न्यायसूत्र
अथ प्रथमः अध्यायःप्रथमम् आह्निकम् १.१.२ > दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानाम् उत्तरोत्तरापाये तदनन्तरा पायात् अपवर्गः १.१.३ > प्रत्यक्षानुमानोपमानशब्दाः प्रमाणानि १.१.४ > इन्द्रियार्थसन्निकर्षोत्पन्नम् ज्ञानम् अव्यपदेश्यम् अव्यभिचारि व्यवसायात्मकम् प्रत्यक्षम् १.१.५ > अथ तत्पूर्वकं त्रिविधम् अनुमानं पूर्ववत् शेषवत् सामान्यतोदृष्टं च १.१.६ > प्रसिद्धसाधर्म्यात् साध्यसाधनम् उपमानम् १.१.७ > आप्तोपदेशः शब्दः १.१.८ > सः द्विविधः दृष्टादृष्टार्थत्वात् १.१.९ > आत्मशरीरेन्द्रियार्थबुद्धिमनःप्रवृत्तिदोषप्रेत्यभावफलदुःखापवर्गाः तु प्रमेयम् १.१.१० > इच्छाद्वेषप्रयत्नसुखदुःखज्ञानानि आत्मनः लिङ्गम् इति १.१.११ > चेष्टेन्द्रियार्थाश्रयः शरीरम् १.१.१२ > घ्राणरसनचक्षुस्त्वक्श्रोत्राणि इन्द्रियाणि भूतेभ्यः १.१.१३ > पृथिवी आपः तेजः वायुः आकाशम् इति भूतानि १.१.१४ > गन्धरसरूपस्पर्शशब्दाः पृथिव्यादिगुणाः तदर्थाः १.१.१५ > बुद्धिः उपलब्धिः ज्ञानम् इति अनर्थान्तरम् १.१.१६ > युगपत् ज्ञानानुत्पत्तिः मनसः लिङ्गम् १.१.१७ > प्रवृत्तिः वाग्बुद्धिशरीरारम्भः १.१.१८ > प्रवर्त्तनालक्षणाः दोषाः १.१.१९ > पुनरुत्पत्तिः प्रेत्यभावः १.१.२० > प्रवृत्तिदोषजनितः अर्थः फलम् १.१.२१ > बाधनालक्षणम् दुःखम् १.१.२२ > तदत्यन्तविमोक्षः अपवर्गः १.१.२३ > समानानेकधर्मोपपत्तेः विप्रतिपत्तेः उपलब्ध्यनुपलब्ध्यव्यवस्थातः च विशेषापेक्षः विमर्शः संशयः १.१.२५ > लौकिकपरीक्षकाणां यस्मिन् अर्थे बुद्धिसाम्यम् सः दृष्टान्तः १.१.२६ > तन्त्राधिकरणाभ्युपगमसंस्थितिः सिद्धान्तः १.१.२७ > सः चतुर्विधः सर्वतन्त्रप्रतितन्त्राधिकरणाभ्युपगमसंस्थित्यर्थान्तरभावात् १.१.२८ > सर्वतन्त्राविरुद्धः तन्त्रे अधिकृतः अर्थः सर्वतन्त्रसिद्धान्तः १.१.२९ > समानतन्त्रसिद्धः परतन्त्रासिद्धः प्रतितन्त्रसिद्धान्तः १.१.३० > यत्सिद्धौ अन्यप्रकरणसिद्धिः सः अधिकरणसिद्धान्तः १.१.३१ > अपरीक्षिताभ्युपगमात् तद्विशेषपरीक्षणम् अभ्युपगमसिद्धान्तः १.१.३२ > प्रतिज्ञाहेतूदाहरणोपनयनिगमनानि अवयवाः १.१.३३ > साध्यनिर्देशः प्रतिज्ञा १.१.३४ > उदाहरणसाधर्म्यात् साध्यसाधनं हेतुः १.१.३५ > तथा वैधर्म्यात् १.१.३६ > साध्यसाधर्म्यात् तद्धर्मभावी दृष्टान्तः उदाहरणम् १.१.३७ > तद्विपर्ययात् वा विपरीतम् १.१.३८ > उदाहरणापेक्षः तथा इति उपसंहारः न तथा इति वा साध्यस्य उपनयः {निगमन-लक्षणम्} १.१.४० > अविज्ञाततत्वे अर्थे कारणोपपत्तितः तत्त्वज्ञानार्थम् उहः तर्कः १.१.४१ > विमृश्य पक्षप्रतिपक्षाभ्याम् अर्थावधारणम् निर्णयः १.२.१ > प्रमाणतर्कसाधनोपालम्भः सिद्धान्ताविरुद्धः पञ्चावयवोपपन्नः पक्षप्रतिपक्षपरिग्रहः वादः १.२.२ > यथोक्तोपपन्नः छलजातिनिग्रहस्थानसाधनोपालम्भः जल्पः १.२.३ > सः प्रतिपक्षस्थापनाहीनः वितण्डा १.२.४ > सव्यभिचार-विरुद्ध-प्रकरणसम-साध्यसम-कालातीताः हेत्वाभासाः १.२.५ > अनैकान्तिकः सव्यभिचारः १.२.६ > सिद्धान्तम् अभ्युपेत्य तद्विरोधी विरुद्धः १.२.७ > यस्मात् प्रकरणचिन्ता सः निर्णयार्थमपदिष्टः प्रकरणसमः १.२.८ > साध्याविशिष्टः साध्यत्वात् साध्यसमः १.२.९ > कालात्ययापदिष्टः कालातीतः १.२.१० > वचनविघातः अर्थविकल्पोपपत्त्या छलम् १.२.११ > तत् त्रिविधम् – वाक्छलम् सामान्यच्छलम् उपचारच्छलम् च इति १.२.१२ > अविशेषाभिहिते अर्थे वक्तुः अभिप्रायात् अर्थान्तरकल्पना वाक्छलम् १.२.१३ > सम्भवतः अर्थस्य अतिसामान्ययोगात् असम्भूतार्थकल्पना सामान्यच्छलम् १.२.१४ > धर्मविकल्पनिर्देशे अर्थसद्भावप्रतिषेधः उपचारच्छलम् १.२.१५ > वाक्छलम् एव उपचारच्छलम् तत् अविशेषात् १.२.१६ > न तत् अर्थान्तरभावात् १.२.१७ > अविशेषे वा किञ्चित्साधर्म्यात् एकच्छलप्रसङ्गः १.२.१८ > साधर्म्यवैधर्म्याभ्याम् प्रत्यवस्थानं जातिः १.२.१९ > विप्रतिपत्तिः अप्रतिपत्तिः च निग्रहस्थानम् १.२.२० > तद्विकल्पात् जातिनिग्रहस्थानबहुत्वम् इति न्यायसूत्रे प्रथमाध्यायस्य द्वितीयम् आह्निकम् समाप्तः च अयम् प्रथमः अध्यायः |
