
गात्राणामनीशोऽस्मि संवृत्तः | तत्प्रसीद मे | एकाहमपि
तावद्विश्रम्यताम् |
राजाः – – ( स्वगतम् )
अयं चैवमाह | ममापि काश्यपसुतामनुस्मृत्य मृगयाविक्लवं चेतः |
कुतः |
न नमयितुमधिज्यमस्मि शक्तो धनुरिदमाहितसायकं मृगेषु |
सहवसतिमुपेत्य यैः प्रियायाः कृत इव मुग्धविलोकितोपदेशः||३||
विदुषकः – – ( राज्ञो मुखं विलोक्य )
अत्रभवान्किमपि हृदये कृत्वा मन्त्रयते | अरण्ये मया रुदितमासीत् |
राजाः – – ( सस्मितम् )
किमन्यत् | अनतिक्रमणीयं मे सुहृद्वाक्यमिति स्थितोऽस्मि |
विदुषकः – – चिरं जीव |
( इति गन्तुमिछति )
राजाः – – वयस्य तिष्ठ | सावशेषं मे वचः |
विदुषकः – – आज्ञापयतु भवान् |
राजाः – – विश्रान्तेन भवता ममाप्येकस्मिन्ननायासे कर्मणि सहायेन
भवितव्यम् |
विदुषकः – – किं मोदकखादिकायाम् | तेन ह्ययं सुगृहीतः क्षणः |
राजाः – – यत्र वक्ष्यामि | कः कोऽत्र भोः |
( प्रविश्य )
दौवारिकः – – ( प्रणम्य )
आज्ञापयतु भर्त्ता |
राजाः – – रैवतक सेनापतिस्तावदाहूयताम् |
दौवारिकः – – तथा |
( इति निष्क्रम्य सेनापतिना सह पुनः प्रविश्य )
एष आज्ञावचनोत्कण्ठो भर्तेतोदत्तदृष्टिरेव तिष्ठति |
उपसर्पत्वार्यः |
सेनापति – – ( राजानमवलोक्य )
दृष्टदोषापि स्वामिनि मृगया केवलं गुण एव संवृत्ता | तथा हि
देवः
अनवरतधनुर्ज्यास्फालनक्रूरपूर्व
रविकिरणसहिष्णु स्वेदलेशैरभिन्नम् |
अपचितमपि गात्रं व्यायतत्वादलक्ष्यं
गिरिचर इव नागः प्राणसारं बिभर्ति||४||
( उपेत्य )
जयतु जयतु स्वामी | गृहीतश्वापदमरण्यम् | किमन्यत्रावस्थीयते |
राजाः – – मन्दोत्साहः कृतोऽस्मि मृगयापवादिना माधव्येन |
सेनापति – – ( जनान्तिकम् )
सखे स्थिरप्रतिबन्धो भव | अहं
तावत्स्वामिनश्चित्तवृत्तिमनुवर्तिष्ये |
( प्रकाशम् )
प्रलपत्वेष वैधेयः | ननु प्रभुरेव निदर्शनम् |
मेदश्छेदकृशोदरं लघु भवत्युत्थानयोग्यं वपुः
सत्त्वानामपि लक्ष्यते विकृतिमच्चित्तं भयक्रोधयोः |
उत्कर्षः स च धन्विनां यदिषवः सिध्यन्ति लक्ष्ये चले
मिथ्यैव व्यसनं वदन्ति मृगयामीदृग्विनोदः कुतः||५||
विदुषकः – – अपेहि रे उत्साहहेतुक | अत्रभवान्प्रकृतिमापन्नः | त्वं
तावदटवीतोऽटवीमाहिण्डमानो नरनासिकालोलुपस्य जीर्णर्क्षिस्य कस्यापि
मुखे पतिष्यसि |
राजाः – – भद्र सेनापते आश्रमसंनिकृष्टे स्थिताः स्मः | अतस्ते
वचो नाभिनन्दामि | अद्य तावत् |
गाहन्तां महिषा निपानसलिलं शृङ्गैर्मुहुस्ताडितम्
छायाबद्धकदम्बकं मृगकुलं रोमन्थमभ्यस्यतु |
विश्रब्धं क्रियतां वराहततिभिर्मुस्ताक्षतिः पल्वले
विश्रामं लभतामिदं च शिथितलज्याबन्धमस्मद्धनुः||६||
सेनापति – – यत्प्रभविष्णवे रोचते |
राजाः – – तेन हि निवर्तय पूर्वगतान्वनग्राहिणः | यथा न मे
सैनिकास्तपोवनमुपरुन्धन्ति तथा निषेद्धव्याः | पश्य |
शमप्रधानेषु तपोधनेषु गूढं हि दाहात्मकमस्ति तेजः |
स्पर्शानुकूला इव सूर्यकान्तास्तदन्यतेजोऽभिभवाद्वमन्ति||७||
सेनापति – – यदाज्ञापयति स्वामी |
विदुषकः – – ध्वंसतां ते उत्साहवृत्तान्तः |
( निष्क्रान्तः सेनापतिः )
राजाः – – ( परिजनं विलोक्य )
अपनयन्तु भवत्यो मृगयावेशम् | रैवतक त्वमपि स्वं नियोगमशून्यं
कुरु |
परिजन – – यद्देव आज्ञापयति |
( इति निष्क्रान्तः )
विदुषकः – – कृतं भवता निर्मक्षिकम् |
साम्प्रतमेतस्मिन्पादपछायाविरचितवितानसनाथे शिलातले निषीदतु
भवान्यावदहमपि सुखासीनो भवामि |
राजाः – – गच्छाग्रतः |
विदुषकः – – एतु भवान् |
( इत्युभौ परिक्रम्यौपविष्टौ )
राजाः – – माधव्य अनवाप्तचक्षुःफलोऽसि | येन त्वया दर्शनीयं न
दृष्टम् |
विदुषकः – – ननु भवानग्रतो मे वर्तते |
राजाः – – सर्वः कान्तमात्मीयं पश्यति | अहं तु तां
एवाश्रमललामभूतां शकुंतलामधिकृत्य ब्रवीमि |
विदुषकः – – ( स्वगतम् ) भवतु | अस्यावसरं न दास्ये |
( प्रकाशम् )
भो वयस्य ते तापसकन्यकाभ्यर्थनीया दृश्यते |
राजाः – – सखे न परिहार्ये वस्तुनि पौरवाणां मनः प्रवर्तते |
सुरयुवतिसंभवं किल मुनेरपत्यं तदुज्झिताधिगतम् |
अर्कस्योपरि शिथिलं च्युतमिव नवमालिकाकुसुमम्||८||
विदुषकः – – ( विहस्य )
यथा कस्यापि पिण्डखर्जूरैरुद्वेजितस्य तिण्ड्यां
( तिन्तिण्यां )
अभिलाषो भवेत्तथा स्त्रीरत्नपरिभोगिणः भवत इयमभ्यर्थना |
राजाः – – न तावदेनां पश्यासि येनैवमवादीः |
विदुषकः – – तत्खलु रमणीयं यद्भवतोऽपि विस्मयमुत्पादयति |
राजाः – – वयस्य किं बहुना |
चित्रे निवेश्य परिकल्पितसत्त्वयोगा
रूपोच्चयेन मनसा विधिना कृता नु |
स्त्रीरत्नसृष्टिरपरा प्रतिभाति सा मे
धातुर्विभुत्वमनुचिन्त्य वपुश्च तस्याः||९||
विदुषकः – – यद्येवं प्रत्यादेश इदानीं रूपवतीनाम् |
राजाः – – इदं च मे मनसि वर्तते |
अनाघ्रातं पुष्पं किसलयमलूनं कररुहैरनाविद्धं
रत्नं मधु नवमनास्वादितरसम् |
अखण्डं पुष्यानां फलमिव च तद्रूपमनघं न जाने
भोक्तारं कमिह समुपस्थास्यति विधिः||१०||
विदुषकः – – तेन हि लघु परित्रायतामेनां भवान् | मा कस्यापि
तपस्विन इन्गुदीतैलचिक्कणशीर्षस्य हस्ते पतिष्यति |
राजा – – परवती खलु तत्रभवती | न च संनिहितोऽत्र गुरुजनः |
विदुषकः – – अथ भवन्तमन्तरेण कीदृशस्तस्या दृष्टिरागः |
राजाः – – निसर्गादेवाप्रगल्भस्तपस्विकन्याजनः | तथापि तु
अभिमुखे मयि सम्हृतमीक्षितं हसितमन्यनिमित्तकृतोदयम् |
विनयवारितवृत्तिरतस्तया न विवृतो मदनो न च संवृतः||११||
विदुषकः – – न खलु दृष्टमात्रस्य तवाङ्कं समारोहति |
राजाः – – मिथः प्रस्थाने पुनः शालीनतयापि काममाविष्कृतो
भावस्तत्रभवत्या | तथा हि |
दर्भाङ्कुरेण चरणः क्षत इत्यकाण्डे तन्वी
स्थिता कतिचिदेव पदानि गत्वा |
आसीद्विवृत्तवदना च विमोचयन्ती
शाखासु वल्कलमसक्तमपि द्रुमाणाम्||१२||
विदुषकः – – तेन हि गृहीतपाथेयो भव | कृतं त्वयोपवनं
तपोवनमिति पश्यामि |
राजाः – – सखे तपस्विभिः कैश्चित्परिज्ञातोऽस्मि | चिन्तय
तावत्केनापदेशेन पुनराश्रमपदं गच्छामः |
विदुषकः – – कोऽपरोऽपदेशो युष्माकं राज्ञाम् |
नीवारषष्ठभागमस्माकमुपहरन्त्विति |
राजाः – – मूर्ख अन्यमेव भागधेयमेते तपस्विनो निर्वपन्ति यो
रत्नराशीनपि विहायाभिनन्द्यते | पश्य |
यदुत्तिष्ठति वर्णेभ्यो नृपाणां क्षयि तत्फलम् |
तपःषड्भागमक्षय्यं ददत्यारण्यका हि नः||१३||
( नेपथ्ये )
हन्त सिद्धार्थौ स्वः |
राजाः – – ( कर्णं दत्त्वा )
अये धीरप्रशान्तस्वरैस्तपस्विभिर्भवितव्यम् |
( प्रविश्य )
दौवारिकः – – जयतु जयतु भर्ता | एतौ द्वौ ऋषिकुमारौ
प्रतीहारभूमिमुपस्थितौ |
राजाः – – तेन ह्यविलम्बितं प्रवेशय तौ |
दौवारिकः – – एष प्रवेशयामि |
( इति निष्क्रम्य ऋषिकुमाराभ्यां सह प्रविश्य )
( उभौ राजानं विलोकयतः )
प्रथमः – – अहो दीप्तिमतोऽपि विश्वसनीयतास्य वपुषः | अथवा
उपपन्नमेतदस्मिन् ऋषिभ्यो नातिभिन्ने राजनि | कुतः |
अध्याक्रान्ता वसतिरमुनाप्याश्रमे सर्वभोग्ये
रक्षायोगादयमपि तपः प्रत्यहं संचिनोति |
अस्यापि द्यां स्पृशति वशिनश्चारणद्वन्द्वगीतः
पुण्यःशब्दो मुनिरिति मुहुः केवलं राजपूर्वः||१४||
द्वितीयः – – गौतम अयं स बलभित्सखो दुष्यन्तः |
प्रथमः – – अथ किम् |
द्वितीयः – – तेन हि
नैतच्चित्रं यदयमुदधिश्यामसीमां धरित्रीमेकः
कृत्स्नां नगरपरिघप्रांशुबाहुर्भुनक्ति |
आशंसन्ते समितिषु सुरा बद्धवैरा हि दैत्यैरस्याधिज्ये
धनुषि विजयं पौरुहूते च वज्रे||१५||
उभौ – – ( उपगम्य )
विजयस्व राजन् |
राजाः – – ( आसनादुत्थाय )
अभिवादये भवन्तौ |
उभौ – – स्वस्ति भवते |
( इति फलान्युपहरतः )
राजाः – – ( सप्रणामं परिगृह्यः )
आज्ञापयितुमिच्छामि |
उभौ – – विदितो भवानाश्रमसदामिहस्थः | तेन भवन्तं प्रार्थयन्ते
|
राजाः – – किमाज्ञापयन्ति |
उभौ – – तत्रभवतः कण्वस्य महर्षेरसांनिध्याद्रक्षांसि न
इष्टिविघ्नमुत्पादयन्ति | तत्कतिपयरात्रं सारथिद्वितीयेन भवता
सनाथीक्रियतामाश्रम इति |
राजाः – – अनुगृहीतोऽस्मि |
विदुषकः – – ( अपवार्य )
एषेदानीमनुकूला तेऽभ्यर्थना |
राजाः – – ( स्मितं कृत्वा )
रैवतक मद्वचनादुच्यतां सारथिः | सबाणासनं रथमुपस्थापयेति
|
दौवारिकः – – यद्देव आज्ञापयति |
( इति निष्क्रान्तः )
उभौ – – ( सहर्षम् )
अनुकारिणि पूर्वेषां युक्तरूपमिदं त्वयि |
आपन्नाभयसत्रेषु दीक्षिताः खलु पौरवाः||१६||
राजाः – – ( सप्रणामम् )
गच्छतां पुरो भवन्तौ | अहमप्यनुपदमागत एव |
उभौ – – विजयस्व
( इति निष्क्रान्तौ )
राजाः – – माधव्य अप्यस्ति शकुंतलादर्शने कुतूहलम् |
विदुषकः – – प्रथमं सपरिवाहमासीत् | इदानीं
राक्षसवृत्तान्तेन बिन्दुरपि नावशेषितः |
राजाः – – मा भैषीः | ननु मत्समीपे वर्तिष्यसे |
विदुषकः – – एष राक्षसाद्रक्षितोऽस्मि |
( प्रविश्य )
दौवारिकः – – सज्जो रथो भर्तुर्विजयप्रस्थानमपेक्षते | एष
पुनर्नगराद्देवीनामाज्ञप्तिहरः करभक आगतः |
राजाः – – ( सादरम् )
किमम्बाभिः प्रेषितः |
दौवारिकः – – अथ किम् |
राजाः – – ननु प्रवेश्यताम् |
दौवारिकः – – तथा |
( इति निष्क्रम्य करभकेण सह प्रविश्य )
एष भर्ता | उपसर्प |
करभकः – – जयतु जयतु भर्ता | देव्याज्ञापयति | आगामिनि
चतुर्थदिवसे प्रवृत्तपारणो मे उपवासो भविष्यति | तत्र
दीर्घायुषावश्यं संभावनीयेति |
राजाः – – इतस्तपस्विकार्यम् | इतो गुरुजनाज्ञा |
द्वयमप्यनतिक्रमणीयम् | किमत्र प्रतिविधेयम् |
विदुषकः – – त्रिशङ्कुरिवान्तरा तिष्ठ |
राजाः – – सत्यमाकुलीभूतोऽस्मि |
कृत्ययोर्भिन्नदेशत्वाद् द्वैधीभवति मे मनः |
पुरः पतिहतं शैले स्रोतः स्रोतोवहो यथा||१७||
( विचिन्त्य )
सखे त्वमम्बया पुत्र इति प्रतिगृहीतः | अतो भवानितः प्रतिनिवृत्य
तपस्विकार्यव्यग्रमानसं मामावेद्य तत्रभवतीनां
पुत्रकृत्यमनुष्ठातुमर्हति |
विदुषकः – – न खलु मां रक्षोभीरुकं गणयसि |
राजाः – – ( सस्मितम् )
कथमेतद्भवति संभाव्यते |
विदुषकः – – यथा राजानुजेन गन्तव्यं तथा गच्छामि |
राजाः – – ननु तपोवनोपरोधः परिहरणीय इति
सर्वानानुयात्रिकांस्त्वयैव सह प्रस्थापयामि |
विदुषकः – – ( सगर्वम् )
तेन हि युवराजोऽस्मीदानीं संवृत्तः |
राजाः – – ( स्वगतम् )
चपलोऽयं बटुः | कदाचिदस्मत्प्रार्थनामन्तःपुरेभ्यः कथयेत् |
भवतु | एनमेवं वक्ष्ये |
( विदूषकं हस्ते गृहीत्वा | प्रकाशम् )
वयस्य ऋषिगौरवादाश्रमं गच्छामि | न खलु सत्यमेव
तापसकन्यकायां ममाभिलाषः | पश्य |
क्व वयं क्व परोक्षमन्मथो मृगशावैः सममेधितो जनः |
परिहासविजल्पितं सखे परमार्थेन न गृह्यतां वचः||१८||
विदुषकः – – अथ किम् |
( इति निष्क्रान्ताः सर्वे )
( इति द्वितीयोऽङ्कः | )
तृतीयोऽङ्कः |
( ततः प्रविशति कुशानादाय यजमानशिष्यः )
शिष्यः – – अहो महानुभावः पार्थिवो दुष्यन्तः | यत्प्रविष्टमात्र
एवाश्रमं तत्रभवति निरुपद्रवाणि नः कर्माणि संवृत्तानि |
का कथा बाणसंधाने ज्याशब्देनैव दूरतः |
हुंकारेणेव धनुषः स हि विघ्नानपोहति||१||
यावदिमान्वेदिसंस्तरणार्थं दर्भानृत्विग्भ्य उपहरामि |
( परिक्रम्यावलोक्य च | आकाशे )
प्रियंवदे कस्यिदमुशीरानुलेपनं मृणालवन्ति च नलिनीपत्राणि
नीयन्ते |
( श्रुतिमभिनीय )
किं ब्रवीषि | आतपलङ्घनाद्बलवदस्वस्था शकुंतला तस्याः
शरीरनिर्वापणायेति | तर्हि यत्नादुपचर्यताम् | सा खलु भगवतः
कण्वस्य कुलपतेरुच्छ्वसितम् | अहमपि तावद्वैतानिकं शान्त्युदकमस्यै
गैतमीहस्ते विसर्जयिष्यामि |
( इति निष्क्रान्तः )
विष्कम्भकः |
( ततः प्रविशति कामयमानावस्थो राजा )
राजाः – – ( सचिन्तं निःश्वस्य )
जाने तपसो वीर्यं सा बाला परवतीति मे विदितम् |
अलमस्मि ततो हृदयं तथापि नेदं निवर्तयितुम्||२||
( मदनबाधां निरूप्य )
भगवन्कुसुमायुध त्वया चन्द्रमसा च
विश्वसनीयाभ्यामतिसंधीयते कामिजनसार्थः | कुतः |
तव कुसुमशरत्वं शीतरश्मित्वमिन्दोर्द्वयमिदमयथार्थं
दृश्यते मद्विधेषु |
विसृजति हिमगर्भैंरग्निमिन्दुर्मयूखैस्त्वमपि
कुसुमबाणान्वज्रसारीकरोषि||३||
अथवा |
( अद्यापि नूनं हरकोपवह्निनस्त्वयि ज्वलत्यौर्व इवाम्बुराशौ |
( त्वमन्यथा मन्मथ मद्विधानां भस्मावशेषः
( कथमित्थमुष्णः||
अनिशमपि मकरकेतुर्मनसो रुजमावहन्नभिमतो मे |
यदि मदिरायतनयनां तामधिकृत्य प्रहरतीति||४||
( सखेदं परिक्रम्य )
क्व नु खलु संस्थिते कर्मणि सदस्यैरनुज्ञातः खिन्नमात्मानं
विनोदयामि |
( निःश्वस्य )
किं नु खलु मे प्रियादर्शनादृते शरणमन्यत् | यावदेनामन्विष्यामि
|
( सूर्यमवलोक्य )
इमामुग्रातपवेलां प्रायेण लतावलयवत्सु मालिनीतीरेषु ससखीजना
शकुंतला गमयति | तत्रैव तावद्गच्छामि |
( परिक्रम्य संस्पर्शं रूपयित्वा )
अहो प्रवातसुभगोऽयमुद्देशः |
शक्यमरविन्दसुरभिः कणवाही मालिनीतरङ्गाणाम् |
अङ्गैरनङ्गतप्तैरविरलमालिङ्गितुं पवनः||५||
( परिक्रम्यावलोक्य च )
अस्मिन्वेतसपरिक्षिप्ते लतामण्डपे संनिहितया शकुंतलया भवितव्यम् |
तथा हि |
अभ्युन्नता पुरस्तादवगाढा जघनगौरवात्पश्चात् |
