आध्यय १७
सप्तदशो ऽध्यायः १७
देशकालविभागः तत्र देशविभागः देशं कालं च विभजमानः कविर्नार्थदर्शनदिशि दरिद्राति |
जगज्जगदेकदेशाश्च देशः |
“द्यावापृथिव्यात्मकमेकं जगत्” इत्येके |
तदाहु- “हलमगु बलस्यैको ऽनड्वान्हरस्य न लाङ्गलं क्रमपरिमिता भूमिर्विष्णोर्न गौर्न च लाङ्गलम् |
प्रवहति कृषिर्नाद्याप्येषां द्वितीयगवं विना जगति सकले नेदृग्दृष्टं दरिद्रकुटुम्बकम्” ||
“दिवस्पृथिव्यौ द्वे जगती” इत्यपरे |
तदाहुः- “रुणद्धि रोदसी वास्य यावत्कीर्त्तिरनश्वरी |
तावत्किलायमध्यास्ते सुकृती वैबुधं पदम्” ||
“स्वर्गमर्त्यपातालभेदात्त्रीणि जगन्ति” इत्येके |
तदाहुः- “त्वमेव देव पातालमाशानां त्वं निबन्धनम् |
त्वं चामरमरुद्भूमिरेको लोकत्रयायसे” ||
“तान्येव भूर्भ्रुवःस्वः”इत्यन्ये |
तदाहुः- “नमस्त्रिभुवनाभोगभृतिखेदभरादिव |
नागनाथाङ्गपर्यङ्कशायिने शार्ङ्गधन्वने” ||
“महर्जनस्तपःसत्यमित्येतैः सह सत्प” इत्यपरे |
तदाहुः- “संस्तम्भिनी पृथुनितम्बतटैर्धरित्र्याः संवाहिनी जलमुचां चलकेतुहस्तैः |
हर्षस्य सत्पभुवनप्रथितोरुकीर्त्तेः प्रासादपड्क्तिरियमुच्छिखरा विभाति” ||
“तानि सत्पभिर्वायुस्कन्धैः सह चतुर्दश” इति केचित् |
तदाहुः- “निरवधि च निराश्रयं च यस्य स्थितमनुवर्त्तितकौतुकप्रपञ्चम् |
प्रथम इह भवान्स कूर्ममूर्त्तिर्जयति चतुर्द्दशलोकवल्लिकन्दः” ||
“तानि सत्पभिः पातालैः सहैकविंशतिः” इति केचित् |
तदाहुः- “हरहासहरावासहरहारनिभप्रभाः |
कीर्त्तयस्तव लिम्पन्तु भुवनान्येकर्विंशतिम्” ||
“सर्वमुपपन्नम्” इति यायावरीयः |
अविशेषविवक्षा यदेकयति, विशेषविवक्षात्वनेकयति |
तेषु भूर्लोकः पृथिवी |
तत्र सत्प महाद्वीपाः |
“जम्बूद्वीपः सर्वमध्ये ततश्च प्लक्षो नाम्ना शाल्मलो ऽतः कुशो ऽतः |
क्रौञ्चः शाकः पुष्करश्चेत्यथैषां बाह्या बाह्या संस्थितिर्मण्डलीभिः” ||
“लावणो रसमयः सुरोदकः सार्पिषो दधिजलः पयः पयाः |
स्वादुवारिरुदधिश्च सत्पमस्तान्परीत्य त इमे व्यवस्थिताः” ||
“एक एवायं लावणः समुद्रः” इत्येके |
तदाहुः- “द्वीपान्यष्टादशात्र क्षितिरपि नवभिर्विस्तृता स्वाङ्गखण्डैर् रेकोम्भोधिर्दिगन्तप्रविसृतसलिलः प्राज्यमेतत्सुराज्यम् |
कस्मिन्नप्याजिकेलिव्यतिकरविजयोपार्जिते वीरवीर्ये पर्यात्पं मे न दातुं तदिदमिति धिया वेधसे यश्चुकोप” ||
“त्रयः” इत्यन्ये |
तदाहुः- “आकम्पितक्षितिभृता महता निकामं हेलाभिभूतजलधित्रितयेन यस्य |
वीर्येण संहतिभिदा विहतोन्तेन कल्पान्तकालविसृतः पवनो ऽनुचक्रे” ||
यथा वा- “माताङ्गानामभावे मदमलिनमुखैः प्रात्पमाशाकरीन्द्रैः जाते रन्तापहारे दिशि दिशि ततयो भान्ति चिन्तामणीनाम् |
छिन्नेषूद्यानवापीतरुषु विरचिताः कल्पवृक्षा रिपूणां यस्योदञ्चत्त्रिवेलावलयफलभुजां मानसी सिद्धिरासीत्” ||
“चत्वारः” इत्यपरे |
तदाहुः- “चतुः समुद्रवेलोर्मिरचितैकावलीलतम् |
मेरुमप्यद्रिम्रुल्लङ्घ्य यस्य क्वापि गतं यशः” ||
“भिन्नाभिप्रायतयया सर्वमुपपन्नम्” इति यायवरीयः |
सत्पसम्रुद्रीवादिनस्तु शास्त्रादनपेता एव |
तदाहुः- “आगस्त्यचुलुकोच्छिष्टसत्पवारिधिवारिणि |
म्रुहूर्त्तं केशवेनापि तरता पूतरायितम्” ||
मध्येजम्बूद्वीपमाद्यो गिरीणां मेरुर्नाम्ना काञ्चनः शैलराजः |
यो मूर्त्तानामौषधीनां निधानं यश्वावासः सर्ववृन्दारकाणाम् ||
“तमेनमवधीकृत्य देवेनाम्बुजजन्मना |
तिर्यगूर्ध्वमधस्ताञ्च विश्वस्य रचना कृता” ||
स भगवान्मेरुराद्यो वर्षपर्वतः |
तस्य चतुर्दिशमिलावृतं वर्षम् |
तस्योत्तरेण त्रयो वर्षगिरयः, नीलः श्वेतः शृङ्गवांश्च |
रम्यकं, हिरण्ययम्, उत्तराः कुरव इति च क्रमेण त्रीणि तेषां वर्षाणि |
दक्षिणेनापि त्रय एव निषधो हेमकूटो हिमवांश्च |
हरिवर्षं, किंपुरुषं, भारतमिति च त्रीणि वर्षाणि |
तत्रेदं भारतं वर्षमस्य च नव भेदाः |
इन्द्रद्वीपः, कसेरुमान्, ताम्रपर्णो, गभस्तिमान्, नागद्वीपः, सौम्यो, गन्धर्वों, वरुणः, कुमारीद्वीपश्चायं नवमः |