अथ द्वितीयः अध्यायःप्रथमम् आह्निकम् २.१.२ > विप्रत्तिपत्त्यव्यवस्थाध्यवसायात् च २.१.३ > विप्रत्तिपत्तौ च संप्रत्तिपत्तेः २.१.४ > अव्यवस्था आत्मनि व्यवस्थितत्वात् च अव्यवस्थायाः २.१.५ > तथा अत्यन्तसंशयः तद्धर्मसातत्योपपत्तेः २.१.६ > यथोक्ताध्यवसायात् एव तद्विशेषापेक्षात् संशये न असंशयः न अत्यन्तसंशयः वा २.१.७ > यत्र संशयः तत्र एवम् उत्तरोत्तरप्रसङ्गः २.१.८ > प्रत्यक्षादीनाम् अप्रामाण्यं त्रैकाल्यासिद्धेः २.१.९ > पूर्वं हि प्रमाणसिद्धौ न इन्द्रियार्थसन्निकर्षात् प्रत्यक्षोत्पत्तिः २.१.१० > पश्चात्सिद्धौ न प्रमाणेभ्यः प्रमेयसिद्धिः २.१.११ > युगपत्सिद्धौ प्रत्यर्थनियतत्वात् क्रमवृत्तित्वाभावः बुद्धीनाम् २.१.१२ > त्रैकाल्यासिद्धेः प्रतिषेधानुपपत्तिः २.१.१३ > सर्वप्रमाणप्रतिषेधात् च प्रतिषेधानुपपत्तिः २.१.१४ > तत्प्रामाण्ये वा न सर्वप्रमाणविप्रतिषेधः २.१.१५ > त्रैकाल्याप्रतिषेधः च शब्दात् आतोद्यसिद्धिवत् तत्सिद्धेः २.१.१६ > प्रमेया च तुलाप्रामाण्यवत् २.१.१७ > प्रमाणतः सिद्धेः प्रमाणानाम् प्रमाणान्तरसिद्धिप्रसङ्गः २.१.१८ > तद्विनिवृत्तेः वा प्रमाणसिद्धिवत् प्रमेयसिद्धिः २.१.१९ > न, प्रदीपप्रकाशसिद्धिवत् तत्सिद्धेः २.१.२० > क्वचित् निवृत्तिदर्शनात् अनिवृत्तिदर्शनात् च क्वचित् अनेकान्तः २.१.२१ > प्रत्यक्षलक्षणानुपपत्तिः असमग्रवचनात् २.१.२२ > न आत्ममनसोः सन्निकर्षाभावे प्रत्यक्षोत्पत्तिः (दो) २.१.२३ > दिग्देशकालाकाशेषु अपि एवं प्रसङ्गः (दो) २.१.२४ > ज्ञानलिङ्गत्वात् आत्मनः न अनवरोधः २.१.२५ > तदयौगपद्यलिङ्गत्वात् च न मनसः २.१.२६ > प्रत्यक्षनिमित्तत्वात् च इन्द्रियार्थयोः सन्निकर्षस्य स्वशब्देन वचनम् २.१.२७ > सुप्तव्यासक्तमनसां च इन्द्रियार्थयोः सन्निकर्षनिमित्तत्वात् २.१.२८ > तैः च अपदेशः ज्ञानविशेषाणाम् २.१.२९ > व्याहतत्वात् अहेतुः २.१.३० > न अर्थविशेषप्राबल्यात् २.१.३१ > प्रत्यक्षम् अनुमानम् एकदेशग्रहणात् उपलब्धेः २.१.३२ > न, प्रत्यक्षेण यावत् तावत् अपि उपलम्भात् २.१.३३ > न चैकदेशोपलब्धिरवयविसद्भावात् २.१.३४ > साध्यत्वात् अवयविनि सन्देहः २.१.३५ > सर्वाग्रहणम् अवयव्यसिद्धेः २.१.३६ > धारणाकर्षणोपपत्तेः च २.१.३७ > सेनावनवत् ग्रहणम् इति चेत् न अतीन्द्रियत्वात् अणूनाम् २.१.३८ > रोधोपघातसादृश्येभ्यः व्यभिचारात् अनुमानम् अप्रमाणम् २.१.३९ > न, एकदेशत्राससादृश्येभ्यः अर्थान्तरभावात् २.१.४० > वर्तमानाभावः, पततः पतितपतितव्यकालोपपत्तेः २.१.४१ > तयोः अपि अभावः वर्तमानाभावे, तदपेक्षत्वात् २.१.४२ > न अतीतानागतयोः इतरेतरापेक्षा सिद्धिः २.१.४३ > वर्तमानाभावे सर्वाग्रहणं प्रत्यक्षानुपपत्तेः २.१.४४ > कृतताकर्त्तव्यतोपपत्तेः तु उभयथा ग्रहणम् [उपमानपरीक्षाप्रकरणम्] २.१.४५ > अत्यन्तप्रायैकदेशसाधर्म्यात् उपमानासिद्धिः २.१.४६ > प्रसिद्धसाधर्म्यात् उपमानसिद्धेः यथोक्तदोषानुपपत्तिः २.१.४७ > प्रत्यक्षेण अप्रत्यक्षसिद्धेः २.१.४८ > न अप्रत्यक्षे गवये प्रमाणार्थम् उपमानस्य पश्यामः २.१.४९ > तथा इति उपसंहारात् उपमानसिद्धेः न अविशेषः २.१.५० > शब्दः अनुमानम् अर्थस्य अनुपलब्धेः अनुमेयत्वात् २.१.५१ > उपलब्धेः अद्विप्रवृत्तित्वात् २.१.५२ > सम्बन्धात् च २.१.५३ > आप्तोपदेशसामर्थ्यात् शब्दात् अर्थसम्प्रत्ययः २.१.५४ > पूरणप्रदाहपाटनानुपलब्धेः च सम्बन्धाभावः २.१.५५ > शब्दार्थव्यवस्थानात् अप्रतिषेधः २.१.५६ > न, सामयिकत्वात् शब्दार्थसम्प्रत्ययस्य २.१.५७ > जातिविशेषे च अनियमात् २.१.५८ > तदप्रामाण्यम् अनृतव्याघातपुनरुक्तदोषेभ्यः २.१.५९ > न, कर्मकर्तृसाधनवैगुण्यात् २.१.६० > अभ्युपेत्य कालभेदे दोषवचनात् २.१.६१ > अनुवादोपपत्तेः च २.१.६२ > वाक्यविभागस्य च अर्थग्रहणात् २.१.६३ > विध्यर्थवादानुवादवचनविनियोगात् २.१.६४ > विधिः विधायकः २.१.६५ > स्तुतिः निन्दा परकृतिः पुराकल्पः इति अर्थवादः २.१.६६ > विधिविहितस्य अनुवचनम् अनुवादः २.१.६७ > न अनुवादपुनरुक्तयोः विशेषः, शब्दाभ्यासोपपत्तेः २.१.६८ > शीघ्रतरगमनोपदेशवत् अभ्यासात् न अविशेषः २.