पदार्थधर्मसंग्रहः
द्रव्यपदार्थः१.१. प्रणम्य हेतुम् ईश्वरम् मुनिम् कणादम् अन्वतः । |
गुणपदार्थनिरूपणम्७.०.९. ५. अथ गुणपदार्थनिरूपणम् । ८.२.(२.६.२.) संस्कारस् त्रिविधो वेगो भावना स्थितिस्थापकश् च । तत्र वेगो मूर्तिमत्सु पञ्वसु द्रव्येषु निमित्तविशेषापेक्षात् कर्मणो जायते नियतदिक्क्रियाप्रबन्धहेतुः स्पर्शवद् द्रव्यसम्योगविशेषविरोधी क्वचित् कारणगुणपूर्वक्रमेणोत्पद्यते । भावनासंज्ञकस् त्व् आत्मगुणो दृष्टश्रुतानुभूतेष्व् अर्थेषु स्मृतिप्रत्यभिज्ञानहेतुर् भवति ज्ञानमद् अदुह्खादिविरोधी । पट्वभ्यासादरप्रत्ययजः पटुप्रत्ययापेक्षाद् आत्ममनसोः सम्योगाद् आश्चर्ये ऽर्थे पटुः संस्कारातिशयो जायते । यथा दाक्षिणात्य् अस्योष्ट्रदर्शनाद् इति । विद्याशिल्पव्यायामादिष्व् अभ्यस्यमानेषु तस्मिन्न् एवार्थे पूर्वपूर्वसंस्कारम् अपेक्षमाणाद् उत्तरोत्तरस्मात् प्रत्ययाद् आत्ममनसोः सम्योगात् संस्कारातिशयो जायते । प्रयत्नेन मनश् चक्षुषि स्थापयित्वा ऽपूर्वम् अर्थम् दिदूक्षमाणस्य विद्युत् सम्पातदर्शनवद् आदरप्रत्ययः तम् अपेक्षमाणाद् आत्ममनसोः सम्योगात् संस्कारातिशयो जायते । यथा देवह्रदेराजतसौवर्णपद्मदर्शनाद् इति । स्थितिस्थापकस् तु स्पर्शवद् द्रव्येषु वर्तमानो घनावयवसन्निवेशविशिष्टेषु कालान्तरावस्थायिषु स्वाश्रयम् अन्यथाकृतम् यथावस्थितम् स्थापयति । स्थावरजङ्गमविकारेषु धनुह्शाखाशृङ्गदन्तास्थिसूत्रवस्त्रादिषु भुग्नसंवर्तितेषु स्थितिस्थापकस्य कार्यम् संलक्ष्यते । नित्यानित्यत्वनिष्पत्तयोस्यापि गुरुत्ववत् । । ८.२.(२.२.८. धर्मः पुरुषगुणः । कर्तुः प्रियहितमोक्षहेतुः अतीन्दिर्यो ऽन्त्यसुखसंविज्ञानविरोधी पुरुषान्तह्करणसम्योगविशुद्धाभिसन्धिजः वर्णाश्रमिणाम् प्रतिनियतसाधननिमित्तः । तस्य तु साधनानि श्रुतिस्मृतिविहितानि वर्णाश्रमिणाम् सामान्यविशेषभावेनावस्थितानि द्रव्यगुणकर्माणि । तत्र सामान्यानि धर्मे श्रद्धा अहिंसा भूतहितत्वम् सत्यवचनम् अस्तेयम् ब्रहमचर्यम् अनुपधा क्रोधवर्जनम् अभिषेचनम् शिचिद्रव्यसेवनम् विशिष्टदेवताभक्तिर् उपवासो ऽप्रमादश् च । ब्राह्मणक्षचियवैश्यानामिज्याध्ययनदानानि ब्राह्मणस्य विशिष्टानि प्रतिग्रहाध्यापनयाजनानि स्ववर्णविहिताश् च संस्काराः । क्षत्रियस्य सम्यक् प्रजापालनम् असाधुनिग्रहो युद्धेष्व् अनिवर्तनम् स्वकीयाश् च संस्काराः । वैश्यस्य क्रियविक्रयकृषिपशुपालनानि स्वकीयाश् च संस्काराः । शूद्रस्य पूर्ववर्णपारतन्त्र्यम् अमन्त्रिकाश् च क्रियाः । आश्रमिणाम् तु ब्रह्मचारिणो गुरुकुलनिवासिनः स्वशास्त्रविहितानि गुरुशुश्रूषाग्नीन्धनभैक्ष्याचरणानि मधुमांसदिवास्वप्नांजनाभ्यञजनादिवर्जनम् च । ८.