पञ्चशतानि जलं, पञ्च स्थलमिति विभागेन प्रत्येकं योजनसहस्रावधयो दक्षिणात्समुद्रादद्रिराजं हिमवन्तं यावत्परस्परमगम्यास्ते |
तान्येतानि यो जयति स सभ्राडित्युच्यते |
कुमारीपुरात्प्रभृति बिन्दुसरो ऽवधि योजनानां दशशती चक्रवर्त्तिक्षेत्रम् |
तां विजयमानश्चक्रवर्त्ती भवति |
चक्रवर्त्तिचिह्नानि तु- “चक्रं रथो मणिर्भार्या निधिरश्वो गजस्तथा |
प्रोक्तानि सत्प रत्नानि सर्वेषां चक्रवर्त्तिनाम्” ||
अत्र च कुमारीद्वीपे- “विन्ध्यश्च पारियात्रश्च शुक्तिमानृक्षपर्वतः |
महेन्द्रसह्यमलयाः सत्पैते कुलपर्वताः” ||
तत्र विन्ध्यादयः प्रतीतस्वरुपाः, मलयविशेषास्तु चत्वारः |
तेषु प्रथमः- “आ मूलयष्टेः फणिवेष्टितानां सच्च्न्दनानां जननन्दनानाम् |
कक्कोलकैलामरिचैर्युतानां जातीतरुणां च स जन्मभूमिः” ||
द्वितीयः- “यस्योत्तमां मौक्तिककामधेनुरुपत्यकामर्चिति ताम्रपर्णी |
रत्नेश्वरो रत्नमहानिधानं कुम्भोद्भवस्तं मलयं पुनाति ||
तत्र द्रुमा विद्रुमनामधेया वंशेषि मुक्ताफलजन्म तत्र |
मदोत्कटैः केसरिकण्ठनादैः स्फुटन्ति तस्मिन्धनसारवृक्षाः” ||
तृतीयः- “विलासभूमिः सकलामराणां पदं नृणां गौर्मुनिपुङ्गवस्य |
सदाफलैः पुष्पलताप्रवालैराश्चर्यमूलं मलयः स तत्र” ||
चतुर्थः- “सा तत्र चामीकररत्नचित्रैः प्रासादमालावलभीविटङ्कैः |
द्वारार्गलाबद्धसुरेश्वराङ्का लङ्केति या रावणराजधानी ||
प्रवर्त्तते कोकिलनादहेतुः पुष्पप्रसूः पञ्चमजन्मदायी तेभ्यश्चतुर्भ्यो ऽपि वसन्तमित्रमुदङ्मुखो दक्षिणमातरिश्वा” ||
पूर्वापरयोः समुद्रयोर्हिमवद्विन्ध्ययोश्वान्तरमार्यावर्त्तः |
तस्मिंश्चातुर्वर्ण्यं चातुराश्रम्यं च |
यन्मूलश्च सदाचारः |
तत्रत्यो व्यवहारः प्रायेण कवीनाम् |
तत्र वाराणस्याः पुरतः पूर्वदेशः |
यत्राङ्गकलिङ्गकोसलतोस(शष) लोत्कलमगधमुद्गरविदेहनेपालपुण्ड्र प्राग्ज्योतिषतामलित्पकमलदमल्लवर्त्तकसुह्यब्रह्योत्तरप्रभृतयो जनपदाः |
बृहद्गृहलोहितगिरिचकोरदर्दुरनेपालकामरुपादयः पर्वताः |
शोणलौहित्यौ नदौ |
गङ्गाकरतोयाकपिशाद्याश्च नद्यः |
लवलीग्रन्थिपर्णकागुरुद्राक्षाकस्तूरिकादीनामुत्पादः |
माहिष्मत्याः परतो दक्षिणापथः |
यत्र महाराष्ट्रमाहिषकाश्मकविदर्भकुन्तलक्रथकैशिकसूर्पारककाञ्चीकेरलकावेरमुरलवानवासकसिंहलचोडदण्ड कपाण्ड्यपल्लवगाङ्गनाशिक्यकौङ्कणकोल्ल (ल) गिरिवल्लरप्रभृतयो जनपदाः |
विन्ध्यदक्षिणपादमहेन्द्रमलयमेकलपालमञ्जरसह्यश्रीपर्वतादयः पर्वताः |
नर्मदातापीपयोष्णीगोदावरीकावेरीभैमरथीवेणाकृष्णवेणीवञ्जुरातुङ्गभद्राताम्रपर्ण्युत्पलावतीरावणगङ्गाद्या नद्यः |
तदुत्पत्तिर्मलयोत्पत्त्या व्याख्याता |
देवसभायाः परतः पश्चाद्देशः |
तत्र देबसभसुराष्ट्रदशेरकत्रवणभृगुकच्छकच्छीयानर्त्तर्बुदब्रबह्यणवाहयवनप्रभृतयो जनपदाः |
गोवर्धनगिरिनगरदेवसभमाल्यशिखरार्बुदादयाश्च पर्वताः |
सरस्वतीश्वभ्रवतीवार्तध्नीमहाहिडिम्बाद्या नद्यः |
करीरपीलुगुग्गुलुखर्जूरकरभादीनामुत्पादः |
पृथूदकात्परत उत्तरापथः |
यत्र शककेकयवोक्काणहूणवाणायुजकाम्बोजवालीकवलवलिम्पाककुलूतकीरतङ्गणतुषारतुरुष्कबर्बरहरहूरवहूहूकसहुड हंसमार्गरमठकरकण्ठप्रभृतयो जनपदाः |
हिमालयकलिन्द्रेन्द्रकीलचन्द्राचलादयः पर्वताः |
गङ्गासिन्धुसरस्वतीशतद्रुचन्द्रभागायमुनेरावतीवितस्ताविपाशाकुहूतेवि काद्या नद्यः |
सरलदेवदारुद्राक्षाकुङ्कुमचराजिनसौवीरस्रोतोज्जनसैन्धववैदूर्यतुरङ्गाणामुत्पादः |
तेषां मध्ये मध्यदेश इति कविव्यवहारः |
न चायं नानुगन्ता शास्त्रार्थस्य |
तदाहुः- “हिमवद्विन्ध्ययोर्मध्यं यत्प्राग्विनशनादपि |
प्रत्यगेव प्रयागाञ्च मध्यदेशः प्रकीर्त्तितः” ||
तत्र च ये देशाः पर्वताः सरितो द्रव्याणामुत्पादश्च तत्प्रसिद्धिसिद्धमिति न निर्दिष्टम् |
द्वीपान्तराणां ये देशाः पर्वताः सरितस्था |
नातिप्रयोज्याः कविभिरिति गाढं न चिन्तिताः ||
“विनशनप्रयागयोर्गङ्गायमुनयोश्चान्तरमन्तरर्वेदी |