१.६९ > मन्त्रायुर्वेदप्रामाण्यवत् च तत्प्रामाण्यम्, आप्तप्रामाण्यात् इति न्यायसूत्रे द्वितीयाध्यायस्य प्रथमम् आह्निकम् द्वितीयम् आह्निकम् २.२.१ > न चतुष्ट्वम्, ऐतिह्यार्थापत्तिसम्भवाभावप्रामाण्यात् २.२.२ > शब्दे ऐतिह्यानर्थान्तरभावात् अनुमाने अर्थापत्तिसम्भवाभावानर्थान्तर भावात् च अप्रतिषेधः २.२.३ > अर्थापत्तिः अप्रमाणम् अनैकान्तिकत्वात् २.२.४ > अनर्थापत्तौ अर्थापत्त्यभिमानात् २.२.५ > प्रतिषेधाप्रामाण्यं च अनैकान्तिकत्वात् (-) २.२.६ > तत्प्रामाण्ये वा न अर्थापत्त्यप्रामाण्यम् २.२.७ > न अभावप्रामाण्यं प्रमेयासिद्धेः २.२.८ > लक्षितेष्वलक्षणलक्षितत्वात् अलक्षितानां तत्प्रमेयसिद्धेः २.२.९ > असति अर्थे न अभावः इति चेत् न, अन्यलक्षणोपपत्तेः २.२.१० > तत्सिद्धेः अलक्षितेषु अहेतुः २.२.११ > न, लक्षणावस्थितापेक्षसिद्धेः २.२.१२ > प्राक् उत्पत्तेः अभावोपपत्तेः च २.२.१३ > आदिमत्वात् ऐन्द्रियकत्वात् कृतकवत् उपचारात् च २.२.१४ > न, घटाभावसामान्यनित्यत्वात् नित्येषु अपि अनित्यवत् उपचारात् च २.२.१५ > तत्त्वभाक्तयोः नानात्वविभागात् अव्यभिचारः २.२.१६ > सन्तानानुमानविशेषणात् २.२.१७ > कारणद्रव्यस्य प्रदेशशब्देनाभिधानात् २.२.१८ > प्राक् उच्चारणात् अनुपलब्धेः आवरणाद्यनुपलब्धेः च २.२.१९ > तदनुपलब्धेः अनुपलम्भात् आवरणोपपत्तिः २.२.२० > अनुपलम्भात् अनुपलब्धिसद्भावात् न आवरणानुपपत्तिः अनुपलम्भात् २.२.२१ > अनुपलम्भात्मकत्वात् अनुपलब्धेः अहेतुः २.२.२२ > अस्पर्शत्वात् २.२.२३ > न, कर्मानित्यत्वात् २.२.२४ > न, अणुनित्यत्वात् २.२.२५ > सम्प्रदानात् २.२.२६ > तदन्तरालानुपलब्धेः अहेतुः २.२.२७ > अध्यापनात् अप्रतिषेधः २.२.२८ > उभयोः पक्षयोः अन्यतरस्य अध्यापनात् अप्रतिषेधः २.२.२९ > अभ्यासात् २.२.३० > न अन्यत्वे अपि अभ्यासस्य उपचारात् २.२.३१ > अन्यत् अन्यस्मात् अनन्यत्वात् अनन्यत् इति अन्यताभावः २.२.३२ > तदभावे न अस्ति अनन्यता, तयोः इतरेतरापेक्षसिद्धेः २.२.३३ > विनाशकारणानुपलब्धेः २.२.३४ > अश्रवणकारणानुपलब्धेः सततश्रवणप्रसङ्गः २.२.३५ > उपलभ्यमाने च अनुपलब्धेः असत्त्वात् अनपदेशः २.२.३६ > पाणिनिमित्तप्रश्लेषात् शब्दाभावे न अनुपलब्धिः २.२.३७ > विनाशकारणानुपलब्धेः च अवस्थाने तन्नित्यत्वप्रसङ्गः २.२.३८ > अस्पर्शत्वात् अप्रतिषेधः २.२.३९ > विभक्त्यन्तरोपपत्तेः च समासे २.२.४० > विकारादेशोपदेशात् संशयः २.२.४१ > प्रकृतिविवृद्धौ विकारविवृद्धेः २.२.४२ > न्यूनसमाधिकोपलब्धेः विकाराणाम् अहेतुः २.२.४३ > द्विविधस्य अपि हेतोः अभावात् असाधनं दृष्टान्तः २.२.४४ > न, अतुल्यप्रकृतीनाम् विकारविकल्पात् २.२.४५ > द्रव्यविकारवैषम्यवत् वर्णविकारविकलः २.२.४६ > न, विकारधर्मानुपपत्तेः २.२.४७ > विकारप्राप्तानाम् अपुनरापत्तेः २.२.४८ > सुवर्णादीनां पुनरापत्तेः अहेतुः २.२.४९ > न, तद्विकाराणां सुवर्णभावाव्यतिरेकात् २.२.५० > वर्णत्वाव्यतिरेकात् वर्णविकाराणाम् अप्रतिषेधः २.२.५१ > सामान्यवतो धर्मयोगो न सामान्यस्य २.२.५२ > नित्यत्वे अविकारात् अनित्यत्वे च अनवस्थानात् २.२.५३ > नित्यानाम् अतीन्द्रियत्वात् तद्धर्मविकल्पात् च वर्णविकाराणाम् अप्रतिषेधः २.२.५४ > अनवस्थायित्वे च वर्णोपलब्धिवत् तद्विकारोपपत्तिः २.२.५५ > विकारधर्मित्वे नित्यत्वाभावात् कालान्तरे विकारोपपत्तेः च अप्रतिषेधः २.२.५६ > प्रकृत्यनियमात् २.२.५७ > अनियमे नियमात् न अनियमः २.२.५८ > नियमानियमविरोधात् अनियमे नियमात् च अप्रतिषेधः २.२.५९ > गुणान्तरापत्त्युपमर्द-ह्रास-वृद्धि-श्लेषेभ्यः तु विकारोपपत्तेः वर्णविकाराः २.२.६० > ते विभक्त्यन्ताः पदम् २.२.६१ > व्यक्त्याकृतिजातिसन्निधौ उपचारात् संशयः २.२.६२ > याशब्द-समूह-त्याग-परिग्रह-सङ्ख्या-वृद्ध्यपचय-वर्ण-समासानुबन्धानाम् व्यक्तौ उपचारात् व्यक्तिः २.२.६३ > न, तत् अनवस्थानात् २.२.६४ > सहचरण-स्थान-तादर्थ्य-वृत्त-मान-धारण-सामीप्य-योग-साधनाधिपत्येभ्यः ब्राह्मण-मञ्च-कट-राज-सक्तु-चन्दन-गङ्गा-शाटकान्न-पुरुषेष्वतद्भावे अपि तदुपचारः २.२.६५ > आकृतिः, तदपेक्षत्वात् सत्त्वव्यवस्थानसिद्धेः २.२.६६ > व्यक्त्याकृतियुक्ते अपि अप्रसङ्गात् प्रोक्षणादिनां मृद्गवके जातिः २.२.६७ > न, आकृतिव्यक्त्यपेक्षत्वात् जात्यभिव्यक्तेः २.२.६८ > व्यक्त्याकृतिजातयः तु पदार्थः २.२.६९ > व्यक्तिः गुणविशेषाश्रयः मूर्तिः २.२.७० > आकृतिः जातिलिङ्गाख्या २.२.७१ > समानप्रसवात्मिका जातिः |
