ऋग्वेद: सूक्तं १.६
युञ्जन्ति बरध्नमरुषं चरन्तं परि तस्थुषः ।
रोचन्तेरोचना दिवि ॥
युञ्जन्त्यस्य काम्या हरी विपक्षसा रथे ।
शोणा धर्ष्णू नर्वाहसा ॥
केतुं कर्ण्वन्नकेतवे पेशो मर्या अपेशसे ।
समुषद्भिरजायथाः ॥
आदह सवधामनु पुनर्गर्भत्वमेरिरे ।
दधाना नामयज्ञियम ॥
वीळु चिदारुजत्नुभिर्गुहा चिदिन्द्र वह्निभिः ।
अविन्द उस्रिया अनु ॥
देवयन्तो यथा मतिमछा विदद्वसुं गिरः ।
महामनूषत शरुतम ॥
इन्द्रेण सं हि दर्क्षसे संजग्मानो अबिभ्युषा ।
मन्दू समानवर्चसा ॥
अनवद्यैरभिद्युभिर्मखः सहस्वदर्चति ।
गणैरिन्द्रस्य काम्यैः ॥
अतः परिज्मन्ना गहि दिवो वा रोचनादधि ।
समस्मिन्न्र्ञ्जते गिरः ॥
इतो वा सातिमीमहे दिवो वा पार्थिवादधि ।
इन्द्रं महोवा रजसः ॥