२.(२.०.४. अधर्मो ऽप्य् आत्मगुणः । कर्तुर् अहितप्रत्यवायहेतुर् अतीन्द्रियो ऽन्त्यदुह्खसंविज्ञानविरोधी । तस्य तु साधनानि शास्त्रे प्रतिषिद्धानि धर्मसाधनविपरीतानि हिंसानृतस्तेयादीनि विहिताकरणम् प्रमादश् चैतानि दुष्टाभिसन्धिम् चापेक्ष्यात्ममनसोः सम्योगाद् अधर्मस्योत्पत्तिः । । ८.२.(२.०.२.) अविदुषो रागद्वेषवतः प्रवर्तकाद्धर्मात् प्रकृष्टात् स्वल्पाधर्मसहितात् ब्रह्मेन्द्रप्रजापतिपितृमनुष्यलोकेष्व् आशयानुरूपैर् इष्टशरीरेन्द्रियविषयसुखादिभिर् योगो भवति । तथा प्रकृष्टाद् अधर्मात् स्वल्पधर्मसहितात् प्रेततिर्यग्योनिस्थानेष्व् अनिष्टशरीरेन्द्रियविषयदुह्खाभिर् योगो भवति । ८.२.(२.७.१.) शब्दो ऽम्बरगुणः श्रोत्रग्राह्यः क्षणिकः कार्यकारणोभयविरोधी सम्योगविभागशब्दजः प्रदेशवृत्तिः समानासमानजातीयकारणः । स द्विविधो वर्णलक्षणो ध्वनिलक्षणश् च । तत्र अकारादिर्वर्णलक्षणः शङ्खादिनिमित्तो ध्वनिलक्षणश् च । तत्र वर्णलक्षणस्योत्पत्तिर् आत्ममनसोः सम्योगात् स्मृत्यपेक्षाद् वर्णोच्चारणेच्छा तदनन्तरम् प्रयत्नस् तम् अपेक्षमाणाद् आत्मवायुसम्योगाद् वायौ कर्म जायते स चोर्ध्वम् गच्छन् कण्ठादीन् अभिहन्ति ततः स्थानवायुसम्योगापेक्षमाणात् स्थानाकाशसम्योगात् वर्णोत्पत्तिः । ८.०.२.८.९. इति प्रशस्तपादभाष्ये गुणपदार्थः समाप्तः । । |
कर्मपदार्थनिरूपणम्९.०.२.०.१. अथ कर्मपदार्थनिरूपणम् । ९.२.१.२.१.१.) तत्रोत्क्षेपणम् शरीरावयवेषु तत् सम्बद्धेषु च यद् ऊर्ध्वभागिभिः प्रदेशैः सम्योगकारणम् अधोभाग्भिश् च प्रदेशैः विभागकारणम् कर्मोत्पद्यते गुरुत्वप्रयत्नसम्योगेभ्यस् तद् उत्क्षेपणम् । । ९.३.२.६.१. अथ गमनत्वम् किम् कर्मत्वपर्यायः आहोस्विद् अपरम् सामान्यम् इति । कुतस् ते संशयः । समस् तेषूत्क्षेपणादिषु कर्मप्रत्ययवद् गमनप्रत्ययाविशेषात् कर्मत्वपर्याय इति गम्यते । यतस् तूत्क्षेपणादिवद् विशेषसंज्ञयाभिहितम् तस्माद् अपरम् सामान्यम् स्याद् इति । न । कर्मत्वपर्यायत्वात् । आत्मत्वपुरुषत्ववत् कर्मत्वपर्याय एव गमनत्वम् इति । अथ विशेषसंज्ञया किम् अर्थम् गमनग्रहणम् कृतम् इति न भ्रमणाद्यवरोधार्थत्वात् । उत्क्षेपणादिशब्दैर् अनवरुद्धानाम् भ्रमणपतनस्पन्दनादीनाम् अवरोधार्थम् गमनग्रहणम् कृतम् इति । अन्यथा हि यान्य् एव चत्वारि विशेषसंज्ञयोक्तानि तान्य् एव सामान्यविशेषसंज्ञाविषयाणि प्रसज्येरन्न् इति । अथवा अस्त्व् अपरम् सामान्यम् गमनत्वम् अनियतदिग्देशसम्योगविभागकारणेषु भ्रमणादिष्व् एव वर्तते गमनशब्दश् चोत्क्षेपणादिषु भाक्तो द्रष्टव्यः स्वाश्रयसम्योगविभागकर्तृत्वसामान्याद् इति । । ९.