अथ तृतीयः अध्यायःप्रथमम् आह्निकम् ३.१.१ > दर्शनस्पर्शनाभ्याम् एकार्थग्रहणात् ३.१.२ > न, विषयव्यवस्थानात् ३.१.३ > तद्व्यवस्थानात् एव आत्मसद्भावात् अप्रतिषेधः ३.१.४ > शरीरदाहे पातकाभावात् ३.१.५ > तदभावः सात्मकप्रदाहे अपि, तन्नित्यत्वात् ३.१.६ > न, कार्याश्रयकर्तृवधात् ३.१.७ > सव्यदृष्टस्य इतरेण प्रत्यभिज्ञानात् ३.१.८ > न एकस्मिन् नासास्थिव्यवहिते द्वित्वाभिमानात् ३.१.९ > एकविनाशे द्वितीयाविनाशात् न एकत्वम् ३.१.१० > अवयवनाशे अपि अवयव्युपलब्धेः अहेतुः ३.१.११ > दृष्टान्तविरोधात् अप्रतिषेधः ३.१.१२ > इन्द्रियान्तरविकारात् ३.१.१३ > न, स्मृतेः स्मर्त्तव्यविषयत्वात् ३.१.१४ > तदात्मगुणसद्भावात् अप्रतिषेधः ३.१.१५ > न, आत्मप्रतिपत्तिहेतूनां मनसि सम्भवात् ३.१.१६ > ज्ञातुः ज्ञानसाधनोपपत्तेः संज्ञाभेदमात्रम् ३.१.१७ > नियमः च निरनुमानः ३.१.१८ > पूर्वाभ्यस्तस्मृत्यनुबन्धात् जातस्य हर्षभयशोकसम्प्रतिपत्तेः ३.१.१९ > पद्मादिषु प्रबोधसम्मीलनविकारवत् तद्विकारः ३.१.२० > न, उष्णशीतवर्षाकालनिमित्तत्वात् पञ्चात्मकविकाराणाम् ३.१.२१ > प्रेत्याहाराभ्यासकृतात् स्तन्याभिलाषात् ३.१.२२ > अयसः अयस्कान्ताभिगमनवत् तदुपसर्पणम् ३.१.२३ > न, अन्यत्र प्रवृत्त्यभावात् ३.१.२४ > वीतरागजन्मादर्शनात् ३.१.२५ > सगुणद्रव्योत्पत्तिवत् तदुत्पत्तिः ३.१.२६ > न, सङ्कल्पनिमित्तत्वात् रागादीनाम् ३.१.२७ > पार्थिवं गुणान्तरोपलब्धेः ३.१.२८ > पार्थिवाप्यतैजसं तद्गुणोपलब्धेः ३.१.२९ > निःश्वासोच्छ्वासोपलब्धेः चातुर्भौन्तिकम् ३.१.३० > गन्धक्लेदपाकव्यूहावकाशदानेभ्यः पाञ्चभौतिकम् ३.१.३१ > श्रुतिप्रामाण्यात् च ३.१.३२ > कृष्णसारे सति उपलम्भात् व्यतिरिच्य च उपलम्भात् संशयः ३.१.३३ > महदणुग्रहणात् ३.१.३४ > रश्म्यर्थसन्निकर्षविशेषात् तद्ग्रहणम् ३.१.३५ > तदनुपलब्धेः अहेतुः ३.१.३६ > न अनुमीयमानस्य प्रत्यक्षतः अनुपलब्धिः अभावहेतुः ३.१.३७ > द्रव्यगुणधर्मभेदात् च उपलब्धिनियमः ३.१.३८ > अनेकद्रव्यसमवायात् रूपविशेषात् च रूपोपलब्धिः ३.१.३९ > कर्मकारितः च इन्द्रियाणां व्यूहः पुरुषार्थतन्त्रः ३.१.४० > मध्यन्दिनोल्काप्रकाशानुपलब्धिवत् तदनुपलब्धिः ३.१.४१ > न, रात्रौ अपि अनुपलब्धेः ३.१.४२ > बाह्यप्रकाशानुग्रहात् विषयोपलब्धेः अनभिव्यक्तितः अनुपलब्धिः ३.१.४३ > अभिव्यक्तौ च अभिभवात् ३.१.४४ > नक्तञ्चरनयनरश्मिदर्शनात् च ३.१.४५ > अप्राप्यग्रहणं काचाभ्रपटलस्फटिकान्तरितोपलब्धेः ३.१.४६ > कुड्यान्तरितानुपलब्धेः अप्रतिषेधः ३.१.४७ > अप्रतीघातात् सन्निकर्षोपपत्तिः ३.१.४८ > आदित्यरश्मेः स्फटिकान्तरिते अपि दाह्ये अविघातात् ३.१.४९ > न इतरेतरधर्मप्रसङ्गात् ३.१.५० > आदर्शोदकयोः प्रसादस्वाभाव्यात् रूपोपलब्धिः ३.१.५१ > दृष्टानुमितानां हि नियोगप्रतिषेधानुपपत्तिः [इन्द्रियनानात्वपरीक्षाप्रकरणम्(५२-६२)] ३.१.५२ > स्थानान्यत्वे नानात्वात् अवयविनानास्थानत्वात् च संशयः {सिद्धान्त-सूत्र} ३.१.५३ > त्वक् अव्यतिरेकात् ३.१.५४ > न युगपत् अर्थानुपलब्धेः ३.१.५५ > विप्रतिषेधात् च न त्वक् एका ३.१.५६ > इन्द्रियार्थपञ्चत्वात् ३.१.५७ > न, तदर्थबहुत्वात् ३.१.५८ > गन्धत्वाद्यव्यतिरेकात् गन्धादीनामप्रतिषेधः ३.१.५९ > विषयत्वाव्यतिरेकात् एकत्वम् ३.१.६० > न, बुद्धिलक्षणाधिष्ठान-गत्याकृति-जातिपञ्चत्वेभ्यः ३.१.६१ > भूतगुणविशेषोपलब्धेः तादात्म्यम् ३.१.६२ > गन्ध-रस-रूप-स्पर्श-शब्दानां स्पर्शपर्यन्ताः पृथिव्याः ३.१.६३ > अप्-तेजो-वायूनां पूर्वं पूर्वम् अपोह्य आकाशस्य उत्तरः ३.१.६४ > न, सर्वगुणानुपलब्धेः ३.१.६५ > एकैकश्येन उत्तरगुणासद्भावात् उत्तरोत्तराणां तदनुपलब्धिः ३.१.६६ > विष्टं हि अपरं परेण ३.१.