तदपेक्षया दिशा विभजेत” इति आचार्याः |
“तत्रापि महोदयं मूलमवधीकृत्य” इति यायावरीयः |
“अनियतत्वाद्दिशा मनिश्चिचो दिग्विभाग” इत्येके |
तथा हि यो वामनस्वामिनः पूर्वः स ब्रह्मशिलायाः पश्चिमः, यो गाधिपुरस्य दक्षिणः स कालप्रियस्योत्तर इति |
“अवधिनिबन्धनमिदं रुपमितरत्त्वनियतमेव” इति यायावरीयः |
“प्राच्यपाचीप्रतीच्युदीच्यः चतस्रो दिशः” इत्येके |
तदाहुः- “चतसृष्वपि दिक्षु रणे द्विषतः प्रति येन चित्रचरितेन |
विहितमपूर्वमदक्षिणमपश्चिममनुत्तरं कर्म” ||
“ऐन्द्री, आग्नेयी, याम्या, नेरृती, वारुणी, वायव्या कौबेरी, ऐशानी चाष्टौद्दिशः” इत्येके |
तदाहुः- “एकं ज्योतिर्द्दशौ द्वे त्रिजगति गदितान्यब्जजास्यैश्चतुर्भिर् भूतानां पञ्चमं यान्यलमृतुषु तथा षट्सु नानाविधानि |
युष्माकं तानि सत्पत्रिदशमुनिनुतान्यष्टदिग्भाञ्जि भानोर् यान्ति प्राह्ने नवत्वं दश दधतु शिवं दीधितानां शतानि” ||
“ब्राह्मी नागीया च द्वे ताभ्यां सह दशैताः” इत्यपरे |
तदाहुः- “दशदिक्तटपर्यन्तसीमसङ्कटभूमिके |
विषमा स्थूललक्ष्यस्य ब्रह्याण्डग्रामके स्थितिः” ||
सर्वमस्तु, विवक्षापरतन्त्रा हि दिशामियत्ता |
तत्र चित्रास्वात्यन्तरे प्राची, तदनुसारेण प्रतीची, घ्रुवेणोदीची, तदनुसारेणापाची |
अन्तरेषु विदिशः, ऊर्ध्वं ब्राह्मी, अधश्तान्नागीयेति |
द्विविधो व्यवहारः कवीनां प्राक्सिद्धो विशिष्टस्थानावधिसाध्यश्च |
तत्र प्राक्सिद्धे प्राची- “द्वित्रैर्व्योन्मि पुराणमौक्तिकमणिच्छेयैः स्थितं तारकैर् ज्योत्स्नापानभरालसेन वपुषा सुत्पाश्चकोराङ्गनाः |
यातो ऽस्ताचलचूलमुदूसमधुच्छत्रच्छविश्चन्द्रमाः प्राची बालबिडाललोचनरुचां जाता च पात्रं ककुप्” ||
दक्षिणा- “दक्षिणो दक्षिणामाशां यियासुः सो ऽधिकं बभौ |
जिहासुर्दक्षिणामशां भगवानिव भास्करः” ||
पश्चिमा- “पश्य पश्चिमदिगन्तलम्बिना निर्मितं मितकथे विवस्वता |
दीर्घया प्रतिमया सरोभ्भसस्तापनीयमिव सेतुबन्धनम्” ||
उत्तरा- “अस्त्युत्तरस्यां दिशि देवतात्मा हिमालयो नाम नगाधिराजः |
पूर्वापरौ तोयनिधी विगाह्य स्थितः पृथिव्या इव मानदण्डः” ||
विशिष्टस्थानावधौ तु दिग्विभागे पूर्वपश्चिमौ यथा- “यादांसि हे चरत संगतगोत्रतन्त्रं पूर्वेण चन्दनगिरेरुत पश्चिमेन |
नो चेन्निरन्तरधराधरसेतुसूतिर् आकल्पमेष न विरंस्यति वो वियोगः” ||
दक्षिणोत्तरौ यथा- “काञ्च्याः पुरो दक्षिणदिग्विभागे तथोत्तरस्यां दिशि वारिराशेः |
कर्णान्तचक्रीकृतचारुचापो रत्या समं साधु वसत्यनङ्गः” ||
उत्तरादावप्युत्तरदिगभिधानं, अनुत्तरादावपि उत्तरदिगभिधानम् |
तयोः प्रथमम् – “तत्रागारं धनपतिगृहानुत्तरेणास्मदीयं दूराल्लक्ष्यं सुरपतिधनुश्चारुणा तोरणेन |
यस्योद्याने कृतकतनयः कान्तया वर्द्धितो मे हस्तप्राप्यः स्तबकविनतो बालमन्दारवृक्षः” ||
द्वितीयम् – “सह्याद्रेरुत्तरे भागे यत्र गोदावरी नदी |
पृथिव्यामिह कृत्स्नायां स प्रदेशो मनोरमः” ||
एवं दिगन्तरेष्वपि |
तत्र देशपर्वतनद्यादीनां दिशां च यः क्रमस्तं तथैव निबध्नीयात् |
साधारणां तूभयत्र लोकप्रसिद्धितश्च |
तदूद्वर्णनियमः |
तत्र पौरस्त्यानां श्यामो वर्णाः, दाक्षिणात्यानां कृष्णः, पाश्चात्यानां पाण्डु, उदीच्यानां गौरः, मध्यदेश्यानां कृष्णः श्यामो गौरश्च |
पौरस्त्यश्यामता- “श्यामेष्वङ्गेषु गौहीनां सूत्रहारैकहारिषु |
चक्रीकृत्य धनुः पौष्पमनङ्गो वल्गु वल्गति” ||
दाक्षिणात्यकृष्णता- “इदं भासां भर्त्तुद्रुतकनकगोलप्रतिकृति क्रमान्मन्दज्योतिर्गलति नभसो बिम्बवलयम् |
अथैष प्राचीनः सरति मुरलीगण्डमलिनस् तरुच्छायाचक्रैः स्तबकित इव ध्वान्तविसरः ||
” पाश्चात्यपाण्डुता- “शाखास्मेरं मधुकवलनाकेलिलोलेक्षणानां भृङ्गस्त्रीणां बकुलमुकुलं कुन्तलीभावमेति |
किं चेदानीं यवनतरुणीपाण्डुगण्डस्थलीभ्यः कान्तिः स्तोकं रचयति पदं नागवल्लीच्छदेषु ||
” उदीच्यगौरता- “पुष्पैः सम्प्रति कञ्चनारतरवः प्रत्यङ्गमालिङ्गिताः वा लीकीदशनव्रणारुणतरैः पत्रैरशोको ऽर्चितः |
