ऋग्वेद: सूक्तं १.३
अश्विना यज्वरीरिषो दरवत्पाणी शुभस पती ।
पुरुभुजाचनस्यतम ॥
अश्विना पुरुदंससा नरा शवीरया धिया ।
धिष्ण्या वनतं गिरः ॥
दस्रा युवाकवः सुता नासत्या वर्क्तबर्हिषः ।
आ यातंरुद्रवर्तनी ॥
इन्द्रा याहि चित्रभानो सुता इमे तवायवः ।
अण्वीभिस्तना पूतासः ॥
इन्द्रा याहि धियेषितो विप्रजूतः सुतावतः ।
उप बरह्माणि वाघतः ॥
इन्द्रा याहि तूतुजान उप बरह्माणि हरिवः ।
सुते दधिष्वनश्चनः ॥
ओमासश्चर्षणीध्र्तो विश्वे देवास आ गत ।
दाश्वांसो दाशुषः सुतम ॥
विश्वे देवासो अप्तुरः सुतमा गन्त तूर्णयः ।
उस्रा इवस्वसराणि ॥
विश्वे देवासो अस्रिध एहिमायासो अद्रुहः ।
मेधं जुषन्त वह्नयः ॥
पावका नः सरस्वती वाजेभिर्वाजिनीवती ।
यज्ञं वष्टु धियावसुः ॥
चोदयित्री सून्र्तानां चेतन्ती सुमतीनाम ।
यज्ञं दधे सरस्वती ॥
महो अर्णः सरस्वती पर चेतयति केतुना ।
धियो विश्वा वि राजति ॥