६७ > न, पार्थिवाप्ययोः प्रत्यक्षत्वात् ३.१.६८ > पूर्वपूर्वगुणोत्कर्षात् तत्तत् प्रधानम् ३.१.६९ > तद्ध्यवस्थानं तु भूयस्त्वात् ३.१.७० > सगुणानाम् इन्द्रियभावात् ३.१.७१ > तेन एव तस्य अग्रहणात् च ३.१.७२ > न, शब्दगुणोपलब्धेः ३.१.७३ > तदुपलब्धिः इतरेतरद्रव्यगुणवैधर्म्यात् इति न्यायसूत्रे तृतीयाध्यायस्य प्रथमम् आह्निकम् द्वितीयम् आह्निकम् [बुद्धेरनित्यत्वपरीक्षाप्रकरणम्(१-९)] ३.२.१ > कर्माकाशसाधर्म्यात् संशयः ३.२.२ > विषयप्रत्यभिज्ञानात् ३.२.३ > साध्यसमत्वात् अहेतुः ३.२.४ > न, युगपत् अग्रहणात् ३.२.५ > अप्रत्यभिज्ञाने च विनाशप्रसङ्गः ३.२.६ > क्रमवृत्तित्वात् अयुगपत् ग्रहणम् ३.२.७ > अप्रत्यभिज्ञानं च विषयान्तरव्यासङ्गात् ३.२.८ > न, गत्यभावात् ३.२.९ > स्फटिकान्यत्वाभिमानवत् तदन्यत्वाभिमानः [क्षणभङ्गपरीक्षाप्रकरणम्(१०-१७)] ३.२.१० > स्फटिके अपि अपरापरोत्पत्तेः क्षणिकत्वात् व्यक्तीनाम् अहेतुः ३.२.११ > नियमहेत्वभावात् यथादर्शनम् अभ्यनुज्ञा ३.२.१२ > न, उत्पत्तिविनाशकारणोपलब्धेः ३.२.१३ > क्षीरविनाशे कारणानुपलब्धिवत् दध्युत्पत्तिवत् च तदुत्पत्तिः ३.२.१४ > लिङ्गतः ग्रहणात् न अनुपलब्धिः ३.२.१५ > न पयसः परिणाम-गुणान्तरप्रादुर्भावात् ३.२.१६ > व्यूहान्तरात् द्रव्यान्तरोत्पत्तिदर्शनं पूर्वद्रव्यनिवृत्तेः अनुमानम् ३.२.१७ > क्वचित् विनाशकारणानुपलब्धेः क्वचित् च उपलब्धेः अनेकान्तः ३.२.१८ > न इन्द्रियार्थयोः, तद्विनाशे अपि ज्ञानावस्थानात् ३.२.१९ > युगपत् ज्ञानानुपलब्धेः च न मनसः ३.२.२० > तत् आत्मगुणत्वे अपि तुल्यम् ३.२.२१ > इन्द्रियैः मनसः सन्निकर्षाभावात् तदनुत्पत्तिः ३.२.२२ > न, उत्पत्तिकारणानपदेशात् ३.२.२३ > विनाशकारणानुपलब्धेः च अवस्थाने तन्नित्यत्वप्रसङ्गः ३.२.२४ > अनित्यत्वग्रहात् बुद्धेः बुद्ध्यन्तरात् विनाशः शब्दवत् ३.२.२५ > ज्ञानसमवेतात्मप्रदेशसन्निकर्षात् मनसः स्मृत्युत्पत्तेः न युगपत् उत्पत्तिः ३.२.२६ > न, अन्तः-शरीरवृत्तित्वात् मनसः ३.२.२७ > साध्यत्वात् अहेतुः ३.२.२८ > स्मरतः शरीरधारणोपपत्तेः अप्रतिषेधः ३.२.२९ > न, तदाशुगतित्वान्मनसः ३.२.३० > न, स्मरणकालानियमात् ३.२.३१ > आत्मप्रेरण-यदृच्छा-ज्ञताभिः च न संयोगविशेषः ३.२.३२ > व्यासक्तमनसः पादव्यथनेन संयोगविशेषेण समानम् ३.२.३३ > प्रणिधानलिङ्गादिज्ञानानाम् अयुगपद्भावात् अयुगपत्स्मरणम् ३.२.३४ > ज्ञस्य इच्छाद्वेषनिमित्तत्वात् आरम्भनिवृत्त्योः ३.२.३५ > तल्लिङ्गत्वात् इच्छाद्वेषयोः पार्थिवाद्येषु अप्रतिषेधः ३.२.३६ > परश्वादिषु आरम्भनिवृत्तिदर्शनात् ३.२.३७ > नियमानियमौ तु तद्विशेषकौ ३.२.३८ > यथोक्तहेतुत्वात् पारतन्त्र्यात् अकृताभ्यागमात् च न मनसः ३.२.३९ > परिशेषात् यथोक्तहेतूपपत्तेः च ३.२.४० > स्मरणं तु आत्मनः ज्ञस्वाभाव्यात् ३.२.४१ > प्रणिधान-निबन्धाभ्यास-लिङ्ग-लक्षण-सादृश्य-परिग्रहाश्रयाश्रित सम्बन्धानन्तर्य-वियोगैककार्य-विरोधातिशय-प्राप्ति-व्यवधान-सुख-दुःखेच्छा द्वेष-भयार्थित्व-क्रियाराग-धर्माधर्मनिमित्तेभ्यः ३.२.४२ > कर्मानवस्थायिग्रहणात् ३.२.४३ > अव्यक्तग्रहणम् अनवस्थायित्वात् विद्युत्सम्पाते रूपाव्यक्तग्रहणवत् ३.२.४४ > हेतूपादानात् प्रतिषेद्धव्याभ्यनुज्ञा ३.२.४५ > न प्रदीपार्चिःसन्तत्यभिव्यक्तग्रहणवत् तद्ग्रहणम् ३.२.४६ > द्रव्ये स्वगुणपरगुणोपलब्धेः संशयः ३.२.४७ > यावच्छरीरभावित्वात् रूपादीनाम् ३.२.४८ > न, पाकजगुणान्तरोत्पत्तेः ३.२.४९ > प्रतिद्वन्द्विसिद्धेः पाकजानाम् अप्रतिषेधः ३.२.५० > शरीरव्यापित्वात् ३.२.५१ > न, केशनखादिषु अनुपलब्धेः ३.२.५२ > त्वक्पर्यन्तत्वात् शरीरस्य केशनखादिषु अप्रसङ्गः ३.२.५३ > शरीरगुणवैधर्म्यात् ३.२.५४ > न, रूपादीनाम् इतरेतरवैधर्म्यात् ३.२.५५ > ऐन्द्रियकत्वात् रूपादीनाम् अप्रतिषेधः ३.२.५६ > ज्ञानायौगपद्यात् एकम् मनः ३.२.५७ > न, युगपत् अनेकक्रियोपलब्धेः ३.२.५८ > अलातचक्रदर्शनवत् तदुपलब्धिः आशुसञ्चारात् ३.२.५९ > यथोक्तहेतुत्वात् च अणु ३.२.६० > पूर्वकृतफलानुबन्धात् तदुत्पत्तिः ३.२.६१ > भूतेभ्यः मूर्त्युपादानवत् तदुपादानम् ३.