जातं चम्पकमप्युदीच्यललनालावण्यचौर्यक्षमं माञ्जिष्ठैर्मुकुलैश्च पाटलतरोरन्यैव काचिल्लिपिः” ||
यथा वा- “काश्मीरीगात्रेखासु लोलल्लावण्यवीचिषु |
द्रावयित्वेव विन्यस्तं स्वर्णं षोडशवर्णकम्” ||
मध्यदेश्यकृष्णता यथा- “युधिष्ठिरक्रोधवह्नेः कुरुवंशैकदाहिनः |
पाञ्चालीं ददृशुः सर्वे कृष्णां धूमशिखामिव” ||
तद्न्मध्यदेश्यश्यामता |
न च कविमार्गे श्यामकृष्णयोः पाण्डुगौरयोर्वा महान्विशेष इति कविसमयेष्ववोचाम |
मध्यदेश्यगौरता- “तव नवनवनीतपिण्डगौरे प्रतिफलदुत्तरकोसलेन्द्रपुत्र्याः |
अवगतमलिके मृगाङ्कबिम्बं मृगमदपत्रनिभेन लाञ्छनेन” ||
विशेषस्तु पूर्वदेशे राजपुत्र्यादीना गौरः पाण्डुर्वा वर्णः |
एवं दक्षिणदेशे ऽपि |
तत्र प्रथमः – “कपोले जानक्याः करिकलभदन्तद्युतिमुषु स्मरस्मेरस्फारोड्मरपुलके वक्त्रकमलम् |
मुहुः पश्यञ्छृण्वन्रजनिचरसेनाकलकलं जटाजूटग्रन्थिं द्रढयति रघूणां परिवृढः” ||
द्वितीयः- “तासां माधवपत्नीनां सर्वासां चन्द्रवर्चसाम् |
शब्दविद्येव विद्यानां मध्ये जज्वाल रुक्मिणी” ||
एवमन्यदपि यथासम्भवमभ्यूह्यम्- निगदितनयविपरीतं देशविरुद्धं वदन्ति विद्वांसः |
तत्परिहार्यं यत्नात्तदुदाहृतयस्तु दोषेषु ||
इत्थं देशविभागो म्रुद्रामात्रेण सूत्रितः सुधियाम् |
यस्तु जिगीषत्यधिकं पश्यतु मद्भुवनकोशमसौ ||
इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमे ऽधिकरणे देशविभागः सप्तदशो ऽध्यायः ||
|
आध्यय १८
अष्टादशो ऽध्यायः १८
कालविभागः कालः काष्टादिभेदभिन्नः |
काष्टा निमेषा दश पञ्च त्रिंशच्च काष्ठाः कथिताः कलेति |
त्रिंशत्कलश्चैव भवेन्मुहूर्त्तस्त्रिंशता रात्र्यहनी समेते ||
ते च चैत्रघाश्वयुजमासयोर्भवतः |
चैत्रात्परं प्रतिमासं मौहूर्त्तिकी दिवसवृद्धिः निशाहानिश्च त्रिमास्याः, ततः परं मौहूर्त्तिकी निशावृद्धिः दिवसहानिश्च |
आश्वयुजीत्परतः पुनरेतदेव विपरीतम् |
राशैतो राश्यन्तरसङ्क्रमणमुष्णभासो मासः, वर्षादि दक्षिणायनं, शिशिराद्युत्तरायणं, द्वययनः संवत्सर इति सौरं मानम् |
पञ्चदशाहोरात्रः पक्षः |
वर्द्धमानसोमः शुक्लो, वर्ध्दमानकृष्णिमा कृष्णा इति पित्र्यं मासमानम् |
अमुना च वेदोदितः कृत्स्नो ऽपि क्रियाकल्पः |
पित्र्यमेव व्यत्ययितपक्षं चान्द्रमसम् |
इदमार्यावर्त्तवासिनश्च कवयश्च मानमाश्रिताः |
एवं च द्वौ पक्षौ मासः |
द्वौ मासावृतुः |
षण्णामृतूनां परवर्त्तः संवत्सरः |
स च चैत्रादिरिति दैवज्ञाः, श्रावणादिरिति लोकयात्राविदः |
तत्र नभा नभस्यश्च वर्षाः, ईष ऊर्जश्च शरत्, सहः सहस्यश्च हेमन्तः, तपस्तस्यश्च शिशिरः, मधुर्माधवश्च वसन्तः, शुक्रः शुचिश्च ग्रीष्मः |
तत्र “वर्षासु पूर्वो वायुः” इति कवयः |
“पाश्चात्यः, पौरस्त्यस्तु प्रतिहन्ता” इत्याचार्याः |
तदाहुः- “पुरोवाता हता प्रावृट् पश्चाद्वाता हता शरत्” इति |
तदाहुः- “प्रावृष्यभ्भोभृताभ्भोदभरनिर्भरनिर्भरमम्बरम् |
कादम्बकुसुमामोदा वायवो वान्ति वारुणाः” ||
“वस्तुवृत्तरतन्त्रं, कविसमयः प्रमाणम्” इति यायावरीयः |
तदाहुः- “पौरस्त्यस्तोयदर्त्तोः पवन इव पतन्पावकस्येव धूमो विश्वस्येवादिसर्गः प्रणव इव परं पावनं वेदराशेः |
सन्ध्यानृत्तोत्सवोच्छोरिव मदनरिपोनन्दिनान्दीनिनादः सोरस्याग्रे सुखं वो वितरतु विनतानन्दनः स्यन्दनस्य” ||
शरद्यनियतदिक्को वायुर्यथा- “उषःसु ववुराकृष्णजहावश्यायशीकराः |
शोफालीकलिकाकोशकषायमोदिनो ऽनिलाः” ||
“हेमन्ते पाश्चात्यो वायुः”, इति एके |
“उदीच्य” इति अपरे |
“उभयमपि”इति यायावरीयः |
तयोः पाश्चात्य– “भञ्जन्मूर्जद्रुमालीस्तुहिनगिरितटेषूद्गतास्त्वक्करालाः रंवाभ्भःस्थूलवीचीचयचकितलञ्चातकान् व्याधुनानः |
पाश्वात्यो वाति वेगाद्द्रुततुहिनशिलाशीकरासारवर्षी मातङ्गक्षुण्णसान्द्रस्त्रुतसरलतरत्सारसारी समीरः” ||
उदीच्यः- “लभ्पाकीनां किरन्तश्चिकुरविरचनां रल्लकांल्लासयन्तः चुम्बन्तश्वन्द्रभागासलिलमविकलं भूर्जकाण्डैकचण्डः |