द्वारेऽस्य पाण्डुसिकते पदपङ्क्तिर्दृश्यतेऽभिनवा||६||
यावद्विटपान्तरेणावलोकयामि |
( परिक्रम्य तथा कृत्वा | सहर्षम् )
अये लब्धं नेत्रनिर्वाणम् | एषा मे मनोरथप्रियतमा सकुसुमास्तरणं
शिलापट्टमधिशयानासखीभ्यामन्वास्यते | भवतु | श्रोष्याम्यासां
विश्रम्भकथितानि |
( इति विलोकयन्स्थितः )
( ततः प्रविशति यथोक्तव्यापारा सह सखीभ्यां शकुंतला )
सख्यौ – – ( उपवीज्य | सस्नेहम् )
हला शकुन्तले अपि सुखयति ते नलिनीपत्रवातः |
शकुंतला – – किं वीजयतो मां सख्यौ |
( सख्यौ विषादं नाटयित्वा परस्परमवलोकयतः )
राजाः – – बलवदस्वस्थशरीरा शकुंतला दृश्यते |
( सवितर्कम् )
तत्किमयमातपदोषः स्यादुत यथा मे मनसि वर्तते |
( साभिलाषं निर्वर्ण्य )
अथ वा कृतं संदेहेन |
स्तनन्यस्तोशीरं प्रशिथिलमृणालैकवलयं
प्रियायाः साबाधं किमपि कमनीयं वपुरिदम् |
समस्तापः कामं मनसिजनिदाघप्रसरयोर्न
तु ग्रीष्मस्यैवं सुभगमपराद्धं युवतिषु||७||
प्रियंवदा – – ( जनान्तिकम् )
अनसूये तस्य राजर्षेः प्रथमदर्शनारभ्यपर्युत्सुकेव शकुंतला |
किं नु खल्वस्यास्तन्निमित्तोऽयमातङ्को भवेत् |
अनसूया – – सखि ममापीदृश्याशङ्का हृदयस्य | भवतु | प्रक्ष्यामि
तावदेनाम् |
( प्रकाशम् )
सखि प्रष्टव्यासि किमपि | बलवान्खलु ते संतापः |
शकुंतला – – ( पूर्वार्धेन शयनादुत्थाय )
हला किं वक्तुकामासि |
अनसूया – – हला शकुन्तले अनभ्यन्तरे खल्वावां मदनगतस्य
वृत्तान्तस्य | किं तु यादृशीतिहासनिबन्धेषु
कामयमानानामवस्था श्रूयते तादृशीं तव पश्यामि | कथय
किंनिमित्तं ते संतापः | विकारं खलु परमार्थतोऽज्ञात्वाऽनारंभः
प्रतीकारस्य |
राजाः – – अनसूयामप्यनुगतो मदीयस्तर्कः | न हि स्वाभिप्रायेण मे
दर्शनम् |
शकुंतला – – ( आत्मगतम् )
बलवान्खलु मेऽभिनिवेशः | इदानीमपि सहसैतयोर्न शक्नोमि
निवेदयितुम् |
प्रियंवदा – – सखि शकुन्तले सुष्ठु एषा भणति | किमात्मन
आतङ्कमुपेक्षसे | अनुदिवसं खलु परिहीयसेऽङ्गैः | केवलं लावण्यमयी
छाया त्वां न मुञ्चति |
राजाः – – अवितथमाह प्रियंवदा | तथा हि
क्षामक्षामकपोलमाननमुरः काठिन्यमुक्तस्तनं
मध्यःक्लान्ततरः प्रकामविनतावंसौ छविः पाण्डुरा |
शोच्या च प्रियदर्शना च मदनक्लिष्टेयमालक्ष्यते
पत्राणामिव शोषणेन मरुता स्पृष्टा लता माधवी||८||
शकुंतला – – सखि कस्य वान्यस्य कथयिष्यामि |
किंत्वायासयित्रीदानीं वां भविष्यामि |
उभे – – अत एव खलु निर्बन्धः | स्निग्धजनसंविभक्तं हि दुःखं
सह्यवेदनं भवति |
राजाः – – पृष्टा जनेन समदुःखसुखेन बाला
नेयं न वक्ष्यति मनोगतमाधिहेतुम् |
दृष्टो विवृत्य बहुशोऽप्यनया सतृष्णमत्रान्तरे
श्रवणकातरतां गतोऽस्मि||९||
शकुंतला – – सखि यतःप्रभृति मम दर्शनपथमागतः स
तपोवनरक्षिता राजर्षिः |
( इत्यर्धोक्ते लज्जां नाटयति )
उभे – – कथयतु प्रियसखी |
शकुंतला – – तत आरभ्य तद्गतेनाभिलाषेणैतदवस्थास्मि
संवृत्ता |
राजाः – – ( सहर्षम् )
श्रुतं श्रोतव्यम् |
स्मर एव तापहेतुर्निर्वापयिता स एव मे जातः |
दिवस इवाभ्रश्यामस्तपात्यये जीवलोकस्य||१०||
शकुंतला – – तद्यदि वामनुमतं तथा वर्तेथां यथा तस्य
राजर्षेरनुकम्पनीया भवामि | अन्यथावश्यं सिञ्चत मे तिलोदकम् |
राजाः – – संशयच्छेदि वचनम् |
प्रियंवदा – – ( जनान्तिकम् )
अनसूये दूरगतमन्मथाऽक्षमेयं कालहरणस्य | यस्मिन्बद्धभावैषा
स ललामभूतः पौरवाणाम् | तद्युक्तमस्या अभिलाषोऽभिनन्दितुम् |
अनसूया – – तथा यथा भणसि |
प्रियंवदा – – ( प्रकाशम् )
सखि दिष्ट्यानुरूपस्तेऽभिनिवेशः | सागरमुज्झित्वा कुत्र वा
महानद्यवतरति | क इदानीं सहकारमन्तरेणातिमुक्तलतां पल्लवितां
सहते |
राजाः – – किमत्र चित्रं यदि विशाखे शशाङ्कलेखामनुवर्तेते |
अनसूया – – कः पुनरुपायो भवेद्येनाविलम्बितं निभृतं च सख्या
मनोरथं संपादयावः |
प्रियंवदा – – निभृतमिति चिन्तनीयं भवेत् | शीघ्रमिति सुकरम् |
अनसूया – – कथमिव |
प्रियंवदा – – ननु स राजर्षिरस्यां स्निग्धदृष्ट्या
सूचिताभिलाष एतान्दिवसान्प्रजागरकृशो लक्ष्यते |
राजाः – – सत्यमित्थंभूत एवास्मि | तथा हि
इदमशिशिरैरन्तस्तापाद्विवर्णमणीकृतं
निशि निशि भुजन्यस्तापाङ्गप्रसारिभिरश्रुभिः |
अनभिलुलितज्याघाताङ्कं मुहुर्मणिबन्धनात्कनकवलयं
स्रस्तं स्रस्तं मया प्रतिसार्यते||११||
प्रियंवदा – – ( विचिन्त्य )
हला मदनलेखोऽस्य क्रियताम् तं सुमनोगोपितं कृत्वा
देवप्रसादस्यापदेशेन तस्य हस्तं प्रापयिष्यामि |
अनसूया – – रोचते मे सुकुमारः प्रयोगः किं वा शकुंतला भणति |
शकुंतला – – किं नियोगो वां विकल्प्यते |
प्रियंवदा – – तेन ह्यात्मन उपन्यासपूर्वं चिन्तय तावत्किमपि
ललितपदबन्धनम् |
शकुंतला – – हला चिन्तयाम्यहम् | अवधीरणाभीरुकं पुनर्वेपते
मे हृदयम् |
राजाः – – ( सहर्षम् )
अयं स ते तिष्ठति संगमोत्सुको
विशङ्कसे भीरु यतोऽवधीरणाम् |
लभेत वा प्रार्थयिता न वा श्रियं
श्रिया दुरापः कथमीप्सितो भवेत्||१२||
सख्यौ – – अयि आत्मगुणावमानिनि क इदानीं शरीरनिर्वापयित्रीं
शारदीं ज्योत्स्नां पटान्तेन वारयति |
शकुंतला – – ( सस्मितम् )
नियोजितेदानीमस्मि |
( इत्युपविष्टा चिन्तयति )
राजाः – – स्थाने खलु विस्मृतनिमेषेण चक्षुषा प्रियामवलोकयामि |
यतः
उन्नमितै कभ्रूलतमाननमस्याः पदानि रचयन्त्याः |
कण्टकितेन प्रथयति मय्यनुरागं कपोलेन||१३||
शकुंतला – – हला चिन्तितं मया गीतवस्तु | असंनिहितानि
पुनर्लेखनसाधनानि |
प्रियंवदा – – एतस्मिञ्शुकोदरसुकुमारे नलिनीपत्रे नखैर्निक्षिप्तवर्णं
कुरु |
शकुंतला – – ( यथोक्तं रूपयित्वा )
हला शृणुतमिदानीं सङ्गतार्थं न वेति |
उभे – – अवहिते स्वः |
शकुंतला – – ( वाचयति )
तव न जाने हृदयं मम पुनः कामो दिवाऽपि रात्रावपि |
निर्घृण तपति बलीयस्त्वयि वृत्तमनोरथाया अङ्गानि||१४||
राजाः – – ( सहसोपसृत्य )
तपति तनुगात्रि मदनस्त्वामनिशं मां पुनर्दहत्येव |
ग्लपयति यथा शशाङ्कं न तथा हि कुमुद्वतीं दिवसः||१५||
सख्यौ – – ( विलोक्य सहर्षमुत्थाय )
स्वागतमविलम्बिनो मनोरथस्य |
( शकुंतलाऽभ्युत्थातुमिच्छति )
राजाः – – अलमलमायासेन |
संदष्टकुसुमशयनान्याशुक्लान्तबिसभङ्गसुरभीणि |
गुरुपरितापानि न ते गात्राण्युपचारमर्हन्ति||१६||
अनसूया – – इतः शिलातलैकदेशमलंकरोतु वयस्यः |
( राजोपविशति | शकुंतला सलज्जा तिष्ठति )
प्रियंवदा – – द्वयोरपि युवयोरन्योन्यानुरागः प्रत्यक्षः | सखीस्नेहः
पुनर्मां पुनरुक्तवादिनीं करोति |
राजाः – – भद्रे नैतत्परिहार्यम् | विवक्षितं ह्यनुक्तमनुतापं जनयति
|
प्रियंवदा – – आपन्नस्य विषयनिवासिनो जनस्यार्तिहरेण राज्ञा
भवितव्यमित्येष वो धर्मः |
राजाः – – नास्मात्परम् |
प्रियंवदा – – तेन हीयमावयोः प्रियसखी त्वामुद्दिश्येदमवस्थान्तरं
भगवता मदनेनारोपिता | तदर्हस्यभ्युपपत्त्या जीवितमस्या
अवलम्बितुम् |
राजाः – – भद्रे साधारणोऽयं प्रणयः | सर्वथानुगृहीतोऽस्मि |
शकुंतला – – ( प्रियंवदामवलोक्यं )
हला किमन्तःपुरविरहपर्युत्सुकस्य राजर्षेरुपरोधेन |
राजाः – – सुन्दरि
इदमनन्यपरायणमन्यथा हृदयसंनिहिते हृदयं मम |
यदि समर्थयसे मदिरेक्षणे मदनबाणहतोऽस्मि हतः पुनः||१७||
अनसूया – – वयस्य बहुवल्लभा राजानः श्रूयन्ते | यथा नौ
प्रियसखी बन्धुजनशोचनीया न भवति तथा निर्वाहय |
राजाः – – भद्रे किं बहुना
परिग्रहबहुत्वेऽपि द्वे प्रतिष्ठे कुलस्य मे |
समुद्ररसना चोर्वी सखी च युवयोरियम्||१८||
उभे – – निर्वृते स्वः |
प्रियंवदा – – ( सदृष्टिक्षेपम् )
अनसूये एष इतोदत्तदृष्टिरुत्सुको मृगपोतको मातरमन्विष्यति | एहि
| संयोजयाव एनम् |
( इत्युभे प्रस्थिते )
शकुंतला – – हला अशरणास्मि | अन्यतरा युवयोरागच्छतु |
उभे – – पृथिव्या यः शरणं स तव समीपे वर्तते |
( इति निष्क्रान्ते )
शकुंतला – – कथं गते एव |
राजाः – – अलमावेगेन | नन्वयमाराधयिता जनस्तव समीपे वर्तते |
किं शीतलैः क्लमविनोदिभिरार्द्रवातान्सञ्चारयामि
नलिनीदलतालवृन्तैः |
अङ्के निधाय करभोरु यथासुखं ते संवाहयामि चरणावुत पद्मताम्रौ
||१९||
शकुंतला – – न माननीयेष्वात्मानमपराधयिष्ये |
( इत्युत्थाय गन्तुमिच्छति )
राजाः – – सुन्दरि अनिर्वाणो दिवसः इयं च ते शरीरावस्था |
उत्सृज्य कुसुमशयनं नलिनीदलकल्पितस्तनावरणम् |
कथमातपे गमिष्यसि परिबाधापेलवैरङ्गैः||२०||
( इति बलादेनां निवर्तयति )
शकुंतला – – पौरव रक्ष विनयम् | मदनसंतप्तापि न खल्वात्मनः
प्रभवामि |
राजाः – – भीरु अलं गुरूजन्भयेन | दृष्ट्वा ते विदितधर्मा
तत्रभवान्नात्र दोषं ग्रहीष्यति कुलपतिः | पश्य |
गान्धर्वेण विवाहेन बहव्यो राजर्षिकन्यकाः |
श्रूयन्ते परिणीतास्ताः पितृभिश्चाभिनन्दिताः||२१||
शकुंतला – – मुञ्च तावन्माम् | भूयोऽपि सखीजनमनुमानयिष्ये
|
राजाः – – भवतु | मोक्ष्यामि |
शकुंतला – – कदा |
राजाः – –
अपरिक्षतकोमलस्य यावत्कुसुमस्येव नवस्य षट्पदेन |
अधरस्य पिपासता मया ते सदयं सुन्दरि गृह्यते रसोऽस्य||२२||
( इति मुखमस्याः समुन्नमयितुमिच्छति | शकुंतला परिहरति नाट्येन )
( नेपथ्ये )
चक्रवाकवधुके आमन्त्रयस्व सहचरम् | उपस्थिता रजनी |
शकुंतला – – ( ससंभ्रमम् )
पौरव असंशयं मम शरीरवृत्तान्तोपलम्भायार्या गौतमीत
एवागच्छति | तद्विटपान्तरितो भव |
राजाः – – तथा |
( इत्यात्मानमावृत्य तिष्ठति )
( ततः प्रविशति पात्रहस्ता गौतमी सख्यौ च )
सख्यौ – – इत इत आर्या गौतमी |
गौतमी – – ( शकुंतलामुपेत्य )
जाते अपि लघुसंतापानि तेऽङ्गानि |
शकुंतला – – आर्ये अस्ति मे विशेषः |
गौतमी – – अनेन दर्भोदकेन निराबाधमेव ते शरीरं भविष्यति |
( शिरसि शकुतलामभ्युक्ष्य )
वत्से परिणतो दिवसः | एहि उटजमेव गच्छामः |
( इति प्रस्थिताः )
शकुंतला – – ( आत्मगतम् )
हृदय प्र्थममेव सुखोपनते मनोरथे कातरभावं न मुञ्चसि |
सानुशयविघटितस्य कथं ते सांप्रतं संतापः |
( पदान्तरे स्थित्वा | प्रकाशम् )
लतावलय संतापहारक आमन्त्रये त्वां भूयोऽपि परिभोगाय |
( इति दुःखेन निष्क्रान्ता शकुंतला सहेतराभिः )
राजा ( पूर्वस्थानमुपेत्य | सनिःश्वासम् )
अहो विघ्नवत्यः प्रार्थितार्थसिद्धयः | मया हि
मुहुरङ्गुलिसंवृताधरोष्ठं प्रतिषेधाक्षरविक्लवाभिरामम् |
मुखमंसविवर्ति पक्ष्मलाक्ष्याः कथमप्युन्नमितं न चुम्बितं तु||२३||
क्व नु खलु संप्रति गच्छामि | अथ वा इहैव प्रियापरिभुक्तमुक्ते
लतावलये मुहूर्तं स्थास्यामि |
( सर्वतोऽवलोक्य )
तस्याः पुष्पमयी शरीरलुलिता शय्या शिलायामियं
क्लान्तो मन्मथलेख एष नलिनीपत्रे नखैरर्पितः |
हस्ताद्भ्रष्टमिदं बिसाभरणमित्यासज्यमानेक्षणो
निर्गन्तुं सहसा न वेतसगृहाच्छक्नोमि शून्यादपि||२४||
( आकाशे )
राजन्
सायंतने सवनकर्मणि संप्रवृत्ते
वेदिं हुताशनवतीं परितः प्रयस्ताः |
छायाश्चरन्ति बहुधा भयमादधानाः
संध्यापयोदकपिशाः पिशिताशनानाम्||२५||
राजाः – – अयमहमागच्छामि |
( इति निष्क्रान्तः )
( इति तृतीयोऽङ्कः | )
चतुर्थोऽङ्कः |
( ततः प्रविशतः कुसुमावचयं नाटयन्त्यौ सख्यौ | )
अनसूया – – हला प्रियंवदे यद्यपि गान्धर्वेण विधिना निर्वृत्तकल्याणा
शकुंतलाऽनुरूपभर्तृगामिनी संवृत्तेति निर्वृतं मे हृदयं
तथाप्येतावच्चिन्तनीयम् |
प्रियंवदा – – कथमिव |
अनसूया – – अद्य स राजर्षिरिष्टिं परिसमाप्यर्षिभिर्विसर्जित आत्मनो
नगरं प्रविश्यान्तःपुरसमागत इतोगतं वृत्तान्तं स्मरति वा न वेति
|
प्रियंवदा – – विस्रब्धा भव | न तादृशा आकृतिविशेषा
गुणविरोधिनो भवन्ति | तात इदानीमिमं ऋत्तान्तं श्रुत्वा न जाने किं
प्रतिपत्स्यत इति |
अनसूया – – यथाहं पश्यामि तथा तस्यानुमतं भवेत् |
प्रियंवदा – – कथमिव |
अनसूया – – गुणवते कन्यका प्रतिपादनीयेत्ययं तावत्प्रथमः
संकल्पः | तं यदि दैवमेव संपादयति नन्वप्रयासेन कृतार्थो
गुरुजनः |
प्रियंवदा – – ( पुष्पभाजनं विलोक्य )
सखि अवचितानि बलिकर्मपर्याप्तानि कुसुमानि |
अनसूया – – ननु सख्याः शकुंतलायाः सौभाग्यदेवतार्चनीया |
प्रियंवदा – – युज्यते |
( इति तदेव कर्माभिनयतः )
( नेपथ्ये )
अयमहं भोः |
अनसूया – – ( कर्णं दत्त्वा )
सखि अतिथीनामिव निवेदितम् |
प्रियंवदा – – ननूटजसंनिहिता शकुंतला |
अनसुया – – अद्य पुनर्हृदयेनासंनिहिता | अलमेतावद्भिः कुसुमैः |
( इति प्रस्थिते )
( नेपथ्ये )
आः
अतिथिपरिभाविनि विचिन्तयन्ती यमनन्यमानसा तपोधनं वेत्सि न
मामुपस्थितम् |
स्मरिष्यति त्वां न स बोधितोऽपि सन्कथां प्रमत्तः प्रथमं कृतामिव
||१||
प्रियंवदा – – हा धिक् हा धिक् | अप्रियमेव संवृत्तम् | कस्मिन्नपि
पूजार्हेऽपराद्धा शून्यहृदया शकुंतला |
( पुरोऽवलोक्य )
न खलु यस्मिन्कस्मिन्नपि | एष दुर्वासाः सुलभकोपो महर्षिः | तथा
शप्त्वा वेगबलोत्फुल्लया दुर्वारया गत्या प्रतिनिवृत्तः |
अनसूया – – कोऽन्यो हुतवहाद्दग्धुं प्रभवति | गच्छ | पादयोः
प्रणम्य निवर्तयैनं यावदहमर्घोदकमुपकल्पयामि |