२.६२ > न, साध्यसमत्वात् ३.२.६३ > न, उत्पत्तिनिमित्तत्वात् मातापित्रोः ३.२.६४ > तथा आहारस्य ३.२.६५ > प्राप्तौ च अनियमात् ३.२.६६ > शरीरोत्पत्तिनिमित्तवत् संयोगोत्पत्तिनिमित्तं कर्म ३.२.६७ > एतेन अनियमः प्रत्युक्तः ३.२.६८ > तत् अदृष्टकारितम् इति चेत् पुनः तत्प्रसङ्गः अपवर्गे ३.२.६९ > मनःकर्मनिमित्तत्वात् च संयोगाव्युच्छेदः ३.२.७० > नित्यत्वप्रसङ्गः च प्रायणानुपपत्तेः ३.२.७१ > अणुश्यामतानित्यत्ववत् एतत् स्यात् ३.२.७२ > न, अकृताभ्यागमप्रसङ्गात् इति न्यायसूत्रे तृतीयाध्यायस्य द्वितीयम् आह्निकम्समाप्तः च अयम् तृतीयः अध्यायः |
अथ चतुर्थः अध्यायःप्रथमम् आह्निकम् [प्रवृत्तिदोषसामान्यपरीक्षाप्रकरणम्(१-२)] ४.१.१ > प्रवृत्तिर्यथोक्ता ४.१.२ > तथा दोषाः ४.१.३ > त्रैराश्यं रागद्वेषमोहार्थान्तर्भावात् ४.१.४ > न, एकप्रत्यनीकभावात् ४.१.५ > व्यभिचारादहेतुः ४.१.६ > तेषां मोहः पापीयान्, नामूढस्येतरोत्पत्तेः ४.१.७ > निमित्तनैमित्तिकभावादर्थान्तरभावो दोषेभ्यः ४.१.८ > न दोषलक्षणावरोधान्मोहस्य ४.१.९ > निमित्तनैमित्तिकोपपत्तेश्च तुल्यजातीयानामप्रतिषेधः ४.१.१० > आत्मनित्यत्वे प्रेत्यभावसिद्धिः ४.१.११ > व्यक्ताद् व्यक्तानाम्, प्रत्यक्षप्रामाण्यात् ४.१.१२ > न, घटाद् घटनिष्पत्तेः ४.१.१३ > व्यक्ताद् घटनिष्पत्तेरप्रतिषेधः ४.१.१४ > अभावाद् भावोत्पत्तिः, नानुपमृद्य प्रादुर्भावात् ४.१.१५ > व्याघातादप्रयोगः ४.१.१६ > न, अतीतानागतयोः कारकशब्दप्रयोगात् ४.१.१७ > न, विनष्टेभ्यो ऽनिष्पत्तेः ४.१.१८ > क्रमनिर्देशादप्रतिषेधः ४.१.१९ > ईश्वरः कारणम्, पुरुषकर्माफल्यदर्शनात् ४.१.२० > न, पुरुषकर्माभावे फ्लानिष्पत्तेः ४.१.२१ > तत्कारितत्वाद् अहेतुः ४.१.२२ > अनिमित्ततो भावोत्पत्तिः, कण्टकतैक्ष्ण्यादिदर्शनात् ४.१.२३ > अनिमित्तनिमित्तत्वान्ननिमित्ततः ४.१.२४ > निमित्तनिमित्तयोरर्थान्तरभावादप्रतिषेधः ४.१.२५ > सर्वम् अनित्यम्, उत्पत्तिविनाशधर्मकत्वात् ४.१.२६ > न, अनित्यतानित्यत्वात् ४.१.२७ > तदनित्यत्वमग्नेर्दाह्यं विनाश्यानुविनाशवत् ४.१.२८ > नित्यस्याप्रत्याख्यानम्, यथोपलब्धि व्यवस्थानात् ४.१.२९ > सर्वं नित्यम्, पञ्चभूतनित्यत्वात् ४.१.३० > न, उत्पत्तिविनाशकारणोपलब्धेः ४.१.३१ > तल्लक्षणावरोधादप्रतिषेधः ४.१.३२ > न, उत्पत्तितत्कारणोपलब्धेः ४.१.३३ > न, व्यवस्थानुपपत्तेः ४.१.३४ > सर्वं पृथग्, भावलक्षणपृथक्त्वात् ४.१.३५ > न, अनेकलक्षणैरेकभावनिष्पत्तेः ४.१.३६ > लक्षणव्यवस्थानादेवाप्रतिषेधः ४.१.३७ > सर्वम् अभावो भावेष्वितरेतराभावसिद्धेः ४.१.३८ > न, स्वभावसिद्धेर्भावानाम् ४.१.३९ > न स्वभावसिद्धिः, आपेक्षिकत्वात् ४.१.४० > व्याहतत्वादयुक्तम् ४.१.४१ > संख्यैकान्तासिद्धिः, कारणानुपपत्त्युपपत्तिभ्याम् ४.१.४२ > न, कारणवयवाभावात् ४.१.४३ > निरवयवत्वादहेतुः ४.१.४४ > सद्यः कालान्तरे च फलनिष्पत्तेः संशयः ४.१.४५ > न सद्यः, कालान्तरोपभोग्यत्वात् ४.१.४६ > कालान्तरेणानिष्पत्तिहेतुर्विनाशात् ४.१.४७ > प्राङ्निष्पत्तेर्वृक्षफलवत् तत्स्यात् ४.१.४८ > नासन्न सन्न सदसत्, सदसतोर्वैधर्मयात् ४.१.४९ > उत्पादव्ययदर्शनात् ४.१.५० > बुद्धिसिद्धं तु तदसत् ४.१.५१ > आश्रयव्यतिरेकाद् वृक्षफलोत्पत्तिवद् इत्यहेतुः ४.१.५२ > प्रीतेरात्माश्रयत्वादप्रतिषेधः ४.१.५३ > न पुत्रपशुस्त्रीपरिच्छेदहिरण्यान्नादिफलनिर्द्देशात् ४.१.५४ > तत्सम्बन्धात् फलनिष्पत्तेस्तेषु फलवदुपचारः ४.१.५५ > विविधवाधनायोगाद् दुःखमेव जन्मोत्पत्तिः ४.१.५६ > न, सुखस्याप्यन्तरालनिष्पत्तेः ४.१.५७ > भाधनानिवृत्तेर्वेदयतः प्र्येषणदोषादप्रतिषेधः ४.१.५८ > दुःखविकल्पे सुखाभिमानाच्च ४.१.५९ > ऋणक्लेशप्रवृत्त्यनुब्न्धादपवर्गाभावः ४.१.६० > प्रधानशब्दानुपपत्तेर्गुणशब्देनानुवादो निन्दाप्रशंसोपपत्तेः ४.१.६१ > समारोपणादात्मन्यप्रतिषेधः ४.१.६२ > पात्रचयान्तानुपपत्तेश्च फलाभावः ४.१.६३ > सुषुप्तस्य स्वप्नादर्शने क्लेशाभावादपवर्गः ४.१.६४ > न प्रवृत्तिः प्रतिसन्धानाय हीनक्लेशस्य ४.१.६५ > न, क्लेशसन्ततेः स्वाभाविकत्वात् ४.