एते कस्तूरिकैणप्रणयसुरभयो वल्लभा बाह्लवीनां कौलूतीकेलिकाराः परिचयितहिमं वायवो वान्त्युदीच्याः” ||
शिशिरे ऽपि हेमन्तवदुदीच्यः पाश्चात्यो वा |
वसन्ते दक्षिणः |
तदुक्तम् – “धुन्वलङ्कावनालीर्मुहुरलकलता लासयन्केरलीनाम् आन्ध्रीधंमिल्लबन्धान्सपदि शिथिलयन्वेल्लयन्नागवल्लीः |
उद्दामं दाक्षिणात्यो मलितमलयजः सारिथिर्मीनकेतोः प्रात्पः सीमन्तिनीनां मधुसमयसुहृन्मानचौरः समीरः” ||
“उभयतदिक्को वायुर्ग्रीष्मे” इत्येके |
“नैऋर्तः ” इत्यपरे |
“उभयमपि” इति यायावरीयः |
तत्र प्रथमः- “वात्याचक्रकचुम्बिताम्बरभुवः स्थूला रजोदण्डकाः संग्रथ्नन्ति भविष्यदभ्रपटलस्थूणावितर्कं नभः |
किं चान्यन्मृगतृष्णिङ्काम्बुवसरैः पात्राणि वीतार्णसां सिन्धूनामिह सूत्रयन्ति दिवसेष्वागामिनीं सम्पदम्” ||
द्वितीयः- “सो ऽयं करैस्तपति वह्णिमयैरिवार्कः साङ्गारविस्तरविस्तरभरेव धरा समग्रा |
वायुः कुकूलमिव वर्षति नैऋर्तश्च कार्शानवैरिव शरैर्मदनश्च हन्ति” ||
किञ्च – गर्भान्बलाकासु निवेशयन्तो वंशाङ्कुरान्स्वैर्निनदैः सृजन्तः |
“रजो ऽम्बुदाः प्रावृषि मुद्रयन्तो यात्रोद्यमं भूमिभृतां हरन्ति” ||
स सल्लकीसालशिलीन्ध्रयूथीप्रसूनदः पुष्पितलाङ्गलीकः |
दग्धोर्वरासुन्दरगन्धबन्धुरर्घत्ययं वारिमुचामनेहा ||
वनानि नीलीदलमेचकानि धाराम्बुधौता गिरयः स्फुरन्ति |
पूराम्भसा भिन्नतटास्तटिन्यः सान्द्रेन्द्रगोपानि च शाद्वलानि ||
चकोरहर्षी यतिचारचौरो वियोगिनीवीक्षितनाथवर्त्मा |
गृहान्प्रति प्रस्थितपान्थसार्थः कालो ऽयमाध्मातनभाः पयोदैः ||
या केलियात्रा करिकामिनीभिर् यातुङ्गहर्म्याग्रविलासशय्या |
चतुःसमं (मो यो)यन्मृगनाभिगर्भर्ं(भः) सा वारिदर्त्तोः प्रथमातिथेयी ||
चलञ्चटुलचातकः कृतकुरङ्गरागोदयः सदर्दुररवोद्यमो मदभरप्रगल्भोरगः |
शिखण्डिकुलताण्डवामुदितमद्गुकङ्काह्वयो वियोगिषु घनागमः स्मरविषं विषं मुञ्चति ||
दलत्कुटजकुड्मलः स्फुटितनीपपुष्पोत्करो धवप्रसवबान्धवः प्रचितमञ्जरीकार्जुनः |
कदम्बकलुषाम्बरः कलितकेतकीकोरकश् चलन्निचुलसञ्चयो हरति हन्त धर्मात्ययः ||
वर्षाः ||
द्राग्गर्जयन्ती विमदान्मयूरान्प्रगल्भयन्ती कुररद्विरेफन् |
शरत्समभ्येति विकास्य पद्मानुन्मीलयन्ती कुमुदोत्पलानि ||
सा भाति पुष्पाणि निवेशयन्ती बन्धूकबाणासनकुङ्कुमेषु |
शेफालिकासत्पपलाशकाशमण्डीरसौगन्धिकमालतीषु ||
सखञ्जरीटा सपयः प्रसादा सा कस्य नो मानसमाच्छिनति |
कादम्बकारण्डवचक्रवाकससारसक्रौञ्चकुलानुयाता ||
उपानयन्ती कलहंसयूथमगस्त्यदृष्टया पुनती पयांसि |
मुक्तासु शुभ्रं दधती च गर्भं शरद्वचित्रैश्चरितैश्चकास्ति ||
क्षितिं खनन्तो वृषभाः खुराग्रै रोधो विषाणैर्द्विरदा रदन्तः |
शृङ्गं त्यजन्तो रुरवश्च जीर्णं कुर्वन्ति लोकानवलोकनोत्कान् ||
अत्रावदातद्युति चन्द्रिकाम्बुनीलावभासं च नभः समन्तात् |
सुरेभवीथी दिविसावतारो जीर्णाभ्रखण्डानि च पाण्डुराणि ||
महानवम्यां निखिलास्त्रपूजाः नीराजना वाजिभटद्विपानाम् |
दीपालिकायां विविधा विलासा यात्रोन्मुखैरत्र नृपैर्विधेयाः ||
व्योम्नि तारतरतारकोत्करः स्यन्दनप्रचरणक्षमा मही |
भास्करः शरदि दीप्रदीधितिर्बुध्यते च सह माधवः सुरैः ||
केदार एव कलमाः परिणामनभ्राः प्राचीनमामलकमर्धति पाकनीलम् |
एर्वारुकं स्फुटननिर्गतगर्भगन्धम् अम्लीभवन्ति च जरत्त्रपुसीफलानि ||
गेहाजिरेषु नवशालिकणावपात-गन्धानुभावसुभगेषु कृषीवलानाम् |
आनन्दयन्ति मुसलोल्लसनावधूत-पाणिस्खलद्वलयद्धतयो वधूट्यः ||
तीक्ष्णं रविस्तपति नीच इवाचिराढ्यः शृङ्गं रुरुस्त्यजति मित्रमिवाकृतज्ञः |
तोयं प्रसीदति मुनेरिव धर्मचिन्ता कामी दरिद्र इव शोषमुपौति पङ्कम् ||
नद्यो वहन्ति कुटिलक्रमयुक्तशुक्तिर् एखाङ्कवालपुलिनोदरसुत्पकूर्माः |
अस्यां तरङ्गितनुतोयपलायमान-मीनानुसारिबकदत्तकरालफलाः ||
अपङ्किलतटावटः शफरफाण्टफालोज्ज्वलः पतत्कुररकातरभ्रमददभ्रमीनार्भकः |