प्रियंवदा – – तथा
( इति निष्क्रान्ता )
अनसूया – – ( पदान्तरे स्खलितं निरूप्य )
अहो आवेगस्खलितया गत्या प्रभ्रष्टं ममाग्रहस्तात्पुष्पभाजनम्
|
( इति पुष्पोच्चयं रूपयति )
( प्रविश्य )
प्रियंवदा – – सखि प्रकृतिवक्रः स कस्यानुनयं प्रतिगृह्णाति |
किमपि पुनः सानुक्रोशः कृतः |
अनसूया – – ( सस्मितम् )
तस्मिन्बहवेतदपि | कथय |
प्रियंवदा – – यदा निवर्तितुं नेच्छति तदा विज्ञापितो मया |
भगवन् प्रथम इति प्रेक्ष्याविज्ञाततपःप्रभावस्य दुहितृजनस्य
भगवतैकोऽपराधो मर्षयितव्य इति |
अनसूया – – ततस्ततः |
प्रियंवदा – – ततो न मे वचनमन्यथाभवितुमर्हति किं
त्वभिज्ञानाभरणदर्शनेन शापो निवर्तिष्यत इति मन्त्रयमाण
एवान्तर्हितः |
अनसूया – – शक्यमिदानीमाश्वसितुम् | अस्ति तेन राजर्षिणा
संप्रस्थितेन स्वनामधेयाङ्कितमङ्गुलीयकं स्मरणीयमिति स्वयं
पिनद्धम् | तस्मिन्स्वाधीनोपाया शकुंतला भविष्यति |
प्रियंवदा – – सखि एहि | देवकार्यं तावदस्या निर्वर्तयावः |
( इति परिक्रामतः )
प्रियंवदा – – ( विलोक्य )
अनसूये पश्य तावत् | वामहस्तोपहितवदनाऽऽलिखितेव प्रियसखी |
भर्तृगतया चिन्तयात्मानमपि नैषा विभावयति | किं
पुनरागन्तुकम् |
अनसूया – – प्रियंवदे द्वयोरेव नौ मुखे एष वृत्तान्तस्तिष्ठतु |
रक्षितव्या खलु प्रकृतिपेलवा प्रियसखी |
प्रियंवदा – – को नामोष्णोदकेन नवमालिकां सिञ्चति |
( इति निष्क्रान्ते )
विष्कम्भकः |
( ततः प्रविशति सुप्तोत्थितः शिष्यः )
शिष्यः – – वेलोपलक्षणार्थमादिष्टोऽस्मि तत्रभवता
प्रवासादुपावृत्तेन काश्यपेन | प्रकाशं निर्गतस्तावदवलोकयामि
कियदवशिष्टं रजन्या इति |
( परिक्रम्यावलोक्य च )
हन्त प्रभातम् | तथा हि |
यात्येकतोऽस्तशिखरं पतिरोषधीनामाविष्कृतारुणपुरःसर
एकतोऽर्कः |
तेजोद्वयस्य युगपद्व्यसनोदयाभ्यां लोको नियम्यत इवात्मदशान्तरेषु||
२||
अपि च |
अन्तर्हिते शशिनि सैव कुमुद्वती मे
वृष्टिं न नन्दयति संस्मरणीयशोभा |
इष्टप्रवासजनितान्यबलाजनस्य
दुःखानि नूनमतिमात्रसुदुःसहानि||३||
( प्रविश्यापटीक्षेपेण )
अनसूया – – यद्यपि नाम विषयपराङ्मुखस्य जनस्यैतन्न विदितं
तथापि तेन राज्ञा हकुंतलायामनार्यमाचरितम् |
शिष्यः – – यावदुपस्थितां होमवेलां गुरवे निवेदयामि |
( इति निष्क्रान्तः )
अनसूया – – प्रतिबुद्धापि किं करिष्यामि | न म उचितेष्वपि
निजकरणीयेषु हस्तपादं प्रसरति | काम इदानीं सकामो भवतु
येनासत्यसंधे जने शुद्धहृदया सखी पदं कारिता | अथ वा
दुर्वासःशाप एष विकारयति | अन्यथा कथं स राजर्षिस्तादृशानि
मन्त्रयित्वैतावतः कालस्य लेखमात्रमपि न विसृजति |
तदितोऽभिज्ञानमङ्गुलीयकं तस्य विसृजावः | दुःखशीले तपस्विजने
कोऽभ्यर्थ्यताम् | ननु सखीगामी दोष
इति व्यवसितापि न पारयामि प्रवासप्रतिनिवृत्तस्य तातकाश्यपस्य
दुष्यन्तपरिणीतामापन्नसत्त्वां शकुंतलां निवेदयितुम् |
इत्थंगतेऽस्माभिः किं करणीयम् |
( प्रविश्य )
प्रियंवदा – – ( सहर्षम् )
सखि त्वरस्व त्वरस्व शकुंतलायाः प्रस्थानकौतुकं निवर्तयितुम् |
अनसूया – – सखि कथमेतत् |
प्रियंवदा – – शृणु | इदानीं सुखशयितपृच्छिका
शकुंतलासकाशं गतास्मि |
अनसूया – – ततस्ततः |
प्रियंवदा – – तावदेनां लज्जावनतमुखीं परिष्वज्य
तातकाश्यपेनैवमभिनन्दितम् | दिष्ट्या धूमाकुलितदृष्टेरपि
यजमानस्य पावक एवाहुतिः पतिता | वत्से सुशिष्यपरिदत्ता
विद्येवशोचनीयासि संवृत्ता | अद्यैव ऋषिरक्षितां त्वां भर्तुः
सकाशं विसर्जयामीति |
अनसूया – – अथ केन सूचितस्तातकाश्यपस्य वृत्तान्तः |
प्रियंवदा – – अग्निशरणं प्रविष्टस्य शरीरं विना छन्दोमय्या
वाण्या |
अनसूया – – ( सविस्मयम् ) कथमिव |
प्रियंवदा – – ( संस्कृतमाश्रित्य )
दुष्यन्तेनाहितं तेजो दधानां भूतये भुवः |
अवेहि तनयां ब्रह्मन्नग्निगर्भां शमीमिव||४||
अनसूया – – ( प्रियंवदामाश्लिष्य )
सखि प्रियं मे | किं त्वद्यैव शकुंतला नीयत इत्युत्कण्ठासाधारणं
परितोषमनुभवामि |
प्रियंवदा – – सखि आवां तावदुत्कण्ठां विनोदयिष्यावः | सा
तपस्विनी निर्वृता भवतु |
अनसूया – – तेन ह्येतस्मिंश्चूतशाखावलम्बिते नालिकेरसमुद्गक
एतन्निमित्तमेव कालान्तरक्षमा निक्षिप्ता मया केसरमालिका | तदिमां
हस्तसंनिहितां कुरु | यावदहमपि तस्यै मृगरोचनां तीर्थमृत्तिकां
दूर्वाकिसलयानीति मङ्गलसमालम्भनानि विरचयामि |
प्रियंवदा – – तथा क्रियताम् |
( अनसूया निष्क्रान्ता | प्रियंवदा नाट्येन सुमनसो गृह्णाति )
( नेपथ्ये )
गौतमि आदिश्यन्तां शार्ङ्गरवमिश्राः शकुंतलानयनाय |
प्रियंवदा – – ( कर्णं दत्त्वा )
अनसूये त्वरस्व त्वरस्व | एते खलु हस्तिनापुरगामिन ऋषयः
शब्दाय्यन्ते |
( प्रविश्य समालम्भनहस्ता )
अनसूया – – सखि एहि | गच्छावः |
( इति परिक्रामतः )
प्रियंवदा – – ( विलोक्य )
एषा सूर्योदय एव शिखामज्जिता प्रतीष्टनीवारहस्ताभिः
स्वस्तिवाचनिकाभिस्तापसीभिरभिनन्द्यमाना शकुंतला तिष्ठति |
उपसर्पाव एनाम् |
( इत्युपसर्पतः )
( ततः प्रविशति यथोद्दिष्टव्यापारा आसनस्था शकुंतला )
तापसीनामन्यतमा – – ( शकुंतलां प्रति )
जाते भर्तुर्बहुमानसूचकं महादेवीशब्दं लभस्व |
द्वितीया – – वत्से वीरप्रसविनी भव |
तृतीया – – वत्से भर्तुर्बहुमता भव |
( इत्याशिषो दत्त्वा गौतमीवर्जं निष्क्रान्ताः )
सख्यौ – – ( उपसृत्य )
सखि सुखमज्जनं ते भवतु |
शकुंतला – – स्वागतं मे सख्योः | इतो निषीदतम् |
उभे ( मङ्गलपात्राण्यादाय | उपविश्य )
हला सज्जा भव | यावत्ते मङ्गलसमालम्भनं विरचयावः |
शकुंतला – – इदमपि बहु मन्तव्यम् | दुर्लभमिदानीं मे
सखीमण्डनं भविष्यति |
( इति बाष्पं विसृजति )
उभे – – सखि उचितं न ते मङ्गलकाले रोदितुम् |
( इत्यश्रूणि प्रमृज्य नाट्येन प्रसाधयतः)
प्रियंवदा – – आभरणोचितं रूपमाश्रमसुलभैः
प्रसाधनैर्विप्रकार्यते |
( प्रविश्योपायनहस्तावृषिकुमारकौ )
उभौ – – इदमलंकरणम् | अलंक्रियतामत्रभवती |
( सर्वा विलोक्य विस्मिताः )
गौतमी – – वत्स नारद कुत एतत् |
प्रथमः – – तातकाश्यपप्रभावात् |
गौतमी – – किं मानसी सिद्धिः |
द्वितीयः – – न खलु | श्रूयताम् | तत्रभवता वयमाज्ञप्ताः
शकुंतलाहेतोर्वनस्पतिभ्यः कुसुमान्याहरतेति |
तत इदानीं
क्षौमं केनचिदिन्दुपाण्डु तरुणा माङ्गल्यमाविष्कृतं
निष्ठ्यूतश्चरणोपभोगसुलभो लाक्षारसः केनचित् |
अन्येभ्यो वनदेवताकरतलैरापर्वभागोत्थितै-
र्दत्तान्याभरणानि तत्किसलयोद्भेदप्रतिद्वन्द्विभिः||५||
प्रियंवदा – – ( शकुंतलां विलोक्य )
हला अनयाभ्युपपत्त्या सूचिता ते भर्तुर्गेहेऽनुभवितव्या राजलक्ष्मीः
|
( शकुंतला व्रीडां रूपयति )
प्रथम – – गौतम एह्येहि | अभिषेकोत्तीर्णाय काश्यपाय
वनस्पतिसेवां निवेदयावः |
द्वितीयः – – तथा |
( इति निष्क्रान्तौ )
सख्यौ – – अये अनुपयुक्तभूषणोऽयं जनः |
चित्रकर्मपरिचयेनाङ्गेषु त आभरणविनियोगं कुर्वः |
शकुंतला – – जाने वां नैपुणम् |
( उभे नाट्येनालङ्कुरूतः )
( ततः प्रविशति स्नानोत्तीर्णः काश्यपः ) |
काश्यपः – – यास्यत्यद्य शकुन्तलेति हृदयं संस्पृष्टमुत्कण्ठया
कण्ठः स्तम्भितबाष्पवृत्तिकलुषश्चिन्ताजडं दर्शनम् |
वैक्लव्यं मम तावदीदृशमिदं स्नेहादरण्यौकसः
पीड्यन्ते गृहिणः कथं नु तनयाविश्लेषदुःखैर्नवैः||६||
( इति परिक्रामति )
सख्यौ – – हला शकुन्तले अवसितमण्डनासि | परिधत्स्व साम्प्रतं
क्षौमयुगलम् |
( शकुन्तलोत्थाय परिधत्ते )
गौतमी – – जाते एष ते आनन्दपरिवाहिणा चक्षुषा परिष्वजमान
इव गुरुरुपस्थितः | आचारं तावत्प्रतिपद्यस्व |
शकुंतला – – ( सव्रीडम् )
तात वन्दे |
काश्यपः – – वत्से |
ययातेरिव शर्मिष्ठा भर्तुर्बहुमता भव |
सुतं त्वमपि सम्राजं सेव पूरुमवाप्नुहि||७||
गौतमी – – भगवान् वरः खल्वेषः | नाशीः |
काश्यपः – – वत्से इतः सद्यो हुतानग्नीन्प्रदक्षिणीकुरुष्व |
( सर्वे परिक्रामन्ति )
काश्यपः – – ( ऋक्छन्दसाऽऽशास्ते )
अमी वेदिं परितः कॢप्तधिष्ण्याः
समिद्वन्तः प्रान्तसंस्तीर्णदर्भाः |
अपघ्नतो दुरितं हव्यगन्धैर्वैतानास्त्वां
वह्नयः पावयंतु||८||
प्रतिष्ठस्वेदानीम् |
( सदृष्टिक्षेपम् )
क्व ते शार्ङ्गरवमिश्राः |
( प्रविश्य )
शिष्य – – भगवन् इमे स्मः |
काश्यप – – भगिन्यास्ते मार्गमादेशय |
शार्ङ्गरव – – इत इतो भवती |
( सर्वे परिक्रामन्ति )
काश्यप – – भो भोः संनिहितास्तपोवनतरवः |
पातुं न प्रथमं व्यवस्यति जलं युष्मास्वपीतेषु या
नादत्ते प्रियमण्डनापि भवतां स्नेहेन या पल्लवम् |
आद्ये वः कुसुमप्रसूतिसमये यस्या भवत्युत्सवः
सेयं याति शकुंतला पतिगृहं सर्वैरनुज्ञायताम्||९||
( कोकिलरवं सूचयित्वा )
अनुमतगमना शकुंतला तरुभिरियं वनवासबन्धुभिः |
परिभृतविरुतं कलं यथा प्रतिवचनीकृतमेभिरीदृशम्||१०||
( आकाशे )
रम्यान्तरः कमलिनीहरितैः
सरोभिश्छायाद्रुमैर्नियमितार्कमयूखतापः |
भूयात्कुशेशयरजोमृदुरेणुरस्याः शान्तानुकूलपवनश्च शिवश्च
पन्थाः||११||
( सर्वे सविस्मयमाकर्णयन्ति )
गौतमी – – जाते ज्ञातिजनस्निग्धाभिरनुज्ञातगमनासि
तपोवनदेवताभिः | प्रणम भगवतीः |
शकुंतला – – ( सप्रणामं परिक्रम्य | जनान्तिकम् )
हला प्रियंवदे आर्यपुत्रदर्शनोत्सुकाया अप्याश्रमपदं परित्यजन्त्या
दुःखेन मे चरणौ पुरतः प्रवर्तेते |
प्रियंवदा – – न केवलं तपोवनविरहकातरा सख्येव |
त्वयोपस्थितवियोगस्य तपोवनस्यापि तावत्समवस्था दृश्यते |
उद्गलितदर्भकवला मृग्यः परित्यक्तनर्तना मयूराः |
अपसृतपाण्डुपत्रा मुञ्चन्त्यश्रूणीव लताः||१२||
शकुंतला – – ( स्मृत्वा )
तात लताभगिनीं वनज्योत्स्नां तावदामन्त्रयिष्ये |
काश्यपः – – अवैमि ते तस्यां सोदर्यास्नेहम् | इयं तावद्दक्षिणेन |
शकुंतला – – ( उपेत्य लतामालिङ्ग्य )
वनज्योत्स्ने चूतसंगतापि मां प्रत्यालिङ्गेतोगताभिः शाखाबाहाभिः |
अद्यप्रभृति दूरपरिवर्तिनी ते खलु भविष्यामि |
काश्यपः – –
संकल्पितं प्रथममेव मया तवार्थे
भर्तारमात्मसदृशं सुकृतैर्गता त्वम् |
चूतेन संश्रितवती नवमालिकेयमस्यामहं
त्वयि च संप्रति वीतचिन्तः||१३||
इतः पन्थानं प्रतिपद्यस्व |
शकुंतला – – ( सख्यौ प्रति )
हला एषा द्वयोर्युवयोर्हस्ते निक्षेपः |
सख्यौ – – अयं जनः कस्य हस्ते समर्पितः |
( इति बाष्पं विहरतः )
काश्यपः – – अनसूये अलं रुदित्वा | ननु भवतीभ्यामेव
स्थिरीकर्तव्या शकुंतला |
( सर्वे परिक्रमन्ति )
शकुंतला – – तात एषोटजपर्यन्तचारिणी गर्भमन्थरा
मृगवधूर्यदाऽनघप्रसवा भवति तदा मह्यं कमपि
प्रियनिवेदयितृकं विसर्जयिष्यथ |
काश्यपः – – नेदं विस्मरिष्यामः |
शकुंतला – – ( गतिभङ्गं रूपयित्वा )
को नु खल्वेष निवसने मे सज्जते |
( इति परावर्तते )
काश्यपः – – वत्से,
यस्य त्वया व्रणविरोपणमिङ्गुदीनां
तैलं न्यषिच्यत मुखे कुशसुचिविद्धे |
श्यामाकमुष्टिपरिवर्धितको जहाति
सोऽयं न पुत्रकृतकः पदवीं मृगस्ते||१४||
शकुंतला – – वत्स किं सहवासपरित्यागिनीं मामनुसरसि |
अचिरप्रसूतया जनन्या विना वर्धित एव | इदानीमपि मया विरहितं
त्वां तातश्चिन्तयिष्यति | निवर्तस्व तावत् |
( इति रुदती प्रस्थिता )
काश्यपः – –
उत्पक्ष्मणोर्नयनयोरुपरुद्धवृत्तिं
बाष्पं कुरु स्थिरतया विरतानुबन्धम् |
अस्मिन्नलक्षितनतोन्नतभूमिभागे
मार्गे पदानि खलु ते विषमीभवन्ति||१५||
शार्ङ्गरवः – – भवगान् | ओदकान्तं स्निग्धो जनोऽनुगन्तव्य इति
श्रूयते | तदिदं सरस्तीरम् | अत्र संदिश्य प्रतिगन्तुमर्हति |
काश्यपः – – तेन हीमां क्षीरवृक्षछायामाश्रयामः |
( सर्वे परिक्रम्य स्थिताः )
काश्यपः – – ( आत्मगतम् )
किं नु खलु तत्रभवतो दुष्यन्तस्य युक्तरूपमस्माभिः संदेष्टव्यम्
|
( इति चिन्तयति )
शकुंतला – – ( जनान्तिकम् )
हला पश्य | नलिनीपत्रान्तरितमपि सहचरमपश्यन्त्यातुरा
चक्रवाक्यरटति दुष्करमहं करोमीति |
अनसूया – – सखि मैवं मन्त्रयस्व |
एषापि प्रियेण विना गमयति रजनीं विषाददीर्घतराम् |
गुर्वपि विरहदुःखमाशाबन्धः साहयति||१६||
काश्यपः – – शार्ङ्गरव इति त्वया मद्वचनात्स राजा शकुंतलां
पुरस्कृत्य वक्तव्यः |
शार्ङ्गरवः – – आज्ञापयतु भगवान् |
काश्यपः – – अस्मान्साधु विचिन्त्य संयमधनानुच्चैः कुलं
चात्मनस्त्वय्यस्याः कथमप्य्बान्धवकृतां स्नेहप्रवृत्तिं च ताम् |
सामान्यप्रतिपत्तिपूर्वकमियं दारेषु दृश्या त्वया
भाग्यायत्तमतः परं न खलु तद्वाच्यं वधूबन्धुभिः||१७||
शार्ङ्गरवः – – गृहीतः संदेशः |
काश्यपः – – वत्से त्वमिदानीमनुशासनीयासि | वनौकसोऽपि सन्तो
लौकिकज्ञा वयम् |
शार्ङ्गरवः – – न खलु धीमतां कश्चिदविषयो नाम |
काश्यपः – – सा त्वमितः पतिकुलं प्राप्य – –
शुश्रूषस्व गुरून्कुरु प्रियसखीवृत्तिं सपत्नीजने
भर्तृर्विप्रकृतापि रोषणतया मा स्म प्रतीपं गमः |
भूयिष्ठं भव दक्षिणा परिजने भाग्येष्वनुत्सेकिनी
यान्त्येवं गृहिणीपदं युवतयो वामाः कुलस्याधयः||१८||
अनसुया – – कथं वा गौतमी मन्यते |