१.६६ > प्रागुत्पत्तेरभावानित्यत्ववत् स्वाभाविके ऽप्यनित्यत्वम् ४.१.६७ > अणुश्यामतानित्यत्ववद् वा ४.१.६८ > न, सङ्कल्पनिमित्तत्वाच्च रागादीनाम् द्वितीयम् आह्निकम् [तत्त्वज्ञानोत्पत्तिप्रकरणम्(१-३)] ४.२.१ > दोषनिमित्तानां तत्त्वज्ञानादहङ्कारनिवृत्तिः ४.२.२ > दोषनिमित्तं रूपादयो विषयः सङ्कल्पकृताः ४.२.३ > तन्निमित्तं त्ववयव्यभिमानः ४.२.४ > विद्याविद्याद्वैविध्यात् संशयः ४.२.५ > तदसंशयः, पूर्वहेतुप्रसिद्धत्वात् ४.२.६ > वृत्त्यनुपपत्तेरपि तर्हि न संशयः ४.२.७ > कृत्स्नैकदेशावृत्तित्वादवयवानामवयव्यभावः ४.२.८ > तेषु चावृत्तेरवयव्यभावः ४.२.९ > पृथक् चावयवेभ्यो ऽवृत्तेः ४.२.१० > न चावयव्यवयवाः ४.२.११ > एकस्मिन् भेदाभावाद् भेदशब्दप्रयोगानुपपत्तेरप्रश्नः ४.२.१२ > अवयवान्तरभावे ऽप्यवृत्तेरहेतुः ४.२.१३ > केशसमूहे तैमिरिकोपलब्धिवत् तदुपलब्धिः ४.२.१४ > स्वविषयानतिक्रमेणेन्द्रियस्य पटुमन्दभावाद्विषयग्रहणस्य तथाभाबो नाविषये प्रवृत्तिः ४.२.१५ > अवयवावयविप्रसङ्गश्चैवमाप्रलयात् ४.२.१६ > न प्रलयो ऽणुसद्भावात् ४.२.१७ > परं वा त्रुटेः ४.२.१८ > आकाशव्यतिभेदात् तदनुपपत्तिः ४.२.१९ > आकाशासर्वगतत्वं वा ४.२.२० > अन्तर्बहिश्च कार्यद्रव्यस्य कारणान्तरवचनादकार्ये तदभावः ४.२.२१ > शब्दसंयोगविभावाच्च सर्वगतम् ४.२.२२ > अव्यूहाविष्टम्भविभुत्वानि चाकाशधर्माः ४.२.२३ > मूर्तिमतां च संस्थानोपपत्तेरवयवसद्भावः ४.२.२४ > संयोगोपपत्तेश्च ४.२.२५ > अनवस्थाकारित्वादनवस्थानुपपत्तेश्चाप्रतिषेधः ४.२.२६ > बुद्ध्या विवेचनात्तु भावानां याथात्म्यानुपलब्धिस्तन्त्वपकर्षणे पटसद्भावानुपलब्धिवत् तदनुपलब्धिः ४.२.२७ > व्याहतत्वादहेतुः ४.२.२८ > तदाश्रयत्वादपृथग्ग्रहणम् ४.२.२९ > प्रमाणतश्चार्थप्रतिपत्तेः ४.२.३० > प्रमाणानुपपत्त्युपपत्तिभ्याम् ४.२.३१ > स्वप्नविषयाभिमानवदयं प्रमाणप्रमेयाभिमानः ४.२.३२ > मायागन्धर्वनगरमृगतृष्णिकावद्वा ४.२.३३ > हेत्वभावादसिद्धिः ४.२.३४ > स्मृतिसंकल्पवच्च स्वप्नविषयाभिमानः ४.२.३५ > मिथ्योपलब्धेर्विनाशस्तत्त्वज्ञानात्स्वप्नविषयाभिमानप्रणाशवत् प्रतिबोधे ४.२.३६ > बुद्धेश्चैवं निमित्तसद्भावोपलम्भात् ४.२.३७ > तत्त्वप्रधानभेदाच्च मिथ्याबुद्धेर्द्वैविध्योपपत्तिः [तत्त्वज्ञानविवृद्धिप्रकरणम्(३८-४९)] ४.२.३८ > समाधिविशेषाभ्यासात् ४.२.३९ > न, अर्थविशेषप्रावल्यात् ४.२.४० > क्षुदादिभिः प्रवर्तनाच्च ४.२.४१ > पूर्वकृतफलानुबन्धात् तदुत्पत्तिः ४.२.४२ > अरण्यगुहापुलिनादिषु योगाभ्यासोपदेशः ४.२.४३ > अपवर्गे ऽप्येवं प्रसङ्गः ४.२.४४ > न, निष्पन्नावश्यम्भावित्वात् ४.२.४५ > तदभावश्चापवर्गे ४.२.४६ > तदर्थं यमनियमाभ्यासात्मसंस्कारो योगाच्चाध्यात्मविध्युपायैः ४.२.४७ > ज्ञानग्रहणाभ्यासस्तद्विद्यैश्च सह संवादः ४.२.४८ > तं शिष्यगुरुसब्रह्मचारिविशिष्टश्रेयो ऽर्थिभिरनसूयिभिरभ्युपेयात् ४.२.४९ > प्रतिपक्षहीनम् अपि वा प्रयोजनार्थमर्थित्वे ४.२.५० > तत्त्वाध्यवसायसंरक्षणार्थं जल्पवितण्डे, बीजप्ररोहसंरक्ष्णार्थं कण्टकशाखावरणवत् ४.२.५१ > ताभ्यां विगृह्यकथनम् |
अथ पञ्चमः अध्यायःप्रथमम् आह्निकम् [सत्प्रतिपक्षदेशनाभासप्रकर्णम्(१-३)] {सिद्धान्त-सूत्र} ५.१.२ > साधर्म्यवैधर्म्याभ्यामुपसंहारे तद्धर्मविपर्ययोपपत्तेः साधर्म्यवैधर्म्यसमौ ५.१.३ > गोत्वाद् गोसिद्धिवत् तत्सिद्धिः ५.१.४ > साध्यदृष्टान्तयोर्धर्मविकल्पादुभयसाध्यत्वाच्चोत्कर्षापकर्ष वर्ण्यविकल्पसाध्यसमाः ५.१.५ > किञ्चित्साधर्म्यादुपसंहारसिद्धेर्वैधर्म्यादप्रतिषेधः ५.१.६ > साध्यातिदेशाच्च दृष्टान्तोपप्त्तेः ५.१.७ > प्राप्य साध्यमप्राप्य वा हेतोः प्राप्त्याविशिष्टत्वादप्राप्त्यासाधाक त्वाच्च प्राप्त्यप्राप्तिसमौ ५.१.८ > घटादिनिष्पत्तिदर्शनात् पीडने चाभिचारादप्रतिषेधः ५.१.९ > दृष्टान्तस्य कारणानपदेशात् प्रत्यवस्थानाच्च प्रतिदृष्टान्तेन प्रसङ्गप्रतिदृष्टान्तसमौ ५.१.१० > प्रदीपोपादानप्रसङ्गनिवृत्तिवत् तद्विनिवृत्तिः ५.१.११ > प्रतिदृष्टान्तहेतुत्वे च नाहेतुर्दृष्टान्तः ५.१.