लुठत्कमठसैकतश्चलबकोटवाचाटितः सरित्सलिलसंचयः शरदि मेदुरः सीदति” ||
शरत् ||
द्वित्रिमुचुकुन्दकलिकस्त्रिचतुरमुकुलः क्रमेण लवलीषु |
पञ्चषफलिनीकुसुमो जयति हिमर्त्तुर्नवावतरः ||
पुन्नागरोध्रप्रसवावतंसा वामभ्रुवः कञ्चुककुञ्चिताङ्ग्यः |
वक्रोल्लसत्कुङ्कुमसिक्थकाङ्काः सुगन्धतैलाः कवरीर्वहन्ति ||
यथा यथा पुष्पति शीतकालस्तुषारचूर्णोत्करकीर्णवातः |
तथा तथा यौवनशालिनीनां कवोष्णतामत्र कुचा लभन्ते ||
वराहवर्धाणि नवौदनानि दधीनि सन्नद्धशराणि चात्र |
सुकोमलाः सर्षपकन्दलीश्च भुक्त्वा जनो निन्दति वैद्यविद्याम् ||
अत्रोपचारः सलिलैः कवोष्णैर्यत्किञ्चिदत्र स्वदते ऽन्नपानम् |
सुदुर्भगामत्र निपीड्य शेते स्वस्त्यस्तु नित्यं तुहिनर्त्तवे ऽस्मै ||
विमुक्तबर्हा विमदा मयूराः प्ररुढगोधूमयवा च सीमा |
व्याघ्रीप्रसूतिः सलिलं सबाष्पं हेमन्तलिङ्गानि जयन्त्यमूनि ||
सशमीधान्यपाकानि क्षेत्राण्यत्र जयन्ति च |
त्रिशङ्कुतिलका रात्र्यः पच्चन्ते लवणानि च ||
उद्यानानां मूकपुंस्कोकिलत्वं भृङ्गस्त्रीणां मौनमुद्रा मुखेषु |
मन्दोद्योगा पत्रिणां व्योमयात्रा हेमन्ते स्यात्सर्पदर्पक्षयश्च ||
कर्कन्धूनां नागरङ्गीफलानां पाकोद्रेकः खाण्डवोप्याविरस्ति |
कृष्णेक्षूणां पुण्ड्रकाणां च गर्भे माधुर्यश्रीर्जायते काप्यपूर्वा ||
येषां मध्येमन्दिरं तल्पसम्पत् पार्श्वे दाराः स्फारतारुण्यताराः |
लीलावह्निर्निह्नुतोद्दामधूमस्ते हेमन्तं ग्रीष्मशेषं विदन्ति” ||
इति हेमन्तः |
हेमन्तधर्मः शिशिरः, विशेषस्तु |
“रात्रिर्विचिघत्रसुरतोचितयामदैर्ध्या चाण्डो मरुदूहति कुङ्कुमपङ्कसाघ्यः |
तल्पस्थितिर्द्विगुणतूलपटा किमन्यद् अर्घन्ति चात्र विततागुरुधूपधूमाः |
ब” आश्लेषिणा पृथुरतक्लमपीतशीतम् आयामिनीं घनमुदो रजनीं युवानः |
ऊर्वोर्मुहुर्वलनबन्धनसंधिलोल-पादान्तसंवलिततूलपटाः स्वपन्ति ||
पाने ऽम्भसोः सुरसनीरसयोर्न भाति स्पर्शक्रियासु तुहिनानलयोर्न चात्र |
नो दुर्भगासुभगयोः परिरम्भणे च नो सेवने च शशिभास्करयोर्विशेषः ||
पुष्पक्रिया मरुबके जलकेलिनिन्दा कुन्दान्यशेषकुसुमेषु धुरि स्थितानि |
सौभाग्यमेणतिलकाद्भजते ऽर्कबिम्बं काले तुषारिणि दहन्ति च चन्दनानि ||
सिद्धार्थयष्टिषु यथोत्तरहीयमानसन्तानभिन्नघनसूचिपरम्परासु |
द्वित्रावशेषकुसुमासु जनिक्रमेण पाकक्रमः कपिशिमानमुपादधाति ||
उदीच्यचण्डानिलाताडितासु सुलीनमीनासु जलस्य मूले |
नालावशेषाब्जलतास्विदानीं विलासवापीषु न याति दृष्टिः ||
माद्यन्मतङ्गः पृषतैकतोषी पुष्पद्वराहो धृतिमल्लुलायः |
दरिद्रनिन्द्यः सधनैकवन्द्यः स एष कालः शिशिरः करालः ||
अभानवबधूरोषस्वादुः करीषतनूनपा-दसरलजनाश्लेषक्रूरस्तुषारसमीरणः |
गलितविभवस्यज्ञेवाद्य द्युतिर्मसृणा रवे र्विरहिवनितावक्त्रौपभ्यं बिभर्त्तिं निशाकरः ||
स्त्रियः प्रकृतिपित्तलाः क्कथितकुङ्कुमालेपनैर् नितम्बफलकस्तनस्थलभुजोरुमूलपादिभिः |
इहाभिनवयौवनाः सकलरात्रिसश्लेषितैर् हरन्ति शिशिरज्वरारतिमतीव पृथ्वीमपि” ||
शिशिरः ||
“चैत्रे मदर्ध्दिः शुकसारिकाणां हारीतदात्यूहमधुव्रतानाम् |
पुंस्कोकिलानां सहकारबन्धुः मदस्य कालः पुररेषु एव ||
मनो ऽधिकं चात्र विलासलास्ये प्रेङ्खासु दोलासु च सुन्दरीणां |
गीते च गौरीचरितावतंसे पूजाप्रपञ्चे च मनोभवस्य ||
पुंस्कोकिलः कूजति पञ्चमेन बलाद्विलासा युवतौ स्फुरन्ति |
स्मरो वसन्ते ऽत्र नवैः प्रसूनैः स्वचापयष्टेर्घटनां करोति ||
पिनद्धमाहारजनांशुकानां सीमन्तसिन्दूरजुषां वसन्ते |
स्मरीकृते प्रेयसि भक्तिभाजां विशेषवेषः स्वदते वधूनाम् ||
अयं प्रसूनोद्धुरकर्णिकारः पुष्पपञ्चार्चितकाञ्चनारः |
विजृम्भणाकोविदकोविदारः कालो विकाशोद्यतसिन्दुवारः ||
रोहितकाम्रातककिङ्किराता मधूकमोचाः सह माधवीभिः |
जयन्ति शोभाञ्जनकश्च शाखी सकेसरः पुष्पभरैर्वसन्ते ||
यो माधवीमुकुलदृष्टिषु वेणिबन्धो यः कोकिलकलरुतेः कथने च लाभः |