गौतमी – – एतावान्वधूजनस्योपदेशः | जाते एतत्खलु सर्वमवधारय
|
काश्यपः – – वत्से परिष्वजस्व मां सखीजनं च |
शकुंतला – – तात इत एव किं प्रियंवदानुसूये सख्यौ निवर्तिष्येते |
काश्यप – – वत्से इमे अपि प्रदेये | न युक्तमनयोस्तत्र गन्तुम् | त्वया
सह गौतमी यास्यति |
शकुंतला – – ( पितरमाश्लिष्य )
कथमिदानीं तातस्याङ्कात्परिभ्रष्टा मलयतटोन्मूलिता चन्दनलतेव
देशान्तरे जीवितं धारयिष्यामि |
काश्यपः – – वत्से किमेवं कातरासि |
अभिजनवतो भर्तुः श्लाघ्ये स्थिता गृहिणीपदे
विभवगुरुभिः कृत्यैस्तस्य प्रतिक्षणमाकुला |
तनयमचिरात्प्राचीवार्कं प्रसूय च पावनं
मम विरहजां न त्वं वत्से शुचं गणयिष्यसि||१९||
( शकुंतला पितुः पादयोः पतति )
काश्यपः – – यदिच्छामि ते तदस्तु |
शकुंतला – – ( सख्यावुपेत्य )
हला द्वे अपि मां सममेव परिष्वजेथाम् |
सख्यौ – – ( तथा कृत्वा )
सखि यदि नाम स राजा प्रत्यभिज्ञानमन्थरो
भवेत्ततस्तस्मायिदमात्मनामधेयाङ्कितमङ्गुलीयकं दर्शय |
शकुंतला – – अनेन संदेहेन वामाकम्पितास्मि |
सख्यौ – – मा भैषीः | अतिस्नेहः पापशङ्की |
शार्ङ्गरवः – – युगान्तरमारूढः सविता | त्वरतामत्रभवती |
शकुंतला – – ( आश्रमाभिमुखी स्थित्वा )
तात कदा नु भूयस्तपोवनं प्रेक्षिष्ये |
काश्यप – – श्रूयताम् |
भूत्वा चिराय चतुरन्तमहीसपत्नी
दौष्यन्तिमप्रतिरथं तनयं निवेश्य |
भर्त्रा तदर्पितकुटुम्बभरेण सार्धं
शान्ते करिष्यसि पदं पुनराश्रमेऽस्मिन्||२०||
गौतमी – – जाते परिहीयते गमनवेला | निवर्तय पितरम् | अथ वा
चिरेणापि पुनः पुनरेषैवं मन्त्रयिष्यते | निवर्ततां भवान् |
काश्यपः – – वत्से उपरुध्यते तपोऽनुष्ठानम् |
शकुंतला – – ( भूयः पितरमाश्लिष्य ) तपश्चरणपीडितं
तातशरीरम् | तन्मातिमात्रं मम कृत उत्कण्ठस्व |
काश्यपः – – ( सनिःश्वासम् )
शममेष्यति मम शोकः कथं नु वत्से त्वया रचितपूर्वम् |
उटजद्वारविरूढं नीवारबलिं विलोकयतः||२१||
गच्छ | शिवास्ते पन्थानः सन्तु |
( निष्क्रान्ता शकुंतला सहयायिनश्च )
सख्यौ – – ( शकुंतलां विलोक्य )
हा धिक् हा धिक् | अन्तर्हिता शकुंतला वनराज्या |
काश्यपः – – ( सनिःश्वासम् )
अनसूये गतवती वां सहचारिणी | निगृह्य शोकमनुगच्छतं मां
प्रस्थितम् |
उभे – – तात शकुंतलाविरहितं शून्यमिव तपोवनं कथं प्रविशावः
|
काश्यपः – – स्नेहवृत्तिरेवंदर्शिनी |
( सविमर्शं परिक्रम्य )
हन्त भोः शकुंतलां पतिकुलं विसृज्य लब्धमिदानीं स्वास्थ्यम् |
कुतः |
अर्थो हि कन्या परकीय एव तामद्य संप्रेष्य परिग्रहीतुः |
जातो ममायं विशदः प्रकामं प्रत्यर्पितन्यास इवान्तरात्मा||२२||
( इति निष्क्रान्ताः सर्वे )
( इति चतुर्थोऽङ्कः | )
पञ्चमोऽङ्कः |
( ततः प्रविशत्यासनस्थो राजा विदूषकश्च )
विदुषकः – – ( कर्णं दत्त्वा )
भो वयस्य संगीतशालान्तरेऽवधानं देहि | कलविशुद्धाया गीतेः
स्वरसंयोगः श्रूयते | जाने त्रयभवती हंसपदिका वर्णपरिचयं
करोतीति |
राजाः – – तूष्णीं भव | यावदाकर्णयामि |
( आकाशे गीयते )
अभिनवमधुलोलुपस्त्वं तथा परिचुम्ब्य चूतमञ्जरीम् |
कमलवसतिमात्रनिर्वृतो मधुकर विस्मृतोऽस्येनां कथम्||१||
राजाः – – अहो रागपरिवाहिणी गीतिः |
विदुषकः – – किं तावद्गीत्या अवगतोऽक्षरार्थः |
राजाः – – ( स्मितं कृत्वा )
सकृत्कृतप्रणयोऽयं जनः | तदस्या देवीं वसुमतीमन्तरेण
महदुपालम्भनं गतोऽस्मि | सखे माधव्य मद्वचनादुच्यतां
हंसपदिका | निपुणमुपालब्धाः स्म इति |
विदुषकः – – यद्भवानाज्ञापयति |
( उत्थाय )
भो वयस्य गृहीतस्य तया परकीयैर्हस्तैः शिखण्डके
ताड्यमानस्याप्सरसा वीतरागस्येव नास्तीदानीं मे मोक्षः |
राजाः – – गच्छ | नागरिकवृत्त्या संज्ञापयैनाम् |
विदुषकः – – का गतिः | ( इति निष्क्रान्ताः )
राजाः – – ( आत्मगतम् )
किं नु खलु गीतमेवंविधार्थमाकर्ण्येष्टजनविरहादृतेपि
बलवदुत्कण्ठितोस्मि | अथवा |
रम्याणि वीक्ष्य मधुरांश्च निशम्य शब्दान्पर्युत्सुको भवति
यत्सुखितोऽपि जन्तुः |
तच्चेतसा स्मरति नूनमबोधपूर्वं भावस्थिराणि
जननान्तरसौहृदानि||२||
( इति पर्याकुलस्तिष्ठति )
( ततः प्रविशति कञ्चुकी )
कञ्चुकी – – अहो नु खल्वीदृशीमवस्थां प्रतिपन्नोऽस्मि |
आचार इत्यवहितेन मया गृहीता
या वेत्रयष्टिरवरोधगृहेषु राज्ञः |
काले गते बहुतिथे मम सैव जाता
प्रस्थानविक्लवगतेरवलम्बनार्था||३||
भोः कामं धर्मकार्यमनतिपात्यं देवस्य | तथापीदानीमेव
धर्मासनादुत्थिताय पुनरुपरोधकारि कण्वशिष्यागमनमस्मै नोत्सहे
निवेदयितुम् | अथ वाऽविश्रमोऽयं लोकतन्त्राधिकारः | कुतः |
भानुः सकृद्युक्ततुरङ्ग एव रात्रिंदिवं गन्धवहः प्रयाति |
शेषः सदैवाहितभूमिभारः षष्ठांशवृत्तेरपि धर्म एषः||
४||
यावन्नियोगमनुतिष्ठामि |
( परिक्रम्यावलोक्य च )
एष देवः
प्रजाः प्रजाः स्वा इव तन्त्रयित्वा
निषेवते श्रान्तमना विविक्तम् |
यूथानि संचार्य रविप्रतप्तः
शीतं दिवा स्थानमिव द्विपेन्द्रः||५||
( उपगम्य )
जयतु जयतु देवः | एते खलु हिमगिरेरुपत्यकारण्यवासिनः
काश्यपसंदेशमादाय सस्त्रीकास्तपस्विनः संप्राप्ताः | श्रुत्वा देवः
प्रमाणम् |
राजाः – – ( सादरम् )
किं काश्यपसंदेशहारिणः |
कञ्चुकी – – अथ किम् |
राजाः – – तेन हि मद्वचनाद्विज्ञाप्यतामुपाध्यायः सोमरातः |
अमूनाश्रमवासिनः श्रौतेन विधिना सत्कृत्य स्वयमेव
प्रवेशयितुमर्हसीति | अहमप्यत्र तपस्विदर्शनोचिते प्रदेशे स्थितः
प्रतिपालयामि |
क’ न्चुकी – – यदाज्ञापयति देवः |
( इति निष्क्रान्तः )
राजाः – – ( उत्थाय )
वेत्रवति अग्निशरणमार्गमादेशय |
प्रतिहारी – – इत इतो देवः |
राजाः – – ( परिक्रामति | अधिकारखेदं निरूप्य )
सर्वः प्रार्थितमर्थमधिगम्य सुखी संपद्यते जन्तुः | राज्ञां तु
चरितार्थता दुःखोत्तरैव |
औत्सुक्यमात्रमवसाययति प्रतिष्ठा
क्लिश्नाति लब्धपरिपालनवृत्तिरेव |
नातिश्रमापनयनाय यथा श्रमाय
राज्यं स्वहस्तधृतदण्डमिवातपत्रम्||६||
( नेपथ्ये )
वैतालिकौ – – विजयतां देवः |
प्रथमः – –
स्वसुखनिरभिलाषः खिद्यसे लोकहेतोः
प्रतिदिनमथवा ते वृत्तिरेवंविधैव |
अनुभवति हि मूर्ध्ना पदपस्तीव्रमुष्णं
शमयति परितापं छायया संश्रितानाम्||७||
द्वितीयः – –
नियमयसि विमार्गप्रस्थितानात्तदण्डः
प्रशमयसि विवादं कल्पसे रक्षणाय |
अतनुषु विभवेषु ज्ञातयः सन्तु नाम
त्वयि तु परिसमाप्तं बन्धुकृत्यं प्रजानाम्||८||
राजाः – – एते क्लान्तमनसः पुनर्नवीकृताः स्मः |
( इति परिक्रामति )
प्रतिहारी – – एष अभिनवसंमार्जनसश्रीकः
संनिहितहोमधेनुरग्निशरणालिन्दः | आरोहतु देवः |
राजाः – – ( आरुह्य परिजनांसावलम्बी तिष्ठति )
वेत्रवति किमुद्दिश्य भगवता काश्यपेन मत्सकाशमृषयः प्रेषिताः
स्युः |
किं तावद्व्रतिनामुपोढतपसां विघ्नैस्तपो दूषितं
धर्मारण्यचरेषु केनचिदुत प्राणिष्वसच्चेष्टितम् |
आहोस्वित्प्रसवो ममापचरितैर्विष्टम्भितो
वीरुधामित्यारूढबहुप्रतर्कमपरिच्छेदाकुलं मे मनः||९||
प्रतिहारी – – सुचरितनन्दिन ऋषयो देवं सभाजयितुमागता इति
तर्कयामि |
( ततः प्रविशन्ति गौतमीसहिताः शकुंतलां पुरस्कृत्य मुनयः |
पुरश्चैषां कञ्चुकी पुरोहितश्च )
कञ्चुकी – – इत इतो भवन्तः |
शार्ङ्गरवः – – शारद्वत |
महाभागः कामं नरपतिरभिन्नस्थितिरसौ
न कश्चिद्वर्णानामपथमपकृष्टोऽपि भजते |
तथापीदं शश्वत्परिचितविविक्तेन मनसा
जनाकीर्णं मन्ये हुतवहपरीतं गृहमिव||१०||
शारद्वतः – – स्थाने भवान्पुरप्रवेशादित्थंभूतः संवृत्तः |
अहमपि
अभ्यक्तमपि स्नातः शुचिरशुचिमिव प्रबुद्ध इव सुप्तम् |
बद्धमिव स्वैरगतिर्जनमिह सुखसङ्गिनमवैमि||११||
शकुंतला – – ( निमित्तं सूचयित्वा )
अहो किं मे वामेतरन्नयनं विस्फुरति |
गौतमी – – जाते प्रतिहतममङ्गलम् | सुखानि ते भर्तृकुलदेवता
वितरन्तु |
( इति परिक्रामति )
पुरोहितः – – ( राजानं निर्दिश्य )
भो भोस्तपस्विनः असावत्रभवान्वर्णाश्रमाणां रक्षिता प्रागेव
मुक्तासनो वः प्रतिपालयति | पश्यतैनम् |
शार्ङ्गरवः – – भो महाब्राह्मण काममेतदभिनन्दनीयं तथापि
वयमत्र मध्यस्थाः | कुतः
भवन्ति नम्रास्तरवः फलागमैर्नवाम्बुभिर्दूरविलम्बिनो घनाः |
अनुद्धताः सत्पुरुषाः समृद्धिभिः स्वभाव एवैष परोपकारिणाम्
||१२||
प्रतीहारी – – देव प्रसन्नमुखवर्णा दृश्यन्ते | जानामि
विश्रब्धकार्या ऋषयः |
राजाः – – ( शकुंतलां दृष्ट्वा )
अथात्रभवती
का स्विदवगुण्ठनवती नातिपरिस्फुटशरीरलावण्या |
मध्ये तपोधनानां किसलयमिव पाण्डुपत्राणाम्||१३||
प्रतीहारी – – देव कुतूहलगर्भः प्रहितो न मे तर्कः प्रसरति | ननु
दर्शनीया पुनरस्या आकृतिर्लक्ष्यते |
राजाः – – भवतु | अनिर्वर्णनीयं परकलत्रम् |
शकुंतला – – ( हस्तमुरसि कृत्वा | आत्मगतम् )
हृदय किमेवं वेपसे | आर्यपुत्रस्य भावमवधार्य धीरं तावद्भव |
पुरोहितः – – ( पुरो गत्वा )
एते विधिवदर्चितास्तपस्विनः | कश्चिदेषामुपाध्यायसंदेशः | तं
देवः श्रोतुमर्हति |
राजाः – – अवहितोऽस्मि |
ऋषयः – – ( हस्तानुद्यम्य )
विजयस्व राजन् |
राजाः – – सर्वानभिवादये |
ऋषयः – – इष्टेन युज्यस्व |
राजाः – – अपि निर्विघ्नतपसो मुनयः |
ऋषयः – –
कुतो धर्मक्रियाविघ्नः सतां रक्षितरि त्वयि |
तमस्तपति धर्मांशौ कथमाविर्भविष्यति||१४||
राजाः – – अर्थवान्खलु मे राजशब्दः | अथ भगवान्लोकानुग्रहाय
कुशली काश्यपः |
शार्ङ्गरवः – – स्वाधीनकुशलाः सिद्धिमन्तः | स
भवन्तमनामयप्रश्नपूर्वकमिदमाह |
राजाः – – किमाज्ञापयति भगवान् |
शार्ङ्गरवः – – यन्मिथःसमयादिमां मदीयां दुहितरं
भवानुपायंस्त तन्मया प्रीतिमता युवयोरनुज्ञातम् | कुतः
त्वमर्हतां प्राग्रसरः स्मृतोऽसि नः
शकुंतला मूर्तिमती च सत्क्रिया |
समानयंस्तुल्यगुणं वधूवरं
चिरस्य वाच्यं न गतः प्रजापतिः||१५||
तदिदानीमापन्नसत्त्वेयं प्रतिगृह्यतां सहधर्माचरणायेति |
गौतमी – – आर्य किमपि वक्तुकामास्मि | न मे वचनावसरोऽस्ति |
कथमिति |
नापेक्षितो गुरुजनोऽनया त्वया पृष्टो न बन्धुजनः |
एकैकस्मिन्नेव चरिते भणामि किमेकैकम्||१६||
शकुंतला – – ( आत्मगतम् )
किं नु खल्वार्यपुत्रो भणति |
राजाः – – किमिदमुपन्यस्तम् |
शकुंतला – – ( आत्मगतम् )
पावकः खलु वचनोपन्यासः |
शार्ङ्गरवः – – कथमिदं नाम | भवन्त एव सुतरां
लोकवृत्तान्तनिष्णाताः |
सतीमपि ज्ञातिकुलैकसंश्रयां
जनोऽन्यथा भर्तृमतीं विशङ्कते |
अतः समीपे परिणेतुरिष्यते |
प्रियाऽप्रिया वा प्रमदा स्वबन्धुभिः||१७||
राजाः – – किमत्रभवती मया परिणीतपूर्वा |
शकुंतला – – ( सविषादम् आत्मगतम् )
हृदय सांप्रतं ते आशङ्का |
शार्ङ्गरवः – –
किं कृतकार्यद्वेषो धर्मं प्रति विमुखता |
कृतावज्ञा |
राजाः – – कुतोऽयमसत्कल्पनाप्रश्नः |
शार्ङ्गरवः – –
मूर्च्छन्त्यमी विकाराः प्रायेणैश्वर्यमत्तेषु||१८||
राजाः – – विशेषेणधिक्षिप्तोऽस्मि |
गौतमी – – जाते मुहूर्तं मा लज्जस्व | अपनेष्यामि
तावत्तेऽवगुण्ठनम् | ततस्त्वां भर्ताभिज्ञास्यति |
( इति यथोक्तं करोति )
राजाः – – ( शकुंतलां निर्वर्ण्य | आत्मगतम् )
इदमुपनतमेवं रूपमक्लिष्टकान्ति
प्रथमपरिगृहीतं स्यान्न वेत्यव्यवस्यन् |
भ्रमर इव विभाते कुन्दमन्तस्तुषारं
न च खलु परोभोक्तुं नापि शक्नोमि हातुम्||१९||
( इति विचारयन्स्थितः )
प्रतीहारी – – ( स्वगतम् )
अहो धर्मापेक्षिता भर्तुः | इदृशं नाम सुखोपनतं रूपं दृष्टा
कोऽन्यो विचारयति |
शार्ङ्गरवः – – भो राजन् किमिति जोषमास्यते |
राजाः – – भोस्तपोधनाः चिन्तयन्नपि न खलु स्वीकरणमत्रभवत्याः
स्मरामि | तत्कथमिमामभिव्यक्तसत्त्वलक्षणां प्रत्यात्मानं
क्षेत्रिणमाशङ्कमानः प्रतिपत्स्ये |
शकुंतला – – ( अपवार्य )
आर्यस्य परिणय एव संदेहः | कुत इदानीं मे दूराधिरोहिण्याशा |
शार्ङ्गरवः- – मा तावत् |
कृताभिमर्शामनुमन्यमानः सुतां त्वया नाम मुनिर्विमान्यः |
मुष्टं प्रतिग्राहयता स्वमर्थं पात्रीकृतो दस्युरिवासि येन||| २०||
शारद्वतः – – शार्ङ्गरव विरम त्वमिदानीम् | शकुन्तले
वक्तव्यमुक्तमस्माभिः | सोऽयमत्रभवानेवमाह |
दीयतामस्मै प्रत्ययप्रतिवचनम् |
शकुंतला – – ( अपवार्य )
इदमवस्थान्तरं गते तादृशेऽनुरागे किं वा स्मारितेन | आत्मेदानीं
मे शोचनीय इति व्यवसितमेतत् |
( प्रकाशम् )
आर्यपुत्र –
( इत्यर्धोक्ते )
संशयित इदानीं परिणये नैष समुदाचारः |
पौरव युक्तं नाम ते तथा पुराश्रमपदे स्वभावोत्तानहृदयमिमं
जनं समयपूर्वं प्रतार्य सांप्रतमीदृशैरक्षरैः प्रत्याख्यातुम् |
राजाः – – ( कर्णौ विधाय )
शान्तं पापम् |
व्यपदेशमाविलयितुं किमीहसे जनमिमं च पातयितुम् |
कूलंकषेव सिन्धुः प्रसन्नमम्भस्तटतरुं च||२१||
शकुंतला – – भवतु | यदि परमार्थतः परपरिग्रहशङ्किना
त्वयैवं प्रवृत्तं तदभिज्ञानेनानेन तवाशङ्कामपनेष्यामि |
राजाः – – उदारः कल्पः |
शकुंतला – – ( मुद्रास्थानं परामृश्य )
हा धिक् हा धिक् | अङ्गुलीयकशून्या मेऽङ्गुलिः |
