ऋग्वेद: सूक्तं १.१
मधुच्छन्दाः वैश्वामित्रः ऋषिः । गायत्रीच्छन्द्रः । अग्निर्देवता ॥
ॐ अग्निमीळे पुरोहितं यज्ञस्य देवमृत्विजम् ।
होतारं रत्नधातमम् ॥
अग्निः पूर्वेभिरृषिभिरीड्यो नूतनैरुत ।
स देवाँ एह वक्षति ॥
अग्निना रयिमश्नवत् पोषमेव दिवे-दिवे ।
यशसं वीरवत्तमम् ॥
अग्ने यं यज्ञमध्वरं विश्वतः परिभूरसि ।
स इद्देवेषु गछति ॥
अग्निर्होता कविक्रतुः सत्यश्चित्रश्रवस्तमः ।
देवो देवेभिरा गमत् ॥
यदङग दाशुषे तवमग्ने भद्रं करिष्यसि ।
तवेत् तत् सत्यमङगिरः ॥
उप तवाग्ने दिवे-दिवे दोषावस्तर्धिया वयम् ।
नमो भरन्त एमसि ॥
राजन्तमध्वराणां गोपां रतस्य दीदिविम् ।
वर्धमानं स्वे दमे ॥
स नः पितेव सूनवेऽग्ने सूपायनो भव ।
सचस्वा नः सवस्तये ॥