पूजाविधिर्दमनकेन च यः स्मरस्य तस्मिन्मधुः स भगवान्गुरुरङ्गनानाम् ||
नालिङ्गितः कुरबकस्तलको न दृष्टो ना ताडितश्च चरणैः सुदृशामशोकः |
सिक्ता न वक्त्रमधुना बकुलश्च चैत्रे चित्रं तथापि भवति प्रसवावकीर्णाः ||
चैत्रे चित्रौ रक्तनीलावशोकौ स्वर्णाशोकस्तत्तृतीयश्च पीतः |
जैत्रं तन्त्रं तत्प्रसूनान्तरेभ्यश्चेतोयोनेः भूर्भुवः स्वस्त्रये ऽपि ||
गूवाकानां नालिकेरद्रुमाणां हिन्तालानां पाटलसीकिंशिकानाम् |
खर्जूराणां ताडताडीतरुणां पुष्पापीडन्यासहेतुर्वसन्तः ||
विकासकारी नवमल्लिकानां दलच्छिरीषप्रसवाभिरामः |
पुष्पप्रदः काञ्चनकेतकीनां ग्रीष्मो ऽयमुल्लासितधातकीकः ||
खर्जूरजम्बूपनसाम्रमोचप्रियालपूगीफलनालिकेरैः |
द्वन्द्वानि खेदालसतामुपस्य रतानुसन्धानमिहाद्रियन्ते ||
स्रोतांस्यनभ्भांसि सकूपकानि प्रपाः कठोरे ऽहनि पान्थपूर्णाः |
शुचौ समभ्यर्थितसक्तुपाने प्रगे च सायं च वहन्ति मार्गाः ||
यत्कायमानेषु दिनार्दिनिद्रा यत्स्नानकेलिर्दिवसावसाने |
यद्रात्रिशेषे सुरतावतारः स मुष्टियोगो घनघर्ममाथी ||
या चन्द्रिका चन्दनपङ्कहृद्या या जालमार्गानिलवीचिमाला |
या तालवृन्तैरुदबिन्दुवृष्टिर्-जलाञ्जलिं सा शुचये ददाति ||
कर्पूरचूर्णं सहकारभङ्गस्ताम्बूलमार्द्रक्रमुकोपकॢत्पम् |
हाराश्च तारास्तनुवस्त्रमेतन्महारहस्यं शिशिरक्रियायाः ||
मुक्तालताश्चन्दनपङ्कदिग्धा मृणालहारानुसृता जलार्द्राः |
स्त्रजश्च मौलौ स्मितचम्पकानां ग्रीष्मे ऽपि सो ऽयं शिशिरावतारः” ||
अत्र हि- “पच्यन्त इव भूतानि ताप्यन्त इव पांसवः |
क्कथ्यन्त इव तोयानि ध्मायन्त इव चाद्रयः ||
एणाः स्थलीषु मृगतृष्णिकया ह्रियन्ते स्रोतस्तनुत्वजनिता जलवेणिबन्धाः |
ताम्यत्तिमीनि च सरांसि जलस्य शेषाद् उच्चारघट्टिघटिकावलयाश्च कूपाः ||
करभाः शरभाः सरासभा मदमायान्ति भजन्ति विक्रियाम् |
करवीरकरीरपुष्पिणीः स्थलभूमीरधिरुह्य चासते ||
सहकाररसार्चिता रसाला जलभक्तं फलपानकानि मन्थाः |
मृगलावरसाः शृतं च दुग्ध स्मरसञ्जीवनमौषधं निदाधे ||
जलचन्दनचारवस्तारुण्यः सजलार्द्राः सहतारहारमालाः |
कदलीदलतल्पकल्पनस्थाः स्मरमाहूय निवेशयन्ति पार्श्वे ||
ग्रीष्मे चीरीनादवन्तो वनान्ताः पङ्काभ्यक्ताः सौरिभाः सेभकोलाः |
लोलज्जिह्वाः सर्पसारङ्गवर्गा मूलस्त्रस्तैः पत्रिणश्चांसदेशैः ||
हर्म्यं रम्यं चन्द्रिकाधौतपृष्टं कान्तोच्छिष्टा वारुणी वारिमिश्रा |
मालाः कण्ठे पाटला मल्लिकानां सद्यो ग्रीष्मं हन्त हेमन्तयन्ति ||
ग्रीष्मः ||
चतुरवस्थश्च ऋतुरुपनिबन्धनीयः |
तद्यथा सन्धिः, शैशवं, प्रौढिः, अनवृत्तिश्च |
ऋतुद्वयमध्यं सन्धिः |
शिशिरवसन्तसन्धिर्यथा- “त्युतसुमनसः कुन्दाः पुष्पोद्गमेष्वलसा द्रुमा मनसि च गिरं गृह्णन्तीमे गिरन्ति न कोकिलाः |
अथ च सवितुः शीतोल्लासं लुनन्ति मरीचयो न च जरठतामालम्बन्ते क्लमोदयदायिनीम्” ||
वसन्तशैशवम् – “गर्भग्रन्थिषु वीरुधां सुमनसो मध्ये ऽङ्कुरं पल्लवा वाञ्छामात्रपरिग्रहः पिकवधूकण्ठोदरे पञ्चमः |
किं च त्रीणि जगन्ति जिष्णु दिवसैर्द्विघत्रैर्मनोजन्मनो देवस्यापि चिरोज्भ्फितं यदि भवेदभ्यासवश्यं धनुः” ||
वसन्तप्रौढिः- “साम्यं सम्प्रति सेवते विचकिलं षाण्मासिकैर्मौक्तिकैः कान्तिं कर्षति काञ्चनारकुसुमं माज्जिष्टधौतात्पटात् |
हूणीनां कुरुते मधूकमुकुलं लावण्यलुण्टाकतां लाटीनाभिनिभं चकास्ति च पतद्वृन्ताग्रतः केसरम्” ||
अतिक्रान्तर्तुलिङ्गं यत्कुसुमाद्यनुवत्तते |
लिङ्गनुवृत्तिं तामाहुः सा ज्ञेया काव्यलोकतः ||
वर्षासु ग्रीष्मलिङ्गाब्जविकासानुवृत्तिः |
खं वस्ते कलविङ्ककण्ठमलिनं कादम्बिनीकम्बलं चर्चा पारयतीव दर्दुरकुलं कोलाहलैरुन्मदम् |
गन्धं मुञ्चति सिक्तलाजसदृशं वर्षेण दग्धा स्थली दुर्लक्ष्यो ऽपि विभाव्यते कमलिनीहासेन भासां पतिः ||
” एवमन्या अपि |
किञ्च- ग्रैष्मिकसमयविकासी कथितो धूलीकदम्ब इति लोके |
जलधरसमयप्रात्पौ स एव धाराकदम्बः स्यात् ||