( इति सविषादं गौतमीमवेक्षते )
गौतमी – – नूनं ते शक्रावताराभ्यन्तरे शचीतीर्थसलिलं
वन्दमानायाः प्रभ्रष्टमङ्गुलीयकम् |
राजाः – – ( सस्मितम् )
इदं तत्प्रत्युत्पन्नमति स्त्रैणमिति यदुच्यते |
शकुंतला – – अत्र तावद्विधिना दर्शितं प्रभुत्वम् | अपरं ते
कथयिष्यामि |
राजाः – – श्रोतव्यमिदानीं संवृत्तम् |
शकुंतला – – नन्वेकस्मिन्दिवसे नवमालिकामण्डपे
नलिनीपत्रभाजनगतमुदकं तव हस्ते संनिहितमासीत् |
राजाः – – शृणुमस्तावत् |
शकुंतला – – तत्क्षणे स मे पुत्रकृतको दीर्घापाङ्गो नाम मृगपोतक
उपस्थितः | त्वयायं तावत्प्रथमं पिबत्वित्यनुकम्पिनोपच्छन्दित उदकेन
| न पुनस्तेऽपरिचयाध्दस्ताभ्यासमुपगतः | पश्चात्तस्मिन्नेव मया
गृहीते सलिलेऽनेन कृतः प्रणयः | तदा त्वमित्थं प्रहसितोऽसि |
सर्वः सगंधेषु विश्वसिति | द्वावप्यत्रारण्यकाविति |
राजाः – –
एवमादिभिरात्मकार्यनिर्वर्तिनीनामनृतमयवाङ्मधुभिराकृष्यन्ते
विषयिणः |
गौतमी – – महाभाग नार्हस्येवं मन्त्रयितुम् |
तपोवनसंवर्धितोऽनभिज्ञोऽयं जनः कैतवस्य |
राजाः – – तापसवृद्धे |
स्त्रीणामशिक्षितपटुत्वममानुषीषु
संदृश्यते किमुत याः प्रतिबोधवत्यः |
प्रागन्तरिक्षगमनास्त्वमपत्यजातमन्यैर्द्विजैः
परभृताः खलु पोषयन्ति||२२||
शकुंतला – – ( सरोषम् )
अनार्य आत्मनो हृदयानुमानेन प्रेक्षसे | क इदानीमन्यो
धर्मकञ्चुकप्रवेशिनस्तृणच्छन्नकूपोपमस्य तवानुकृतिं
प्रतिपत्स्यते |
राजाः – – ( आत्मगतम् )
संदिग्धबुद्धिं मां कुर्वन्नकैतव इवास्याः कोपो लक्ष्यते | तथा ह्यनया
मय्येव विस्मरणदारुणचित्तवृत्तौ
वृत्तं रहः प्रणयमप्रतिपद्यमाने |
भेदाद्भ्रुवोः कुटिलयोरतिलोहिताक्ष्या
भग्नं शरासनमिवातिरुषा स्मरस्य||२३||
( प्रकाशम् )
भद्रे प्रथितं दुष्यन्तस्य चरितम् | तथापीदं न दृश्यते |
शकुंतला – – सुष्ठु तावदत्र स्वच्छन्दचारिणी कृतास्मि
याहमस्य पुरुवंशप्रत्ययेन मुखमधोर्हृदयविषस्य
हस्ताभ्यासमुपगता |
शार्ङ्गरवः – – इत्थमात्मकृतं चापलं दहति |
अतः परीक्ष्य कर्तव्यं विशेषात्संगतं रहः |
अज्ञातहृदयेष्वेवं वैरीभवति सौहृदम्||२४||
राजाः – – अयि भोः किमत्रभवतीप्रत्ययादेवास्मान्संयुतदोषाक्षरैः
क्षिणुथ |
शार्ङ्गरवः – – ( सासूयम् )
श्रुतं भवद्भिरधरोत्तरम् |
आ जन्मनः शाठ्यमशिक्षितो यस्तस्याप्रमाणं वचनं जनस्य |
परातिसंधानमधीयते यैर्विद्येति ते सन्तु किलाप्तवाचः||२५||
राजाः – – भोः सत्यवादिन् अभ्युपगतं तावदस्माभिरेवम् | किं
पुनरिमामतिसंधाय लभ्यते |
शार्ङ्गरवः – – विनिपातः |
राजाः – – विनिपातः पौरवैः प्रार्थ्यत इति न श्रद्धेयमेतत् |
शारद्वतः- – शार्ङ्गरव किमुत्तरेण | अनुष्ठितो गुरोः संदेशः |
प्रतिनिवर्तामहे वयम् |
( राजानं प्रति )
तदेषा भवतः कान्ता त्यज वैनां गृहाण वा |
उपपन्ना हि दारेषु प्रभुता सर्वतोमुखी||२६||
गौतमि गच्छाग्रतः |
( इति प्रस्थिताः )
शकुंतला – – कथमनेन कितवेन विप्रलब्धास्मि | यूयमपि मां
परित्यजथ |
( इत्यनुप्रतिष्ठते )
गौतमी – – ( स्थित्वा )
वत्स शार्ङ्गरव अनुगच्छतीयं खलु नः करुणपरिदेविनी शकुंतला |
प्रत्यादेशपरुषे भर्तरि किं वा मे पुत्रिका करोतु |
शार्ङ्गरवः – – ( सरोषं निवृत्य )
किं पुरोभागे स्वातन्त्र्यमवलम्बसे |
( शकुंतला भीता वेपते )
शार्ङ्गरवः – – शकुंतले |
यदि यथा वदति क्षितिपस्तथा त्वमसि किं पितुरुत्कुलया त्वया |
अथ तु वेत्सि शुचि व्रतमात्मनः पतिकुले तव दास्यमपि क्षमम्||२७||
तिष्ठ | साधयामो वयम् |
राजाः – – भोस्तपस्विन् किमत्रभवतीं विप्रलभसे |
कुमुदान्येव शशाङ्कः सविता बोधयति पङ्कजान्येव |
वशिनां हि परपरिग्रहसंश्लेषपराङ्मुखी वृत्तिः||२८||
शार्ङ्गरवः – – यदा तु पूर्ववृत्तमन्यसङ्गाद्विस्मृतो भवांस्तदा
कथमधर्मभीरुः |
राजाः – – भवन्तमेवात्र गुरुलाघवं पृच्छामि |
मूढः स्यामहमेषा वा वदेन्मिथ्येति संशये |
दारत्यागी भवाम्याहो परस्त्रीस्पर्शपांसुलः||२९||
पुरोहितः – – ( विचार्य )
यदि तावदेवं क्रियताम् |
राजाः – – अनुशास्तु मां भवान् |
पुरोहितः – – अत्रभवती तावदाप्रसवादस्मद्गृहे तिष्ठतु | कुत
इदमुच्यत इति चेत् | त्वं साधुभिरादिष्टपूर्वः प्रथममेव
चक्रवर्तिनं पुत्रं जनयिष्यसीति | स चेन्मुनिदौहित्रस्तल्लक्षणोपपन्नो
भविष्यति अभिनन्द्य शुद्धान्तमेनां प्रवेशयिष्यसि | विपर्यये तु
पितुरस्याः समीपनयनमवस्थितमेव |
राजाः – – यथा गुरुभ्यो रोचते |
पुरोहितः – – वत्से अनुगच्छ माम् |
शकुंतला – – भगवति वसुधे देहि मे विवरम् |
( इति रुदती प्रस्थिता | निष्क्रान्ता सह पुरोधसा तपस्विभिश्च )
( राजा शापव्यवहितस्मृतिः शकुंतलागतमेव चिन्तयति )
( नेपथ्ये )
आश्चर्यमाश्चर्यम् |
राजाः – – ( आकर्ण्य )
किं नु खलु स्यात् |
( प्रविश्य )
पुरोहितः – – ( सविस्मयम् )
देव अद्भुतं खलु संवृत्तम् |
राजाः – – किमिव |
पुरोहितः – – देव परावृत्तेषु कण्वशिष्येषु –
सा निन्दन्ती स्वानि भाग्यानि बाला बाहूत्क्षेपं क्रन्दितुं च प्रवृत्ता |
राजाः – – किं च |
पुरोहितः – –
स्त्रीसंस्थानं चाप्सरस्तीर्थमारादुत्क्षिप्यैनां ज्योतिरेकं जगाम||३०||
( सर्वे विस्मयं रूपयन्ति )
राजाः – – भगवन् प्रागपि सोऽस्माभिरर्थः प्रत्यादिष्ट एव | किं
वृथा तर्केणान्विष्यते | विश्राम्यतु भवान् |
पुरोहित – – ( विलोक्य )
विजयस्व |
( इति निष्क्रान्तः )
राजाः – – वेत्रवति पर्याकुलोऽस्मि | शयनभूमिमार्गमादेशय |
प्रतीहारी – – इत इतो देवः |
( इति प्रस्थिता )
राजाः – –
कामं प्रत्यादिष्टां स्मरामि न परिग्रहं मुनेस्तनयाम् |
बलवत्तु दूयमानं प्रत्याययतीव मां हृदयम्||३१||
( इति निष्क्रान्ताः सर्वे )
( इति पञ्चमोऽङ्कः | )
षष्ठोऽङ्कः |
( ततः प्रविशति नागरिकः श्यालः पश्चाद्बद्धं पुरुषमादाय
रक्षिणौ च )
रक्षिणौ – – ( पुरुषं ताडयित्वा )
अरे कुम्भीरक कथय कुत्र त्वयेतन्मणिबन्धनोत्कीर्णनामधेयं
राजकीयमङ्गुलीयकं समासादितम् |
पुरुषः – – ( भीतिनाटितकेन )
प्रसीदन्तु भावमिश्राः | नाहमीदृशकर्मकारी |
प्रथमः – – किं शोभनो ब्राह्मण इति कृत्वा
( कलयित्वा )
राज्ञा प्रतिग्रहो दत्तः |
पुरुषः – – शृणुतेदानीम् | अहं शक्रावताराभ्यन्तरवासी
धीवरः |
द्वितियः – – पाटच्चर किमस्माभिर्जातिः पृष्टा |
श्यालः – – सूचक कथयतु सर्वननुक्रमेण | मैनमन्तरा
प्रतिबध्नीतम् |
उभौ – – यदावुत्त आज्ञापयति | कथय |
पुरुषः – – अहं जालोद्गालादिभिर्मत्स्यबन्धनोपायैः कुटुम्बभरणं
करोमि |
श्यालः – – ( विहस्य )
विशुद्ध इदानीमाजीवः |
पुरुषः – – भर्तः मा एवं भण |
सहजं किल यद्विनिन्दितं न खलु तत्कर्म विवर्जनीयम् |
पशुमारणकर्मदारुणोऽनुकम्पामृदुरेव श्रोत्रियः||१||
श्यालः – – ततस्ततः |
पुरुषः – – एकस्मिन्दिवसे खण्डशो रोहितमत्स्यो मया कल्पितः |
यावत्तस्योदराभ्यन्तरे प्रेक्षे तावदिदं रत्नभासुरमङ्गुलीयकं
दृष्टम् | पश्चादहमस्य विक्रयाय दर्शयन्गृहीतो भावमिश्रैः |
मारयत वा मुञ्चत वा | अयमस्यागमवृत्तान्तः |
श्यालः – – जानुक विस्रगन्धी गोधादी मत्स्यबन्ध एव निःसंशयम् |
अङ्गुलीयकदर्शनमस्य विमर्शयितव्यम् | राजकुलमेव गच्छामः |
रक्षिणौ – – तथा | गच्छ अरे ग्रन्थिभेदक |
( सर्वे परिक्रामन्ति )
श्यालः – – सूचक इमं गोपुरद्वारेऽप्रमत्तौ प्रतिपालयतं
यावदिदमङ्गुलीयकं यथागमनं भर्ते निवेद्य ततः शासनं प्रतीष्य
निष्क्रामामि |
उभौ – – प्रविशत्वावुत्तः स्वामिप्रसादाय |
( इति निष्क्रान्तः श्यालः )
प्रथमः – – जानुक चिरायते खल्वावुत्तः |
द्वितीयः – – नन्ववसरोपसर्पणीया राजानः |
प्रथमः – – जानुक स्फुरतो मम हस्तावस्य वधस्य सुमनसः पिनद्धुम्
|
( इति पुरुषं निर्दिशति )
पुरुषः – – नार्हति भावोऽकारणमारणो भवितुम् |
द्वितीयः – – ( विलोक्य )
एष नौ स्वामी पत्रहस्तो राजशासनं प्रतीष्येतोमुखो दृश्यते |
गृध्रबलिर्भविष्यसि शुनो मुखं वा द्रक्ष्यासि |
( प्रविश्य )
श्यालः – – सूचक मुच्यतामेष जालोपजीवी | उपपन्नः
खल्वस्याङ्गुलीयकस्यागमः |
सूचकः – – यथावुत्तो भणति | एष यमसदनं प्रविश्य
प्रतिनिवृत्तः |
( इति पुरुषं परिमुक्तबन्धनं करोति )
पुरुषः – – ( श्यालं प्रणम्य )
भर्तः अथ कीदृशो म आजीवः |
श्यालः – – एष भर्त्राङ्गुलीयकमूल्यसंमितः प्रसादोऽपि दापितः |
( इति पुरुषाय स्वं प्रयच्छति )
पुरुषः – – ( सप्रणामं प्रतिगृह्य )
भर्तः अनुगृहीतोऽस्मि |
सूचकः – – एष नामानुग्रहो यच्छूलादवतार्य हस्तिस्कन्धे
प्रतिष्ठापितः |
जानुक – – आवुत्त पारितोषिकं कथयति तेनाङ्गुलीयकेन भर्तुः
संमतेन भवितव्यमिति |
श्यालः – – न तस्मिन्महार्हं रत्नं भर्तुर्बहुमतमिति तर्कयामि | तस्य
दर्शनेन भर्त्राऽभिमतो जनः स्मृतः | मुहूर्तं प्रकृतिगम्भीरोऽपि
पर्यश्रुनयन आसीत् |
सूचकः – – सेवितं नामावुत्तेन |
जानुकः – – ननु भण | अस्य कृते मात्स्यिकभर्तुरिति |
( इति पुरुषमसूयया पश्यति )
पुरुषः – – भट्टारक इतोऽर्धं युष्माकं सुमनोमूल्यं भवतु |
जानुकः – – एतावद्युज्यते |
श्यालः – – धीवर महत्तरस्त्वं प्रियवयस्यक इदानीं मे संवृत्तः |
कादम्बरीसाक्षिकमस्माकं प्रथमसौहृदमिष्यते | तच्छौण्डिकापणमेव
गच्छामः |
( इति निष्क्रान्ताः सर्वे)
प्रवेशकः |
( ततः प्रविशत्याकाशयानेन सानुमती नामाप्सराः )
सानुमती – – निर्वर्तितं मया
पर्यायनिर्वर्तनीयमप्सरस्तीर्थसांनिध्यं
यावत्साधुजनस्यभिषेककाल इति सांप्रतमस्य राजर्षेरुदन्तं
प्रत्यक्षीकरिष्यामि | मेनकासम्बन्धेन शरीरभूता मे शकुंतला |
तया च दुहितृनिमित्तमादिष्टपूर्वास्मि |
( समन्तादवलोक्य )
किं नु खलु ऋतूत्सवेऽपि निरुत्सवारम्भमिव राजकुलं दृश्यते | अस्ति
मे विभवः प्रणिधानेन सर्वं परिज्ञातुम् | किं तु सख्या आदरो मया
मानयितव्यः | भवतु | अनयोरेवोद्यानपालिकयोस्तिरस्करिणीप्रतिच्छन्ना
पार्श्ववर्तिनी भूत्वोपलप्स्ये |
( इति नाट्येनावतीर्य स्थिता )
( ततः प्रविशति चूताङ्कुरमवलोकयन्ती चेटी | अपरा च
पृष्ठतस्तस्याः )
प्रथमा – –
आताम्रहरितपाण्डुर जीवितसर्वं वसन्तमासस्य ( योः ) |
दृष्टोऽसि चूतकोरक ऋतुमङ्गल त्वां प्रसादयामि||२||
द्वितीया – – परभृतिके किमेकाकिनी मन्त्रयसे |
प्रथमा – – मधुकरिके चूतकलिकां दृष्ट्त्वोन्मत्ता परभृतिका
भवति |
द्वितीया – – ( सहर्षं त्वरयोपगम्य )
कथमुपस्थितो मधुमासः |
प्रथमा – – मधुकरिके तवेदानीं काल एष मदविभ्रमगीतानाम् |
द्वितीया – – सखि अवलम्बस्व मां यावदग्रपादस्थिता भूत्वा
चूतकलिकां गृहीत्वा कामदेवार्चनं करोमि |
प्रथमा – – यदि ममापि खल्वर्धमर्चनफलस्य |
द्वितीया – – अकथितेऽप्येतत्संपद्यते यत एकमेव नौ जीवीतं
द्विधास्थितं शरीरम् |
( सखीमवलम्ब्य स्थिता चूताङ्कुरं गृह्णाति )
अये अप्रतिबुद्धोऽपि चूतप्रसवोऽत्र बन्धनभङ्गसुरभिर्भवति |
( इति कपोतहस्तकं कृत्वा )
त्वमसि मया चूताङ्कुर दत्तः कामाय गृहीतधनुषे |
पथिकजनयुवतिलक्ष्यः पञ्चाभ्यधिकः शरो भव||३||
( इति चूताङ्कुरं क्षिपति )
( प्रविश्यापटीक्षेपेण कुपितः ) |
कञ्चुकी – – मा तावदनात्मज्ञे | देवेन प्रतिषिद्धे वसन्तोत्सवे
त्वमाम्रकलिकाभङ्गं किमारभसे |
उभे – – ( भीते )
प्रसीदत्वार्यः | अगृहीतार्थे आवाम् |
कञ्चुकी – – न किल श्रुतं युवाभ्यां यद्वासन्तिकैस्तरुभिरपि देवस्य
शासनं प्रमाणीकृतं तदाश्रयिभिः पत्रिभिश्च | तथा हि
चूतानां चिरनिर्गतापि कलिका बध्नाति न स्वं रजः
संनद्धं यदपि स्थितं कुरबकं तत्कोरकावस्थया |
कण्ठेषु स्खलितं गतेऽपि शिशिरे पुंस्कोकिलानां रुतं
शङ्के संहरति स्मरोऽपि चकितस्तूणार्धकृष्टं शरम्||४||
सनुमती – – नास्ति संदेहः | महाप्रभावो राजर्षिः |
प्रथमा – – आर्य कति दिवसान्यावयोर्मित्रावसुना राष्ट्रियेण
भट्टिनीपादमूलं प्रेषितयोः | अत्र च नौ प्रमदवनस्य पालनकर्म
समर्पितम् | तदागन्तुकतयाऽश्रुतपूर्व आवाभ्यामेष वृत्तान्तः |
कञ्चुकी – – भवतु | न पुनरेवं प्रवर्तितव्यम् |
उभे – – आर्य कौतूहलं नौ | यद्यनेन जनेन श्रोतव्यं कथयत्वार्यः
किंनिमित्तं भर्त्रा वसन्तोत्सवः प्रतिषिद्धः |
सानुमती – – उत्सवप्रियाः खलु मनुष्याः | गुरुणा कारणेन
भवितव्यम् |
कञ्चुकी – – बहुलीभूतमेतत्किं न कथ्यते | किमत्रभवत्योः कर्णपथं
नायातं शकुंतलाप्रत्यादेशकौलीनम् |
उभे – – श्रुतं राष्ट्रियमुखाद्यावदङ्गुलीयकदर्शनम् |
कञ्चुकी – – तेन ह्यल्पं कथयितव्यम् | यदैव खलु
स्वाङ्गुलीयकदर्शनादनुस्मृतं देवेन सत्यमूढपूर्वा मे तत्रभवती
रहसि शकुंतला मोहात्प्रत्यादिष्टेति तदाप्रभृत्येव
पश्चात्तापमुपगतो देवः | तथा हि
रम्यं द्वेष्टि यथा पुरा प्रकृतिभिर्न प्रत्यहं सेव्यते
शय्याप्रान्तविवर्तनैर्विगमयत्युन्निद्र एव क्षपाः |
दाक्षिण्येन ददाति वाचमुचितामन्तःपुरेभ्यो यदा गोत्रेषु
स्खलितस्तदा भवति च व्रीडाविलक्षश्चिरम्||५||
सानुमती – – प्रियं मे |
कञ्चुकी – – अस्मात्प्रभवतो वैमनस्यादुत्सवः प्रत्याख्यातः |