१२ > प्रागुत्पत्तेः कारणाभावादनुत्पत्तिसमः ५.१.१३ > तथाभावादुत्पन्नस्य कारणोपपत्तेर्न कारणप्रतिषेधः ५.१.१४ > सामान्यदृष्टान्तयोरैन्द्रियकत्वे समाने नित्यानित्यसाधर्म्यात् संशयसमः ५.१.१५ > साधर्म्यात्संशये न संशयो वैधर्म्यादुभयथा वा संशये ऽत्यन्त संशयप्रसङ्गो नित्यत्वानभ्यूपगमाच्च सामान्यस्याप्रतिषेधः ५.१.१६ > उभयसाधर्म्यात् प्रक्रियासिद्धेः प्रकरणसमः ५.१.१७ > प्रतिपक्षात् प्रकरणसिद्धेः प्रतिषेधानुपपत्तिः प्रतिपक्षोपपत्तेः ५.१.१८ > त्रैकाल्यासिद्धेर्हेतोरहेतुसमः ५.१.१९ > न हेतुतः साध्यसिद्धेस्त्रैकाल्यास्सिद्धिः ५.१.२० > प्रतिषेधानुपपत्तेश्च प्रतिषेद्धव्याप्रतिषेधः ५.१.२१ > अर्थापत्तितः प्रतिपक्षसिद्धेरर्थापत्तिसमः ५.१.२२ > अनुक्तस्यार्थापत्तेः पक्षहानेरुपपत्तिरनुक्तत्वादनैकान्तिकत्वाच् चार्थापत्तेः ५.१.२३ > एकधर्मोपपत्तेरविशेषे सर्वाविशेषप्रसङ्गात्सद्भाबोपपत्तेर्- अविशेषसमः {सिद्धान्त-सूत्र} ५.१.२४ > क्वचिद्धर्मानुपपत्तेः क्वचिच्चोपपत्तेः प्रतिषेधाभावः ५.१.२५ > उभयोकारणोपपत्तेरुपपत्तिसमः ५.१.२६ > उअपपत्तिकारणाभ्यनिञ्जानादप्रतिषेधः ५.१.२७ > निर्दिष्टकारणाभावे ऽप्युपलम्भादुपलब्धिसमः ५.१.२८ > कारणान्तरादपि तद्धर्मोपपत्तेरप्रतिषेधः ५.१.२९ > तदनुपलब्धेरनुपलम्भादभावसिद्धौ तद्विपरीतोपपत्तेर् अनुपलब्धिसमः ५.१.३० > अनुपलम्भात्मकत्वादनुपलब्धेरहेतुः ५.१.३१ > ज्ञानविकल्पानां च भावाभावसंवेदनादध्यात्मम् ५.१.३२ > साधर्म्यात्तुल्यधर्मोपपत्तेः सर्वानित्यत्वप्रसङ्गादनित्यसमः ५.१.३३ > साधर्म्यादसिद्धेः प्रतिषेधासिद्धिः प्रतिषेध्यसाधर्म्याच्च ५.१.३४ > दृष्टान्ते च साध्यसाधनभावेन प्रज्ञातस्य धर्मस्य तस्य्स चोभयथा भावान्नाविशेषः ५.१.३५ > नित्यमनित्यभावादनित्ये नित्यत्वोपपत्तेर्नित्यसमः ५.१.३६ > प्रतिषेध्ये नित्यमनित्यभावादनित्ये ऽनित्यत्वोपपत्तेः प्रतिषेधाभावः ५.१.३७ > प्रयत्नकार्यानेकत्वात् कार्यसमः ५.१.३८ > कार्यान्यत्वे प्रयत्नाहेतुत्वमनुपलब्धिकारणोपपत्तेः ५.१.३९ > प्रतिषेधे ऽपि समानदोषः ५.१.४० > सर्वत्रैवम् ५.१.४१ > प्रतिषेधविप्रतिषेधे प्रतिषेधदोषवद् दोषः ५.१.४२ > प्रतिषेधं सदोषमभ्युपेत्य प्रतिषेधविप्रतिषेधे समानो दोषप्रसङ्गो मतानुज्ञा ५.१.४३ > स्वपक्षलक्षनापेक्षोपपत्त्युपसंहारे हेतुनिर्देशे परपक्षदोषा भ्युपगमात् समानो दोष इति द्वितीयम् आह्निकम् {निग्रहस्थान-उद्देश-सूत्रम्} ५.२.२ > प्रतिदृष्टान्तधर्माभ्यनुज्ञा स्वदृष्टान्ते प्रतिज्ञाहानिः ५.२.३ > प्रतिज्ञातार्थप्रतिषेधधर्मविकल्पात् तदर्थनिर्देशः प्रतिज्ञान्तर. ५.२.४ > प्रतिज्ञाहेत्वोर्विरोधः प्रतिज्ञाविरोधः ५.२.५ > पक्षप्रतिषेधे प्रतिज्ञातार्थापनयनं प्रतिज्ञासन्न्यासः ५.२.६ > अविशेषोक्ते हेतौ प्रतिषिद्धे विशेषमिच्छतो हेत्वन्तरम् ५.२.७ > प्रकृतादर्थादप्रतिसम्ब्द्धार्थमर्थान्तरम् ५.२.८ > वर्णक्रमनिर्देशवन्निरर्थकम् ५.२.९ > परिषत्प्रतिवादिभ्यां त्रिरभिहितमप्यविज्ञातमविज्ञातार्थम् ५.२.१० > पौर्वापर्यायोगादप्रतिसम्बद्धार्थमपार्थकम् ५.२.११ > अवयवविपर्यासवचनमप्राप्तकालम् ५.२.१२ > हीनमन्यतमेनाप्यवयवेन न्यूनम् ५.२.१३ > हेतूदाहरणाधिकम् अधिकम् ५.२.१४ > शब्दार्थयोः पुनर्वचनं पुनरुक्तम् अन्यत्र अनुवादात् ५.२.१५ > अनुवादे तु अपुनरुक्तं शब्दाभ्यासात् अर्थविशेषोपपत्तेः ५.२.१६ > अर्थात् आपन्नस्य स्वशब्देन पुनर्वचनम् ५.२.१७ > विज्ञातस्य परिषदा त्रिः अभिहितस्य अपि अप्रत्युच्चारणम् अननुभाषणम् ५.२.१८ > अविज्ञातम् च अज्ञानम् ५.२.१९ > उत्तरस्य अप्रतिपत्तिः अप्रतिभा ५.२.२० > कार्यव्यासङ्गात् कथाविच्छेदः विक्षेपः ५.२.२१ > स्वपक्षे दोषाभ्युपगमात् परपक्षे दोषप्रसङ्गः मतानुज्ञा ५.२.२२ > निग्रहस्थानप्राप्तस्य अनिग्रहः पर्यनुयोज्योपेक्षणम् ५.२.२३ > अनिग्रहस्थाने निग्रहस्थानाभियोगः निरनुयोज्यानुयोगः ५.२.२४ > सिद्धान्तम् अभ्युपेत्य अनियमात् कथाप्रसङ्गः अपसिद्धान्तः ५.२.२५ > हेत्वाभासाः च यथोक्ताः इति न्यायसूत्रे पञ्चमाध्यायस्य द्वितीयम् आह्निकम्समाप्तश्चायम् पञ्चमाध्यायः |