यथा- “धूलीकदम्बपरिधूसरदिङ्मुखस्य रक्तच्छटासुरशरासनमण्टनस्य |
दीत्पायुधाशनिमुचो ननु नीलकण्ठ नोत्कण्ठसे समरवारिधरागमस्य” ||
जलसमयजायमानां जातिं यां कर्द्दमीति निगदन्ति |
सा शरदि महोत्सविनी गन्धान्वितषट्पदा भवति ||
यथा- “स्थूलावश्यायबिन्दुद्युतिदलितबृहत्कोरकग्रन्थिभाजो जात्या जालं लतानां जरटपरिमलप्लावितानां जजृम्भे |
नानाहंसोपधानं सपदि जलनिधेश्वोत्ससर्पापरस्य ज्योत्स्नाशुक्लोपधानं शयनमिव शशी नागभोगाङ्कमभ्भः” ||
स्तोकानुवृत्तिं केतक्या अपि केचिदिच्छन्ति |
यथा- “असूच्यतः शरत्कालः केतकीधूलिधूसरैः |
पद्मताम्रैर्नवायातश्चरणैरिव वासरैः” ||
शरद्भावानामनुवृत्तिरत्र बाणासनानां सकुरुण्टकानाम् |
हेमन्तवक्त्रे यदि दृश्यते ऽपि न दृश्यते बन्धविधिः कवीनाम् ||
हेमन्तशिशिरयोरैक्ये सर्वलिङ्गानुवृत्तिरेव |
उक्तं च |
“द्वादशमासः संवत्सरः, पञ्चर्तवो हेमन्तशिशिरयोः समासेन” |
मरुबकदमनकपुन्नागपुष्पलिङ्गानुवृत्तिभिः सुरभिः |
रचनीयश्चित्रश्रीः कश्चित्कुन्दानुवृत्त्या च ||
“गृहे वाहीकयूनां वहति दमनको मञ्जरीकर्णपूरान् उन्मादः पामरीणां मरुति मरुबकामोदिनि व्यक्तिमेति |
सद्यो भङ्गानुसारस्त्रुतसरभिशिराशीकरः साहकारः सर्परन्नम्भःशरावे रचयति च रसो रचकीचन्द्रकाणि ||
कुन्दे मन्दस्तमाले मुकुलिनि विकलः कातरः किङ्किराते रक्ताशोके सशोकश्चिरमतिविकचे चम्पके कुञ्चिताक्षः |
पान्थः खेदालसो ऽपि श्रवणकटुरटच्चक्रमभ्येति धुन्वन् सोत्कण्ठः षट्पदानां नवमधुपटलीलम्पटं कर्पटेन” ||
यथा वा- “धुनानः कावेरीपरिसरभुवश्चन्दनतरुन् मरुन्मन्दः कुन्दप्रकारमकरन्दानवकिरन् |
प्रियक्रीडाकर्षच्युतकुसुममामूलसरलं ललाटे लाटीलां लुठितमलकं ताण्डवयिति” ||
एवमन्याप्यनुवृत्तिः |
“विचकिलकेरसरपाटलिचम्पपुष्पानुवृत्तयो ग्रीष्मे |
तत्र च तुहिनर्तुभवं मरुबकमपि केचिदिच्छन्ति” ||
यथा- “कर्णे स्मेरं शिरीषं शिरसि विचकिलस्रग्लताः पाटलिन्यः कण्ठे मार्णालहारो वलयितमसिताभ्भोजनालं कलाच्योः |
समोदं चन्दनाभ्भः स्तनभुवि नयने म्लाननाञ्जिष्ठपृष्ठे गात्रं लोलज्जलार्द्रं जयति मृगदृशां ग्रौष्मिको वेष एषः” ||
यथाच – “अमिनवकुशसूचिस्पर्द्धि कर्णे शिरीषं मरुबकरिवारं पाटलादाम पण्ठे |
स तु सरसजलार्देन्मीलितः सुन्दरीणां दिनपरिणतिजन्मा को ऽपि वेषश्चकास्ति” ||
एवमुदाहरणान्तराणि |
“ऋतुभववृत्त्यनुवृत्ती दिङ्मात्रेणात्र सूचिते सन्तः |
शेषं स्वधिया पश्यत नामग्राहं कियद्ब्रूमः ||
देशेषु पदार्थानां व्यत्यासो दृश्यते स्वरूपस्य |
तन्न तथा बध्वीयात्कविबद्धमिह प्रमाणं नः” ||
शोभान्धोगन्धसरैः फलार्चनाभ्यां च पुष्पमुपयोनि |
षोढा दर्शितमेतत्स्यात्सत्पममनुपयोगि ||
यथा- यत्प्राचि मासे कुसुमं निबद्धं तदुत्तरे बालफलं विधेयम् |
तदग्रिमे प्रौढिधरं च कार्यं तदग्रिमे पाकपरिष्कृतं च ||
द्रुमोद्भवानां विधिरेषु दृष्टो बल्लीफलाना न महाननेहा |
तेषां द्विमासावधिरेव कार्यः पष्पे फले पाकविधौ च कालः ||
अन्यर्व्याजं बहिव्याजं बाह्यान्तर्व्याजमेव च |
सर्वव्याजं बहुव्याजं निर्व्याजं च तथा फलम् ||
लकुचाद्यन्तर्व्याजं तथा बहिर्व्याजमत्र मोचादि |
आम्राद्युभयव्याजं सर्वव्याजं च ककुभादि ||
पनसादि बहुव्याजं नीलकपित्थादि भवति निर्व्याजम् |
सकलफलानां षोढा ज्ञातव्यः कविभिरिति भेदः ||
एकद्वित्र्यादिभेदेन सामस्त्येनाथवा ऋतून् |
प्रबन्धेषु निबन्धीयात्क्रमेण व्युत्क्रमेण वा ||
न च व्युत्क्रमदोषो ऽस्ति कवेरर्थपथस्पृशः |
तथा तथा कापि भवेद् व्युत्क्रमो भूषाणां यथा ||
अनुसन्धानशून्यस्य भूषणं दूषणायते |
सावधानस्य च कवेर्दूषणं भूषणायते ||
इति कालविभागस्य दर्शिता वृत्तिरीदृशी |
कवेरिह महान्मोह इह सिद्धो महाकविः ||
इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमे ऽधिकरणे कालविभागो नाम अष्टादशो ऽध्यायः
समात्पमिदं प्रथममधिकरणं कविरहस्यं काव्यमीमांसायाम्
|