उभे – – युज्यते |
( नेपथ्ये )
एतु एतु भवान् |
कञ्चुकी – – ( कर्णं दत्त्वा )
अये | इत एवाभिवर्तते देवः | स्वकर्मानुष्ठीयताम् |
उभे – – तथा |
( इति निष्क्रान्ते)
( ततः प्रविशति पश्चात्तापसदृशवेषो राजा विदूषकः
प्रतीहारी च | )
कञ्चुकी – – ( राजानमवलोक्य )
अहो सर्वास्ववस्थासु रमणीयत्वमाकृतिविशेषाणाम् | एवमुत्सुकोऽपि
प्रियदर्शनो देवः | तथा हि
प्रत्यादिष्टविशेषमण्डनविधिर्वामप्रकोष्ठार्पितं
बिभ्रत्काञ्चनमेकमेव वलयं श्वासोपरक्ताधरः |
चिन्ताजागरणप्रतान्तनयनस्तेजोगुणादात्मनः
संस्कारोल्लिखितो महामणिरिव क्षीणोऽपि नालक्ष्यते||६||
सानुमती – – ( राजानं दृष्ट्वा )
स्थाने खलु प्रत्यादेशविमानिताऽप्यस्य कृते शकुंतला क्लाम्यति |
राजाः – – ( ध्यानमन्दं परिक्रम्य )
प्रथमं सारङ्गाक्ष्या प्रियया प्रतिबोध्यमानमपि सुप्तम् |
अनुशयदुःखायेदं हतहृदयं संप्रति विबुद्धम्||७||
सानुमती – – नन्वीदृशानि तपस्विन्या भागधेयानि |
विदूषकः – – ( अपवार्य )
लङ्घित एष भूयोऽपि शकुंतलाव्याधिना | न जाने कथं
चिकित्सितव्यो भविष्यतीति |
कञ्चुकी – – ( उपगम्य )
जयतु जयतु देवः | महाराज प्रत्यवेक्षिताः प्रमदवनभूमयः
यथाकाममध्यास्तां विनोदस्थानानि महाराजः |
राजाः – – वेत्रवति मद्वचनादमात्यमार्यपिशुनं ब्रूहि |
चिरप्रबोधान्न संभावितमस्माभिरद्य धर्मासनमध्यासितुम् |
यत्प्रत्यवेक्षितं पौरकार्यमार्येण तत्पत्रमारोप्य दीयतामिति |
प्रतीहारी – – यद्देव आज्ञापयति |
( इति निष्क्रान्ता )
राजाः – – वातायन त्वमपि स्वं नियोगमशून्यं कुरु |
कञ्चुकी – – यदाज्ञापयति देवः |
( इति निष्क्रान्तः )
विदूषकः – – कृतं भवता निर्मक्षिकम् | साम्प्रतं
शिशिरातपच्छेदरमणीयेऽस्मिन्प्रमदवनोद्देश आत्मानं रमयिष्यसि |
राजाः – – वयस्य यदुच्यते रन्ध्रोपनिपातिनोऽनर्था इति तद्व्यभिचारि
वचः | कुतः
मुनिसुताप्रणयस्मृतिरोधिना मम च मुक्तमिदं तमसा मनः |
मनसिजेन सखे प्रहरिष्यता धनुषि चूतशरश्च निवेशितः||८||
विदूषकः – – तिष्ठ तावत् | अनेन दण्डकाष्ठेन कन्दर्पबाणं
नाशयिष्यामि |
( इति दण्डकाष्ठमुद्यम्य चूताङ्कुरं पातयितुमिच्छति )
राजाः – – ( सस्मितम् )
भवतु | दृष्टं ब्रह्मवर्चसम् | सखे क्वोपविष्टः प्रियायाः
किंचिदनुकारिणीषु लतासु दृष्टिं विलोभयामि |
विषूषक – – नन्वासन्नपरिचारिका चतुरिका भवता संदिष्टा |
माधवीमण्डप इमां वेलामतिवाहयिष्ये | तत्र मे चित्रफलकगतां
स्वहस्तलिखितां तत्रभवत्याः शकुंतलायाः प्रतिकृतिमानयेति |
राजाः – – ईदृशं हृदयविनोदनस्थानम् | तत्तमेव मार्गमादेशय
|
विदूषकः – – इत इतो भवान् |
( उभौ परिक्रमतः | सानुमत्यनुगच्छति )
विदूषकः – – एष मणिशिलापट्टकसनाथो माधवीमण्डप
उपहाररमणीयतया निःसंशयं स्वागतेनेव नौ प्रतीच्छति |
तत्प्रविश्य निषीदतु भवान् |
( उभौ प्रवेशं कृत्वोपविष्टौ )
सानुमती – – लतासंश्रिता द्रक्ष्यामि तावत्सख्याः प्रतिकृतम् |
ततस्तस्यै भर्तुर्बहुमुखमनुरागं निवेदयिष्यामि |
( इति तथा कृत्वा स्थिता )
राजाः – – सखे सर्वमिदानीं स्मरामि शकुंतलायाः
प्रथमवृत्तान्तम् | कथितवानस्मि भवते च | स
भवान्प्रत्यादेशवेलायां मत्समीपगतो नासीत् | पूर्वमपि न त्वया
कदाचित्संकीर्तितं तत्रभवत्या नाम | कच्चिदहमिव विस्मृतवानसि
त्वम् |
विदूषकः – – न विस्मरामि | किं तु सर्वं कथयित्वावसाने पुनस्त्वया
परिहासविजल्प एष न भूतार्थ इत्याख्यातम् | मयापि
मृत्पिण्डबुद्धिना तथैव गृहीतम् | अथवा भवितव्यता खलु
बलवती |
सानुमती – – एवं न्विदम् |
राजाः – – ( ध्यात्वा )
सखे त्रायस्व माम् |
विदूषकः – – भोः किमेतत् | अनुपपन्नं खल्वीदृशं त्वयि | कदापि
सत्पुरुषाः शोकवास्तव्या न भवन्ति | ननु प्रवातेऽपि निष्कम्पा
गिरयः |
राजाः – – वयस्य निराकरणविक्लवायाः प्रियायाः समवस्थामनुस्मृत्य
बलवदशरणोऽस्मि | सा हि
इतः प्रत्यादेशात्स्वजनमनुगन्तुं व्यवसिता
स्थिता तिष्ठेत्युच्चैर्वदति गुरुशिष्ये गुरुसमे |
पुनर्दृष्टिं बाष्पप्रसरकलुषामर्पितवती मयि
क्रूरे यत्तत्सविषमिव शल्यं दहति माम्||९||
सानुमती – – अहो | ईदृशी स्वकार्यपरता | अस्य संतापेनाहं रमे |
विदूषकः – – भोः अस्ति मे तर्कः केनापि तत्रभवत्याकाशचारिणा
नीतेति |
राजाः – – कः पतिदेवतामन्यः परामर्ष्टुमुत्सहेत | मेनका किल
सख्यास्ते जन्मप्रतिष्ठेति श्रुतवानस्मि | तत्सहचारिणीभिः सखी ते
हृतेति मे हृदयमाशङ्कते |
सानुमती – – संमोहः खलु विस्मयनीयो न प्रतिबोधः |
विदूषकः – – यद्येवमस्ति खलु समागमः कालेन तत्रभवत्या |
राजाः – – कथमिव |
विदूषकः – – न खलु मातापितरौ भर्तृवियोगदुःखितां दुहितरं
चिरं द्रष्टुं पारयतः |
राजाः – – वयस्य |
स्वप्नो नु माया नु मतिभ्रमो नु क्लिष्टं नु तावत्फलमेव पुण्यम् |
असंनिवृत्त्यै तदतीतमेते मनोरथा नाम तटप्रपाताः||१०||
विदूषकः – – मैवम् | नन्वङ्गुलीयकमेव निदर्शनमवश्यं
भाव्यचिन्तनीयः समागमो भवतीति |
राजाः – – ( अङ्गुलीयकं विलोक्य )
अये इदं तावदसुलभस्थानभ्रंशि शोचनीयम् |
तव सुचरितमङ्गुलीय नूनं प्रतनु ममेव विभाव्यते फलेन |
अरुणनखमनोहरासु तस्याश्च्युतमसि लब्धपदं यदङ्गुलीषु||११||
सानुमती – – यद्यन्यहस्तगतं भवेत्सत्यमेव शोचनीयं भवेत् |
विदूषकः – – भोः इयं नाममुद्रा केनोध्दातेन तत्रभवत्या
हस्ताभ्यासं प्रापिता |
सानुमती – – ममापि कौतूहलेनाकारित एषः |
राजाः – – श्रूयताम् | स्वनगराय प्रस्थितं मां प्रिया
सबाष्पमाह कियच्चिरेणार्यपुत्रः प्रतिपत्तिं दास्यतीति |
विदूषकः – – ततस्ततः |
राजाः – – पश्चादिमां मुद्रां तदङ्गुलौ निवेशयता मया
प्रत्यभिहिता |
एकैकमत्र दिवसे दिवसे मदीयं नामाक्षरं गणय गच्छसि यावदन्तम्
|
तावत्प्रिये मदवरोधगृहप्रवेशं नेता जनस्तव समीपमुपैष्यतीति
||१२||
तच्च दारुणात्मना मया मोहान्नानुष्ठितम् |
सानुमती – – रमणीयः खल्ववधिर्विधिना विसंवादितः |
विदूषकः – – अथ कथं धीवरकल्पितस्य रोहितमत्स्यस्योदराभ्यन्तर
आसीत् |
राजाः – – शचीतीर्थं वन्दमानायाः सख्यास्ते
हस्ताद्गङ्गास्रोतसि परिभ्रष्टम् |
विदूषकः – – युज्यते |
सानुमती – – अत एव तपस्विन्याः शकुंतलाया अधर्मभीरोरस्य
राजर्षेः परिणये संदेह आसीत् |
अथ वेदृशोऽनुरागोऽभिज्ञानमपेक्षते | कथमिवैतत् |
राजाः – – उपालप्स्ये तावदिदमङ्गुलीयकम् |
विदूषकः – – ( आत्मगतम् )
गृहीतोऽनेन पन्था उन्मत्तानाम् |
राजाः – – कथं नु तं बन्धुरकोमलाङ्गुलिं करं विहायासि
निमग्नमम्भसि | अथवा |
अचेतनं नाम गुणं न लक्षयेन्मयैव कस्मादवधीरिता प्रिया||१३||
विदूषकः – – ( आत्मगतम् )
कथं बुभुक्षया खादितव्योऽस्मि |
राजाः – – प्रिये
अकारणपरित्यागानुशयतप्तहृदयस्तावदनुकम्प्यतामयं जनः
पुनर्दर्शनेन |
( प्रविश्यापटीक्षेपेण चित्रफलकहस्ता )
चतुरिका – – इयं चित्रगता भट्टिनी |
( इति चित्रफलकं दर्शयति )
विदूषकः – – ( विलोक्य )
साधु वयस्य | मधुरावस्थानदर्शनीयो भावानुप्रवेशः | स्खलतीव
मे दृष्टिर्निम्नोन्नतप्रदेशेषु |
सानुमती – – अहो एषा राजर्षेर्निपुणता | जाने सख्यग्रतो मे वर्तत
इति |
राजाः – –
यद्यत्साधु न चित्रे स्यात्क्रियते तत्तदन्यथा |
तथापि तस्या लावण्यं रेखया किञ्चिदन्वितम्||१४||
सानुमती – – सदृशमेतत्पश्चात्तापगुरोः स्नेहस्यानवलेपस्य च |
विदूषकः – – भोः इदानीं तिस्रस्तत्रभवत्यो दृश्यन्ते | सर्वाश्च
दर्शनीयाः | कतमाऽत्र तत्रभवती शकुंतला |
सानुमती – – अनभिज्ञः खल्वीदृशस्य रूपस्य मोघदृष्टिरयं जनः
|
राजाः – – त्वं तावत्कतमां तर्कयसि |
विदूषकः – – तर्कयामि यैषा शिथिलबन्धनोद्वान्तकुसुमेन
केशान्तेनोद्भिन्नस्वेदबिन्दुना वदनेन विशेषतोऽपसृताभ्यां
बाहुभ्यामवसेकस्निग्धतरुणपल्लवस्य चूतपादपस्य पार्श्व
इषत्परिश्रान्तेवालिखिता सा शकुंतला | इतरे सख्याविति |
राजाः – – निपुणो भवान् | अस्त्यत्र मे भावचिह्नम् |
स्विन्नाङ्गुलिविनिवेशो रेखाप्रान्तेषु दृश्यते मलिनः |
अश्रु च कपोलपतितं दृश्यमिदं वर्णिकोच्छ्वासात्||१५||
चतुरिके अर्धलिखितमेतद्विनोदस्थानम् | गच्छ | वर्तिकां तावदानय
|
चतुरिका – – आर्य माधव्य अवलम्बस्व चित्रफलकं यावदागच्छामि
|
राजाः – – अहमेवैतदवलम्बे |
( इति यथोक्तं करोति )
( निष्क्रान्ता चेटि )
राजाः – – ( निःश्वस्य )
साक्षात्प्रियामुपगतामपहाय पूर्वं चित्रार्पितां पुनरिमां बहु
मन्यमानः |
स्त्रोतोवहां पथि निकामजलामतीत्य जातः सखे
प्रणयवान्मृगतृष्णिकायाम्||१६||
विदूषकः – – ( आत्मगतम् )
एषोऽत्रभवान्नदीमतिक्रम्य मृगतृष्णिकां सङ्क्रान्तः |
( प्रकाशम् )
भोः अपरं किमत्र लेखितव्यम् |
सानुमति – – यो यः प्रदेशः सख्या मेऽभिरूपस्तं तमालेखितुकामो
भवेत् |
राजाः – – श्रूयताम् |
कार्या सैकतलीनहंसमिथुना स्रोतोवहा मालिनी
पादास्तामभितो निषण्णहरिणा गौरीगुरोः पावनाः |
शाखालम्बितवल्कलस्य च तरोर्निर्मातुमिच्छाम्यधः
शृङ्गे कृष्णमृगस्य वामनयनं कण्डूयमानां मृगीम्||१७||
विदूषकः – – ( आत्मगतम् )
यथाहं पश्यामि पूरितव्यमनेन चित्रफलकं लम्बकूर्चानां
तापसानां कदम्बैः |
राजाः – – वयस्य अन्यश्च | शकुंतलायाः प्रसाधनमभिप्रेतमत्र
विस्मृतमस्माभिः |
विदूषकः – – किमिव |
सानुमती – – वनवासस्य सौकुमार्यस्य विनयस्य च यत्सदृशं
भविष्यति |
राजाः – –
कृतं न कर्णार्पितबन्धनं सखे शिरीषमागण्डविलम्बिकेसरम् |
न वा शरच्चन्द्रमरीचिकोमलं मृणालसूत्रं रचित स्तनान्तरे||
१८||
विदूषकः – – भोः किं नु तत्रभवती
रक्तकुवलयपल्लवशोभिनाऽग्रहस्तेन मुखमावार्य चकितचकितेव
स्थिता |
( सावधानं निरूप्य दृष्ट्वा )
आः एष दास्याःपुत्रः कुसुमरसपाटच्चरस्तत्रभवत्या
वदनकमलमभिलङ्घते मधुकरः |
राजाः – – ननु वार्यतामेष धृष्टः |
विदूषकः – – भवानेवाविनीतानां शासिताऽस्य वारणे
प्रभविष्यति |
राजाः – – युज्यते | अयि भोः कुसुमलताप्रियातिथे किमत्र
परिपतनखेदमनुभवसि |
एषा कुसुमनिषण्णा तृषितापि सती भवन्तमनुरक्ता
प्रतिपालयति मधुकरी न खलु मधु विना त्वया पिबति||१९||
सानुमती – – अद्याभिजातं खल्वेष वारितः |
विदूषकः – – प्रतिषिद्धापि वामैषा जातिः |
राजाः – – एवं भो न मे शासने तिष्ठसि | श्रूयतां तर्हि संप्रति |
अक्लिष्टबालतरुपल्लवलोभनीयं पीतं मया सदयमेव रतोत्सवेषु |
बिम्बाधरं स्पृशसि चेद्भ्रमर प्रियायास्त्वां कारयामि
कमलोदरबन्धनस्थम्||२०||
विदूषकः – – एवं तीक्ष्णदण्डस्य किं न भेष्यति |
( प्रहस्य | आत्मगतम् )
एष तावदुन्मत्तः | अहमप्येतस्य सङ्गेनेदृशवर्ण इव संवृत्तः |
( प्रकाशम् )
भोः चित्रं खल्वेतत् |
राजाः – – कथं चित्रम् |
सानुमती – – अहमपीदानीमवगतार्था | किं
पुनर्यथालिखितानुभाव्येषः |
राजाः – – वयस्य किमिदमनुष्ठितं पौरोभाग्यम् |
दर्शनसुखमनुभवतः साक्षादिव तन्मयेन हृदयेन |
स्मृतिकारिणा त्वया मे पुनरपि चित्रीकृता कान्ता||२१||
( इति बाष्पं विहरति )
सानुमती – – पूर्वापरविरोध्यपूर्व एष विरहमार्गः |
राजाः – – वयस्य कथमेवमविश्रान्तदुःखमनुभवामि |
प्रजागरात्खिलीभूतस्तस्याः स्वप्ने समागमः |
बाष्पस्तु न ददात्येनां द्रष्टुं चित्रगतामपि||२२||
सानुमती – – सर्वथा प्रमार्जितं त्वया प्रत्यादेशदुःखं
शकुंतलायाः |
( प्रविश्य )
चतुरिका – – जयतु भर्ता | वर्तिकाकरण्डकं गृहीत्वेतोमुखं
प्रस्थितास्मि |
राजाः – – किं च |
चतुरिका – – स मे हस्तादन्तरा तरलिकाद्वितीयया देव्या
वसुमत्याहमेवार्यपुत्रस्योपनेष्यामीति सबलात्कारं गृहीतः |
विदूषकः – – दिष्ट्या त्वं मुक्ता |
चतुरिका – – यावद्देव्या विटपलग्नमुत्तरीयं तरलिका मोचयति
तावन्मया निर्वाहित आत्मा |
राजाः – – वयस्य उपस्थिता देवी बहुमानगर्विता च | भवानिमां
प्रतिकृतिं रक्षतु |
विदूषकः – – आत्मानमिति भण |
( चित्रफलकमादायोत्थाय च )
यदि भवानन्तःपुरकूटवागुरातो मोक्ष्यते तदा मां मेघप्रतिच्छन्दे
प्रासादे शब्दायय |
( इति द्रुतपदं निष्क्रान्तः )
सानुमती – – अन्यसंक्रान्तहृदयोऽपि प्रथमसंभावनामपेक्षते |
अतिशिथिलसौहार्द इदानीमेषः |
( प्रविश्य पत्रहस्ता )
प्रतीहारी – – जयतु जयतु देवः |
राजाः – – वेत्रवति न खल्वन्तरा दृष्टा त्वया देवी |
प्रतीहारी – – अथ किम् | पत्रहस्तां मां प्रेक्ष्य प्रतिनिवृत्ता |
राजाः – – कार्यज्ञा कार्योपरोधं मे परिहरति |
प्रतीहारी – – देव अमात्यो विज्ञापयति |
अर्थजातस्य गणनाबहुलतयैकमेव पौरकार्यमवेक्षितं तद्देवः
पत्रारूढं प्रत्यक्षीकरोत्विति |
राजाः – – इतः पत्रं दर्शय |
( प्रतिहार्युपनयति )
राजाः – – ( अनुवाच्य )
कथम् | समुद्रव्यवहारी सार्थवाहो धनमित्रो नाम नौव्यसने विपन्नः
| अनपत्यश्च किल तपस्वी | राजगामी तस्यार्थसंचय
इत्येतदमात्येन लिखितम् | कष्टं खल्वनपत्यता | वेत्रवति
बहुधनत्वाद्बहुपत्नीकेन तत्रभवता भवितव्यम् | विचार्यतां यदि
काचिदापन्नसत्त्वा तस्य भार्यासु स्यात् |
प्रतीहारी – – देव इदानीमेव साकेतकस्य श्रेष्ठिनो दुहिता
निर्वृत्तपुंसवना जायास्य श्रूयते |
राजाः – – ननु गर्भः पित्र्यं रिक्थमर्हति | गच्छ | एवममात्यं
ब्रूहि |
प्रतीहारी – – यद्देव आज्ञापयति |
( इति प्रस्थिता )
राजाः – – एहि तावत् |
प्रतीहारी – – इयमस्मि |
राजाः – – किमनेन संततिरस्ति नास्तीति |
येन येन वियुज्यन्ते प्रजाः स्निग्धेन बन्धुना |
स स पापादृते तासां दुष्यन्त इति घुष्यताम्||२३||
प्रतीहारी – – एवं नाम घोषयितव्यम् |
( निष्क्रम्य | पुनः प्रविष्य )
काले प्रवृष्टमिवाभिनन्दितं देवस्य शासनम् |
राजाः – – ( दीर्घमुष्णं च निःश्वस्य )
एवं भोः संततिछेदनिरवलम्बानां कुलानां मूलपुरुषावसाने
संपदः परमुपतिष्ठन्ते | ममाप्यन्ते पुरुवंशश्रिय एष एव
वृत्तान्तः |
प्रतीहारी – – प्रतिहतममङ्गलम् |
राजाः – – धिङ्मामुपस्थितश्रेयोवमानिनम् |
सानुमती – – असंशयं सखीमेव हृदये कृत्वा निन्दितोऽनेनात्मा |
राजाः – –
संरोपितेऽप्यात्मनि धर्मपत्नी त्यक्ता मया नाम कुलप्रतिष्ठा |
कल्पिष्यमाणा महते फलाय वसुंधरा काल इवोप्तबीजा||२४||
सानुमती – – अपरिच्छिन्नेदानीं ते संततिर्भविष्यति |
चतुरिका – – ( जनान्तिकम् )
अये अनेन सार्थवाहवृत्तान्तेन द्विगुणोद्वेगो भर्ता | एनमाश्वासयितुं
मेघप्रतिच्छन्दादार्यं माधव्यं गृहीत्वागच्छ |
प्रतीहारी – – सुष्ठु भणसि |
( इति निष्क्रान्ता )
राजाः – – अहो दुष्यन्तस्य संशयमारूढाः पिण्डभाजः | कुतः |
अस्मात्परं बत यथाश्रुति संभृतानि को नः कुले निवपनानि
नियच्छतीति |
नूनं प्रसूतिविकलेन मया प्रसिक्तं धौताश्रुशेषमुदकं पितरः
पिबन्ति||२५||
( इति मोहमुपगतः )
चतुरिका – – ( ससंभ्रममवलोक्य )
समाश्वसितु समाश्वसितु भर्ता |
सानुमती – – हा धिक् हा धिक् | सति खलु दीपे
व्यवधानदोषेणैषोऽन्धकारदोषमनुभवति | अहमिदानीमेव
निर्वृतं करोमि |
अथ वा श्रुतं मया शकुंतलां समाश्वासयन्त्या महेन्द्रजनन्या
मुखाद्यज्ञभागोत्सुका देवा एव तथानुष्ठास्यन्ति यथाचिरेण
धर्मपत्नीं भर्ताभिनन्दिष्यतीति | तद्युक्तमेतं कालं
प्रतिपालयितुम् | यावदनेन वृत्तान्तेन प्रियसखीं समाश्वासयामि |
( इत्युद्भ्रान्तकेन निष्क्रान्ता )
( नेपथ्ये )
अब्रह्मण्यम् |
राजाः – – ( प्रत्यागतः | कर्णं दत्त्वा )
अये माधव्यस्येवार्तस्वरः | कः कोऽत्र भोः |
( प्रविश्य )
प्रतीहारी – – ( ससम्भ्रमम् )
परित्रायतां देवः संशयगतं वयस्यम् |
राजाः – – केनात्तगन्धो माणवकः |
प्रतीहारी – – अदृष्टरूपेण केनापि सत्त्वेनातिक्रम्य
मेघप्रतिच्छन्दस्य प्रासादस्याग्रभूमिमारोपितः |
राजाः – – ( उत्थाय )
मा तावत् | ममापि सत्त्वैरभिभूयन्ते गृहाः | अथ वा |
अहन्यहन्यात्मन एव तावज्ज्ञातुं प्रमादस्खलितं न शक्यम् |
प्रजासु कः के पथा प्रयातीत्यशेषतो वेदितुमस्ति शक्तिः||२६||
( नेपथ्ये )
भो वयस्य अविहा अविहा |
राजाः – – ( गतिभेदेन परिक्रामन् )
सखे न भेतव्यम् |
( नेपथ्ये )
( पुनस्तदेव पठित्वा )
कथं न भेष्यामि | एष मां कोऽपि प्रत्यवनतशिरोधरमिक्षुमिव
त्रिभङ्गं करोति |
राजाः – – ( सदृष्टिक्षेपम् )
धनुस्तावत् |
( प्रविश्य शार्ङ्गहस्ता )
यवनी – – भर्तः एतध्दस्तावापसहितं शरासनम् |
( राजा सशरं धनुरादत्ते )
( नेपथ्ये )
एष त्वामभिनवकण्ठशोणितार्थी शार्दूलः पशुमिव हन्मि
चेष्टमानम् |
आर्तानां भयमपनेतुमात्तधन्वा दुष्यन्तस्तव शरणं
भवत्विदानीम्||२७||
राजाः – – ( सरोषम् )
कथं मामेवोद्दिशति | तिष्ठ कुणपाशन | त्वमिदानीं न भविष्यसि |
( शार्ङ्गमारोप्य )
वेत्रवति सोपानमार्गमादेशय |
प्रतिहारी – – इत इतो देवः |
( सर्वे सत्वरमुपसर्पन्ति )
राजाः – – ( समन्ताद्विलोक्य )
शून्यं खल्विदम् |
( नेपथ्ये )
अविहा | अविहा | अहं अत्रभवन्तं पश्यामि | त्वं मां न पश्यसि |
बिडालगृहीतो मूषक इव निराशोऽस्मि जीविते संवृत्तः |
राजाः – – भोस्तिरस्करिणीगर्वित मदीयमस्त्रं त्वां द्रक्ष्यति | एष
तमिषुं संदधे |
यो हनिष्यति वध्यं त्वां रक्ष्यं रक्षिष्यति द्विजम् |
हंसो हि क्षीरमादत्ते तन्मिश्रा वर्जयत्यपः||२८||
( इत्यस्त्रं संधत्ते )
( ततः प्रविशति विदूषकमुत्सृज्य मातलिः )
मातलिः – –
कृता शरव्यं हरिणा तवासुराः शरासनं तेषु विकृष्यतामिदम्
|
प्रसादसौम्यानि सतां सुहृज्जने पतन्ति चक्षूंषि न दारुणाः शराः
||२९||
राजाः – – ( ससम्भ्रममस्त्रमुपसंहरन् )
अये मातलिः | स्वागतं महेन्द्रसारथे |
( प्रविश्य )
विदूषकः – – अहं येनेष्टिपशुमारं मारितः सोऽनेन
स्वागतेनाभिनद्यते |
मातलिः – – ( सस्मितम् )
आयुष्मन्श्रूयतां यदर्थमस्मि हरिणा भवत्सकाशं प्रेषितः |
राजाः – – अवहितोऽस्मि |
मातलिः – – अस्ति कालनेमिप्रसूतिर्दुर्जयो नाम दानवगणः |
राजाः – – अस्ति | श्रुतपूर्वं मया नारदात् |
मातलिः – –
सख्युस्ते स किल शतक्रतोरजय्य स्तस्य त्वं रणशिरसि स्मृतो निहन्ता |
उच्छेत्तुं प्रभवति यन्न सप्तसप्तिस्तन्नैशं तिमिरमपाकरोति चन्द्रः
||३०||
स भवानात्तशस्त्र एव इदानीमैन्द्ररथमारुह्य विजयाय
प्रतिष्ठताम् |
राजाः – – अनुगृहीतोऽहमनया मघवतः संभावनया | अथ
माधव्यं प्रति भवता किमेवं प्रयुक्तम् |
मातलिः – – तदपि कथ्यते | किंचिन्निमित्तादपि
मनःसंतापादायुष्मान्मया विक्लवो दृष्टः |
पश्चात्कोपयितुमायुष्मन्तं तथा कृतवानस्मि | कुतः |
ज्वलति चलितेन्धनोऽग्निर्विप्रकृतः पन्नगः फणां कुरुते |
प्रायः स्वं महिमानं क्षोभात्प्रतिपद्यते हि जनः||३१||
राजाः – – ( जनान्तिकम् )
वयस्य अनतिक्रमणीया दिवस्पतेराज्ञा | तदत्र परिगतार्थं कृत्वा
मद्वचनादमात्यपिशुनं ब्रूहि |
त्वन्मतिः केवला तावत् परिपालयतु प्रजाः |
अधिज्यमिदमन्यस्मिन्कर्मणि व्यापृतं धनुः||३२||
इति |
विदूषकः – – यद्भवानाज्ञापयति |
( इति निष्क्रान्तः )
मातलिः – – आयुष्मान्रथमारोहतु |
( राजा रथारोहणं नाट्यति )
( निष्क्रान्ताः सर्वे )
( इति षष्ठो अङ्कः | )
सप्तमोऽङ्कः |
( ततः प्रविशत्याकाशयानेन रथाधिरूढो राजा मातलिश्च )
राजाः – – मातले अनुष्ठितनिदेशोऽपि मघवतः
सत्क्रियाविशेषादनुपयुक्तमिवात्मानं समर्थये |
मातलिः – – ( सस्मितम् )
आयुष्मन् उभयमप्यपरितोषं समर्थये |
प्रथमोपकृतं मरुत्वतः प्रतिपत्त्या लघु मन्यते भवान् |
गणयत्यवदानविस्मितो भवतः सोऽपि न सत्क्रियागुणान्||१||
राजाः – – मातले मा मैवम् | स खलु
मनोरथानामप्यभूमिर्विसर्जनावसरसत्कारः | मम हि दिवौकसां
समक्षमर्धासनोपवेशितस्य |
अन्तर्गतप्रार्थनमन्तिकस्थं जयन्तमुद्वीक्ष्य कृतस्मितेन |
आमृष्टवक्षोहरिचन्दनाङ्का मन्दारमाला हरिणा पिनद्धा||२||
मातलिः – – किमिव नामायुष्मानमरेश्वरान्नार्हति | पश्य |
सुखपरस्य हरेरुभयैः कृतं त्रिदिवमुद्धृतदानवकण्टकम् |
तव शरैरधुना नतपर्वभिः पुरुषकेसरिणश्च पुरा नखैः||३||
राजाः – – अत्र खलु शतक्रतोरेव महिमा स्तुत्यः |
सिध्यन्ति कर्मसु महत्स्वपि यन्नियोज्याः |
संभावनागुणमवेहि तमीश्वराणाम् |
किं वाऽभविष्यदरुणस्तमसां विभेत्ता
तं चेत्सहस्रकिरणो धुरि नाकरिष्यत्||४||
मातलिः – – सदृशं तवैतत् |
( स्तोकमन्तरमतीत्य )
आयुष्मन् इतः पश्य नाकपृष्ठप्रतिष्ठितस्य सौभाग्यमात्मयशसः
|
विच्छित्तिशेषैः सुरसुन्दरीणां वर्णैरमी कल्पलतांशुकेषु |
विचिन्त्य गीतक्षममर्थजातं दिवौकसस्त्वच्चरितं लिखन्ति||५||
राजाः – – मातले असुरसंप्रहारोत्सुकेन पूर्वेद्युर्दिवमधिरोहता मया
न लक्षितः स्वर्गमार्गः | कतमस्मिन्मरुतां पथि वर्तामहे |
मातलिः – –
त्रिस्रोतसं वहति यो गगनप्रतिष्ठां ज्योतींषि वर्तयति च
प्रविभक्तरश्मिः |
तस्य द्वितीयहरिविक्रमनिस्तमस्कं वायोरिमं परिवहस्य वदन्ति मार्गम्
||६||
राजाः – – मातले अतः खलु सबाह्यान्तःकरणो ममान्तरात्मा प्रसीदति
|
( रथाङ्गमवलोक्य )
मेघपदवीमवतीर्णौ स्वः |
मातलिः – – कथमवगम्यते |
राजाः – – अयमरविवरेभ्यश्चातकैर्निष्पतद्भिर्हरिभिरचिरभासां
तेजसा चानुलिप्तैः |
गतमुपरि घनानां वारिगर्भोदराणां
पिशुनयति रथस्ते शीकरक्लिन्ननेमिः||७||
मातलिः – – क्षणादायुष्मान्स्वाधिकारभूमौ वर्तिष्यते |
राजाः – – ( अधोऽवलोक्य )
मातले वेगावतरणादाश्चर्यदर्शनः संलक्ष्यते मनुष्यलोकः | तथा
हि |
शैलानामवरोहतीव शिखरादुन्मज्जतां मेदिनी |
पर्णाभ्यन्तरलीनतां विजहति स्कन्धोदयात्पादपाः |
संतानैस्तनुभावनष्टसलिला व्यक्तिं भजन्त्यापगाः |
केनाप्युत्क्षिपतेव पश्य भुवनं मत्पार्श्वमानीयते||८||
मातलिः – – साधु दृष्टम् |
( सबहुमानमवलोक्य )
अहो उदाररमणीया पृथिवी |
राजाः – – मातले कतमोऽयं पूर्वापरसमुद्रावगाढः
कनकरसनिस्यन्दी सांध्य इव मेघपरिघः सानुमानालोक्यते |
मातलि – – आयुष्मन् एष खलु हेमकूटो नाम
किंपुरुषपर्वतस्तपःसंसिद्धिक्षेत्रम् | पश्य |
स्वायंभुवान्मरीचेर्यः प्रबभूव प्रजापतिः |
सुरासुरगुरुः सोऽत्र सपत्नीकस्तपस्यति||९||
राजाः – – तेन ह्यनतिक्रमणीयानि श्रेयांसि | प्रदक्षिणीकृत्य
भगवन्तं गन्तुमिच्छामि |
मातलिः – – प्रथमः कल्पः |
( नाट्येनावतीर्णौ )
राजाः – – ( सविस्मयम् )
उपोढशब्दा न रथाङ्गनेमयः प्रवर्तमानं न च दृश्यते रजः |
अभूतलस्पर्शनतयाऽनिरुद्धतस्तवावतीर्णोऽपि रथो न लक्ष्यते||१०||
मातलिः – – एतावानेव शतक्रतोरायुष्मतश्च विशेषः |
राजाः – – मातले कतमस्मिन्प्रदेशे मारीचाश्रमः |
मातलिः – – ( हस्तेन दर्शयन् )
वल्मीकार्धनिमग्नमूर्तिरुरसा संदष्टसर्पत्वचा
कण्ठे जीर्णलताप्रतानवलयेनात्यर्थसंपीडितः |
अंसव्यापि शकुन्तनीडनिचितं बिभ्रज्जटामण्डलं
यत्र स्थाणुरिवाचलो मुनिरसावभ्यर्कबिम्बं स्थितः||११||
राजाः – – नमस्ते कष्टतपसे |
मातलिः – – ( संयतप्रग्रहं रथं कृत्वा )
एतौ अदितिपरिवर्धितमन्दारवृक्षं प्रजापतेराश्रमं प्रविष्टौ स्वः |
राजाः – – स्वर्गादधिकतरं निर्वृतिस्थानम्
अमृतहृदमिवावगाढोऽस्मि |
मातलिः – – ( रथं स्थापयित्वा )
अवतरत्वायुष्मान् |
राजाः – – ( अवतीर्य )
मातले भवान्कथमिदानीम् |
मातलिः – – संयन्त्रितो मया रथः | वयमप्यवतरामः |
( तथा कृत्वा )
इत आयुष्मन् |
( परिक्रम्य )
दृश्यन्तामत्रभवतामृषीणां तपोवनभूमयः |
राजाः – – ननु विस्मयादवलोकयामि |
प्राणानामनिलेन वृत्तिरुचिता सत्कल्पवृक्षे वने
तोये काञ्चनपद्मरेणुकपिशे धर्माभिषेकक्रिया |
ध्यानं रत्नशिलातलेषु विबुधस्त्रीसंनिधौ संयमो
यत्काङ्क्षन्ति तपोभिरन्यमुनयस्तस्मिंस्तपस्यन्त्यमी||१२||
मातलिः – – उत्सर्पिणी खलु महतां प्रार्थना |
( परिक्रम्य | आकाशे )
अये वृद्धशाकल्य किमनुतिष्ठति भगवान्मारीचः | किं ब्रवीषि |
दाक्षायण्या प्रतिव्रतार्धमधिकृत्य पृष्टस्तस्यै
महर्षिपत्नीसहितायै कथयतीति |
राजाः – – ( कर्णं दत्त्वा )
अये प्रतिपाल्यावसरः खलु प्रस्तावः |
मातलिः – – ( राजानमवलोक्य )
अस्मिन्नशोकवृक्षमूले तावदास्तामायुष्मान् यावत्त्वामिन्द्रगुरवे
निवेदयितुमन्तरान्वेषी भवामि |
राजाः – – यथा भवान्मन्यते |
( इति स्थितः )
मातलिः – – आयुष्मन् साधयाम्यहम् |
( इति निष्क्रान्तः )
राजाः – – ( निमित्तं सूचयित्वा )
मनोरथाय नाशंसे किं बाहो स्पन्दसे वृथा |
पूर्वावधीरितं श्रेयो दुःखं हि परिवर्तते||१३||
( नेपथ्ये )
मा खलु चापलं कुरु | कथं गत एवात्मनः प्रकृतिम् |
राजाः – – ( कर्णं दत्त्वा )
अभूमिरियमविनयस्य | को नु खल्वेष निषिध्यते |
( शब्दानुसारेणावलोक्य | सविस्मयम् )
अये को नु खल्वयमनुबध्यमानस्तपस्विनीभ्यामबालसत्त्वो बालः |
अर्धपीतस्तनं मातुरामर्दक्लिष्टकेसरम् |
प्रक्रीडितुं सिंहशिशुं बलात्कारेण कर्षति||१४||
( ततः प्रविशति यथानिर्दिष्टकर्मा तपस्विनीभ्यां बालः )
बालः – – जृम्भस्व सिंह दन्तांस्ते गणयिष्ये |
प्रथमा – – अविनीत किं नोऽपत्यनिर्विशेषाणि सत्त्वानि विप्रकरोषि |
हन्त वर्धते ते संरम्भः | स्थाने खलु ऋषिजनेन सर्वदमन इति
कृतनामधेयोऽसि |
राजाः – – किं नु खलु बालेऽस्मिन्नौरस इव पुत्रे स्निह्यति मे मनः |
नूनमनपत्यता मां वत्सलयति |
द्वितीया – – एषा खलु केसरिणी त्वां लङ्घयति यद्यस्याः पुत्रकं न
मुञ्चसि |
बालः – – ( सस्मितम् )
अहो बलीयः खलु भीतोऽस्मि |
( इत्यधरं दर्शयति )
राजाः – –
महतस्तेजसो बीजं बालोऽयं प्रतिभाति मे |
स्फुलिङ्गावस्थया वह्निरेधापेक्ष इव स्थितः||१५||
प्रथमा – – वत्स एनं बालमृगेन्द्रं मुञ्च | अपरं ते क्रीडनकं
दास्यामि |
बालः – – कुत्र | देह्येतत् |
( इति हस्तं प्रसारयति )
राजाः – – कथं चक्रवर्तिलक्षणमप्यनेन धार्यते | तथा ह्यस्य |
प्रलोभ्यवस्तुप्रणयप्रसारितो विभाति जालग्रथिताङ्गुलिः करः |
अलक्ष्यपत्रान्तरमिद्धरागया नवोषसा भिन्नमिवैकपङ्कजम्||१६||
द्वितीया – – सुव्रते न शक्य एष वाचामात्रेण विरमयितुम् | गच्छ
त्वम् | मदीय उटजे मार्कण्डेयस्यर्षिकुमारस्य वर्णचित्रितो
मृत्तिकामयूरस्तिष्ठति | तमस्योपहर |
प्रथमा – – तथा |
( इति निष्क्रान्ता )
बालः – – अनेनैव तावत्क्रीडिष्यामि |
( इति तापसीं विलोक्य हसति )
राजाः – – स्पृहयामि खलु दुर्ललितायस्मै |
आलक्ष्यदन्तमुकुलाननिमित्तहासैरव्यक्तवर्णरमणीयवचःप्रवृत्तीन् |
अङ्काश्रयप्रणयिनस्तनयान्वहन्तो धन्यास्तदङ्गरजसा मलिनीभवन्ति||
१७||
तापसी – – भवतु | न मामयं गणयति |
( पार्श्वमवलोक्य )
कोऽत्र ऋषिकुमाराणाम् |
( राजानमवलोक्य )
भद्रमुख एहि तावत् | मोचयानेन दुर्मोचहस्तग्रहेण डिम्भलीलया
बाध्यमानं बालमृगेन्द्रम् | ( – दुर्मोक- )
राजाः – – ( उपगम्य | सस्मितम् )
अयि भो महर्षिपुत्र |
एवमाश्रमविरुद्धवृत्तिना संयमः किमिति जन्मतस्त्वया |
सत्त्वसंश्रय सुखोऽपि दूष्यते कृष्णसर्पशिशुनेव चन्दनः||१८
||
तापसी – – भद्रमुख न खल्वयमृषिकुमारः |
राजाः – – आकारसदृशं चेष्टितमेवास्य कथयति |
स्थानप्रत्ययात्तु वयमेवंतर्किणः |
( यथाभ्यर्थितमनुतिष्ठन्बालस्पर्शमुपलभ्य | आत्मगतम् )
अनेन कस्यापि कुलाङ्कुरेण स्पृष्टस्य गात्रेषु सुखं ममैवम् |
कां निर्वृतिं चेतसि तस्य कुर्याद्यस्यायमङ्कात्कृतिनः प्ररूढः||१९
||
तापसी – – ( उभौ निर्वर्ण्य )
आश्चर्यमाश्चर्यम् |
राजाः – – आर्ये किमिव |
तापसी – – अस्य बालकस्य तेऽपि संवादिन्याकृतिरिति विस्मिताऽस्मि |
अपरिचितस्यापि तेऽप्रतिलोमः संवृत्त इति |
राजाः – – ( बालकमुपलालयन् )
न चेन्मुनिकुमारोऽयमथ को स्य व्यपदेशः |
तापसी – – पुरुवंशः |
राजाः – – ( आत्मगतम् )
कथमेकान्वयो मम | अतः खलु मदनुकारिणमेनमत्रभवती मन्यते |
अस्त्येतत्पौरवाणामन्त्यं कुलव्रतम् |
भवनेषु रसाधिकेषु पूर्वं क्षितिरक्षार्थमुशन्ति ये निवासम् |
नियतैकव्रतियतानि पश्चात्तरुमूलानि गृहीभवन्ति तेषाम्||२०||
( प्रकाशम् )
न पुनरात्मगत्या मानुषाणामेष विषयः |
तापसी – – यथा भद्रमुखो भणति | अप्सरःसम्बन्धेनास्य जनन्यत्र
देवगुरोस्तपोवने प्रसूता |
राजाः – – ( अपवार्य )
हन्त द्वितीयमिदमाशाजननम् |
( प्रकाशम् )
अथ सा तत्रभवती किमाख्यस्य राजर्षेः पत्नी |
तापसी – – कस्तस्य धर्मदारपरित्यागिनो नाम संकीर्तयितुं
चिन्तयिष्यति |
राजाः – – ( स्वगतम् )
इयं खलु कथा मामेव लक्ष्यीकरोति | यदि तावदस्य शिशोर्मातरं
नामतः पृच्छामि | अथ वाऽनार्यः परदारव्यवहारः |
( प्रविष्य मृन्मयूरहस्ता )
तापसी – – सर्वदमन शकुंतलावण्यं प्रेक्षस्व |
बालः – – ( सदृष्टिक्षेपम् )
कुत्र वा मम माता |
उभे – – नामसादृश्येन वञ्चितो मातृवत्सलः |
द्वितीया – – वत्स अस्य मृत्तिकामयूरस्य रम्यत्वं पश्येति भणितोऽसि |
राजाः – – ( आत्मगतम् )
किं वा शकुन्तलेत्यस्या मातुराख्या | सन्ति पुनर्नामधेयसादृश्यानि |
अपि नाम मृगतृष्णिकेव
नाममात्रप्रस्तावो मे विषादाय कल्पते |
बालः – – मातः रोचते म एष भद्रमयूरः |
( इति क्रीडनकमादत्ते )
प्रथमा – – ( विलोक्य | सोद्वेगम् )
अहो रक्षाकरण्डकमस्य मणिबन्धे न दृश्यते |
राजाः – – अलमावेगेन | नन्विदमस्य सिंहशावविमर्दात्परिभ्रष्टम् |
( इत्यादातुमिच्छति )
उभे – – मा खल्वेतदवलम्ब्य कथम् | गृहीतमनेन |
( इति विस्मयादुरोनिहितहस्ते परस्परमवलोकयतः )
राजाः – – किमर्थं प्रतिषिद्धाः स्मः |
प्रथमा – – शृणोतु महाराजः | एषाऽपराजिता नामौषधिरस्य
जातकर्मसमये भगवता मारीचेन दत्ता | एतां किल
मातापितरावात्मानं च वर्जयित्वाऽपरो भूमिपतितां न गृह्णाति |
राजाः – – अथ गृह्णाति |
प्रथमा – – ततस्तं सर्पो भूत्वा दशति |
राजाः – – भवतीभ्यां कदाचिदस्याः प्रत्यक्षीकृता विक्रिया |
उभे – – अनेकशः |
राजाः – – ( सहर्षम् | आत्मगतम् )
कथमिव संपूर्णमपि मे मनोरथं नाभिनन्दामि |
( इति बालं परिष्वजते )
द्वितीया – – सुव्रते एहि | इमं वृत्तान्तं नियमव्यापृतायै
शकुंतलायै निवेदयावः |
( इति निष्क्रान्ते )
बालः – – मुञ्च माम् | यावन्मातुः सकाशं गमिष्यामि |
राजाः – – पुत्रक मया सहैव मातरमभिनन्दिष्यसि |
बालः – – मम खलु तातो दुष्यन्तः | न त्वम् |
राजाः – – ( सस्मितम् )
एष विवाद एव प्रत्याययति |
( ततः प्रविशत्येकवेणीधरा शकुंतला )
शकुंतला – – विकारकालेऽपि प्रकृतिस्थां सर्वदमनस्यौषधिं
श्रुत्वा न मे आशाऽऽसीदात्मनो भागधेयेषु | अथ वा यथा
सानुमत्याऽऽख्यातं तथा सम्भाव्यत एतत् |
राजाः – – ( शकुंतलां विलोक्य )
अये सेयमत्रभवती शकुंतला यैषा
वसने परिधूसरे वसाना नियमक्षाममुखी धृतैकवेणिः |
अतिनिष्करुणस्य शुद्धशीला मम दीर्घं विरहव्रतं बिभर्ति||२१||
शकुंतला – – ( पश्चात्तापविवर्णं राजानं दृष्ट्वा )
न खल्वार्यपुत्र इव | ततः क एष इदानीं कृतरक्षामङ्गलं
दारकं मे गात्रसंसर्गेण दूषयति |
बालः – – ( मातरमुपेत्य )
मातः एष कोऽपि पुरुषो मां पुत्र इत्यालिङ्गति |
राजाः – – प्रिये क्रौर्यमपि मे त्वयि प्रयुक्तमनुकूलपरिणामं संवृत्तं
यदहमिदानीं त्वया प्रत्यभिज्ञातमात्मानं पश्यामि |
शकुंतला – – ( आत्मगतम् )
हृदय समाश्वसिहि समाश्वसिहि |
परित्यक्तमत्सरेणानुकम्पितास्मि दैवेन | आर्यपुत्रः खल्वेषः |
राजाः – – प्रिये |
स्मृतिभिन्नमोहतमसो दिष्ट्या प्रमुखे स्थितासि मे सुमुखि |
उपरागान्ते शशिनः समुपगता रोहिणी योगम्||२२||
शकुंतला – – जयतु जयत्वार्यपुत्रः |
( इत्यर्धोक्ते बाष्पकण्ठी विरमति)
राजाः – – सुन्दरि |
बाष्पेण प्रतिषिद्धेऽपि जयशब्दे जितं मया |
यत्ते दृष्टमसंस्कारपाटलोष्ठपुटं मुखम्||२३||
बालः – – मातः क एषः |
शकुंतला – – वत्स ते भागधेयानि पृच्छ |
राजाः – – ( शकुंतलायाः पादयोः प्रणिपत्य )
सुतनु हृदयात्प्रत्यादेशव्यलीकमपैतु ते
किमपि मनसः संमोहो मे तदा बलवानभूत् |
प्रबलतमसामेवंप्रायाः शुभेषु हि वृत्तयः
स्रजमपि शिरस्यन्धः क्षिप्तां धुनोत्यहिशङ्कया||२४||
शकुंतला – – उत्तिष्ठत्वार्यपुत्रः | नूनं मे सुचरितप्रतिबन्धकं
पुराकृतं तेषु दिवसेषु परिणामाभिमुखमासीद्येन
सानुक्रोशोऽप्यार्यपुत्रो मयि विरसः संवृत्तः |
( राजोत्तिष्ठति )
शकुंतला – – अथ कथमार्यपुत्रेण स्मृतो दुःखभाग्ययं जनः |
राजाः – – उद्धृतविषादशल्यः कथयिष्यामि |
मोहान्मया सुतनु पूर्वमुपेक्षितस्ते
यो बद्धबिन्दुरधरं परिबाधमानः |
तं तावदाकुटिलपक्ष्मविलग्नमद्य
बाष्पं प्रमृज्य विगतानुशयो भवेयम्||२५||
( इति यथोक्तमनुतिष्ठति )
शकुंतला – – ( नाममुद्रां दृष्ट्वा )
आर्यपुत्र इदं तदङ्गुलीयकम् |
राजाः – – अस्मादङ्गुलीयोपलम्भात्खलु स्मृतिरुपलब्धा |
शकुंतला – – विषमं कृतमनेन यत्तदाऽऽर्यपुत्रस्य प्रत्ययकाले
दुर्लभमासीत् |
राजाः – – तेन हि ऋतुसमवायचिह्नं प्रतिपद्यतां लता कुसुमम् |
शकुंतला – – नास्य विश्वसिमि | आर्यपुत्र एवैतद्धारयतु |
( ततः प्रविशति मातलिः )
मातलिः – – दिष्ट्या धर्मपत्नीसमागमेन पुत्रमुखदर्शनेन
चायुष्मान्वर्धते |
राजाः – – अभूत्संपादितस्वादुफलो मे मनोरथः | मातले न खलु
विदितोऽयमाखण्डलेन वृत्तान्तः स्यात् |
मातलिः – – ( सस्मितम् )
किमीश्वराणां परोक्षम् | एत्वायुष्मान् | भगवान्मारीचस्ते दर्शनं
वितरति |
राजाः – – शकुन्तले अवलम्ब्यतां पुत्रः | त्वां पुरस्कृत्य भगवन्तं
द्रष्टुमिच्छामि |
शकुंतला – – जिह्रेम्यार्यपुत्रेण सह गुरुसमीपं गन्तुम् |
राजाः – – अप्याचरितव्यमभ्युदयकालेषु | एह्येहि |
( सर्वे परिक्रामन्ति )
( ततः प्रविशत्यदित्या सार्धमासनस्थो मारीचः )
मारीचः – – ( राजानमवलोक्य )
दाक्षायणि |
पुत्रस्य ते रणशिरस्ययमग्रयायी
दुष्यन्त इत्यभिहितो भुवनस्य भर्ता |
चापेन यस्य विनिवर्तितकर्म जातं
तत्कोटिमत्कुलिशमाभरणं मघोनः||२६||
अदितिः – – संभावनीयानुभावाऽस्याकृतिः |
मातलिः – – आयुष्मन् एतौ पुत्रप्रीतिपिशुनेन चक्षुषा दिवौकसां
पितरावायुष्मन्तमवलोकयतः | तावुपसर्प |
राजाः – – मातले |
प्राहुर्द्वादशधा स्थितस्य मुनयो यत्तेजसः कारणं
भर्तारं भुवनत्रयस्य सुषुवे यद्यज्ञभागेश्वरम् |
यस्मिन्नात्मभवः परोऽपि पुरुषश्चक्रे भवायास्पदं
द्वन्द्वं दक्षमरीचिसंभवमिदं तत्स्रष्टुरेकान्तरम्||२७||
मातलिः – – अथ किम् |
राजाः – – ( उपगम्य )
उभाभ्यामपि वासवनियोज्यो दुष्यन्तः प्रणमति |
मारीच – – वत्स चिरं जीव | पृथिवीं पालय |
अदितिः – – वत्स अप्रतिरथो भव |
शकुंतला – – दारकसहिता वां पादवदनं करोमि |
मारीचः – – वत्से |
आखण्डलसमो भर्ता जयन्तप्रतिमः सुतः |
आशीरन्या न ते योग्या पौलोमीसदृशी भव||२८||
अदितिः – – जाते भर्तुर्बहुमता भव | अयं च दीर्घायुर्वत्सक
उभयकुलनन्दनो भवतु | उपविशत |
( सर्वे प्रजापतिमभित उपविशन्ति )
मारीचः – – ( एकैकं निर्दिंशन् )
दिष्ट्या शकुंतला साध्वी सदपत्यमिदं भवान् |
श्रद्धा वित्तं विधिश्चेति त्रितयं तत्समागतम्||२९||
राजाः – – भगवन् | प्रागभिप्रेतसिद्धिः | पश्चाद्दर्शनम् |
अतोऽपूर्वः खलु वोऽनुग्रहः | कुतः |
उदेति पूर्वं कुसुमं ततः फलं घनोदयः प्राक्तदनन्तरं पयः |
निमित्तनैमित्तिकयोरयं क्रमस्तव प्रसादस्य पुरस्तु संपदः||३०||
मातलिः – – एवं विधातारः प्रसीदन्ति |
राजाः – – भगवन् इमामाज्ञाकरीं वो गान्धर्वेण विवाहविधिनोपयम्य
कस्यचित्कालस्य बन्धुभिरानीतां
स्मृतिशैथिल्यात्प्रत्यादिशन्नपराद्धोऽस्मि तत्रभवतो
युष्मत्सगोत्रस्य कण्वस्य | पश्चादङ्गुलीयकदर्शनादूढपूर्वां
तद्दुहितरमवगतोऽहम् | तच्चित्रमिव मे प्रतिभाति |
यथा गजो नेति समक्षरूपे तस्मिन्नपक्रामति संशयः स्यात् |
पदानि दृष्ट्वा तु भवेत्प्रतीतिस्तथाविधो मे मनसो विकारः||३१||
मारीचः – – वत्स अलमात्मापराधशङ्कया | संमोहोऽपि
त्वय्यनुपपन्नः | श्रूयताम् |
राजाः – – अवहितोऽस्मि |
मारीचः – – यदैवाप्सरस्तीर्थावतरणात्प्रत्यक्षवैक्लव्यां
शकुंतलामादाय मेनका दाक्षायणीमुपगता तदैव
ध्यानादवगतोऽस्मि दुर्वाससः शापादियं तपस्विनी
सहधर्मचारिणीत्वया प्रत्यादिष्टा नान्यथेति | स
चायमङ्गुलीयकदर्शनावसानः |
राजाः – – ( सोच्छ्वासम् )
एष वचनीयान्मुक्तोऽस्मि |
शकुंतला – – ( स्वगतम् )
दिष्ट्याऽकारणप्रत्यादेशी नार्यपुत्रः | न पुनः शप्तमात्मानं
स्मरामि | अथ वा प्राप्तो मया स हि शापो विरहशून्यहृदयया न
विदितः | अतः सखीभ्यां संदिष्टास्मि भर्तुरङ्गुलीयकं
दर्शयितव्यमिति |
मारीचः – – वत्से चरितार्थासि | तदिदानीं सहधर्मचारिणं प्रति
न त्वया मन्युः कार्यः | पश्य |
शापादसि प्रतिहता स्मृतिरोधरूक्षे
भर्तर्यपेततमसि प्रभुता तवैव |
छाया न मूर्छति मलोपहतप्रसादे
शुद्धे तु दर्पणतले सुलभावकाशा||३२||
राजाः – – यथाह भगवान् |
मारीचः – – वत्स कच्चिदभिनन्दितस्त्वया
विधिवदस्माभिरनुष्ठितजातकर्मा पुत्र एष शाकुन्तलेयः |
राजाः – – भगवन् अत्र खलु मे वंशप्रतिष्ठा |
( इति बालं हस्तेन गृह्णाति )
मारीचः – – तथाभाविनमेनं चक्रवर्तिनमवगच्छतु भवान् |
पश्य |
रथेनानुद्धातस्तिमितगतिना तीर्णजलधिः
पुरा सप्तद्वीपां जयति वसुधामप्रतिरथः |
इहायं सत्त्वानां प्रसभदमनात्सर्वदमनः
पुनर्यास्यत्याख्यां भरत इति लोकस्य भरणात्||३३||
राजाः – – भगवता कृतसंस्कारे सर्वमस्मिन्वयमाशास्महे |
अदितिः – – भगवन् अस्या दुहितृमनोरथसंपत्तेः कण्वोऽपि
तावत्च्छ्रुतविस्तारः क्रियताम् | दुहितृवत्सला मेनकेहैवोपचरन्ती
तिष्ठति |
शकुंतला – – ( आत्मगतम् )
मनोरथः खलु मे भणितो भगवत्या |
मारीचः – – तपःप्रभवात्प्रत्यक्षं सर्वमेव तत्रभवतः |
राजाः – – अतः खलु मम नातिक्रुद्धो मुनिः |
मारीचः – – तथाप्यसौ प्रियमस्माभिः प्रष्टव्यः | कः कोऽत्र भोः |
( प्रविश्य )
शिष्यः – – भगवन् अयमस्मि |
मारीचः – – गालव इदानीमेव विहायसा गत्वा मम
वचनात्तत्रभवते कण्वाय प्रियमावेदय यथा पुत्रवती शकुंतला
तच्छापनिवृत्तौ स्मृतिमता दुष्यन्तेन प्रतिगृहीतेति |
शिष्यः – – यदाज्ञापयति भगवान् |
( इति निष्क्रान्तः )
मारीचः – – वत्स त्वमपि स्वापत्यदारसहितः सख्युराखण्डलस्य
रथमारुह्य ते राजधानीं प्रतिष्ठस्व |
राजाः – – यदाज्ञापयति भगवान् |
मारीचः – – अपि च |
तव भवतु बिडौजाः प्राज्यवृष्टिः प्रजासु
त्वमपि विततयज्ञो वज्रिणं प्रीणयस्व |
युगशतपरिवर्तानेवमन्योन्यकृत्यैर्नयतमु-
भयलोकानुग्रहश्लाघनीयैः||३४||
राजाः – – भगवन् यथाशक्ति श्रेयसे यतिष्ये |
मारीचः – – वत्स किं ते भूयः प्रियमुपकरोमि |
राजाः – – अतः परमपि प्रियमस्ति | यदीह भगवान्प्रियं कर्तुमिच्छति
तर्हीदमस्तु |
( भरतवाक्यम् )
प्रवर्ततां प्रकृतिहिताय पार्थिवः
सरस्वती श्रुतमहतां महीयताम् |
ममापि च क्षपयतु नीललोहितः
पुनर्भवं परिगतशक्तिरात्मभूः||३५||
( निष्क्रान्ताः सर्वे )
( इति सप्तमोऽङ्कः | )
समाप्तमिदमभिज्ञानशकुंतलं नाम नाटकम् |
The AbhijnAnazAkuntalam of KAlidAsa
- by M.R. Kale
Bombay 1898 (ninth ed. 1961)
Input by Muneo Tokunaga
Input finished on July 26N 1999.
From Kyoto University’s Sanskrit ftp archives at ftp://ccftp.kyoto-su.ac.jp/pub/doc/sanskrit/
The text is proofread by Shrirang Nene [email protected]