४.२.७.१.) सत् प्रत्ययकर्मविधिः । कथम् चिकीर्षितेषु यज्ञाध्ययनदानकृष्यादिषु यदा हस्तम् उत्क्षेप्तुम् इच्छत्य् अपक्षेप्तुम् वा तदा हस्तवत्य् आत्मप्रदेशे प्रयत्नः संजायते तम् प्रयत्नम् गुरुत्वा चोपेक्षमाणाद् आत्महस्तसम्योगाद् धस्ते कर्म भवति हस्तवत् सर्वशरीरावयवेषु पादादिषु शरीरे चेति । तत् सम्बद्धेष्व् अपि कथम् यदा हस्तेन मुसलम् गृहीत्वेच्छाम् करोति उत्क्षिपामि हस्तेन मुसलम् इति तदनन्तरम् प्रयत्नस् तम् अपेक्षमणाद् आत्महस्तसम्योगाद् यस्मिन्न् एव काले हस्ते उत्क्षेपणकर्मोत्पद्यते तस्मिन्न् एव काले तम् एव प्रयत्नम् अपेक्षमाणाद् धस्तमुसलसम्योगात् मुसलए ऽपि कर्मेति । ९.४.३.०.१.) पणिम् उक्तेषु गमनविधिः । कथम् यदा तोमरम् हस्तेन गृहीत्वोत्क्षेप्तुम् इच्छोत्पद्यते तदनन्तरम् प्रयत्नः तम् अपेक्षमाणाद् यथोक्तात् सम्योगद्वयात् तोमरहस्तयोर् युगपद् आकर्षणकर्मणी भवतः । प्रसारिते च हस्ते तदाकर्षणार्थः प्रयत्नो निवर्तते तदनन्तरम् तिर्यग् ऊर्ध्व दूरम् आसन्नम् वा क्षिपामीतीच्छा संजायते तदनन्तरम् तद्नुरूपः प्रयत्नस् तम् अपेक्षमाणस् तोमरहस्तसम्योगो नोदनाख्यः तस्मात् तोमरे करंतोपन्नम् नोदनापेक्षम् तस्मिन् संस्कारम् आरभते ततः संस्कारनोदनाभ्याम् तावत् कर्माणि भवन्ति यावद् धस्ततोमरविभाग इति ततो विभागान् नोदने निवृत्ते संस्काराद् ऊर्ध्वम् तिर्यग् दूरम् आसन्नम् वा प्रयत्नानुरूपाणि कर्माणि भवन्त्य् आपतनाद् इति । । ९.४.३.१.१.) तथा यन्त्रम् उक्तेषु गमन्विधिः । कथम् यो बलवान् कृतव्यायामो वामेन करेण धनुर् विष्टभ्य दक्षिणेन शरम् सन्धाय सशराम् ज्याम् मुष्टिना गृहीत्वा आकर्षणेच्छाम् करोति सज्येष्व् आकर्षयाम्य् एतद् धनुर् इति । तदनन्तरम् प्रयत्नस् तम् अपेक्षमाणाद् आत्महस्तसम्योगाद् आकर्षणकर्म हस्ते यदैवोत्पद्यते तदैव तम् एव प्रयत्नम् अपेक्षमाणाद् धस्तज्याशरसम्योगाद् ज्यायाम् शरे च कर्म प्रयत्नविशिष्टहस्तज्याशरसम्योगम् अपेक्षमाणाभ्याम् ज्याकोटिसम्योगाभ्याम् कर्मणी भवतो धनुष्कोट्योर् इत्य् एतत् सर्वम् युगपत् । एवम् आकर्णाद् आकृष्टे धनुषि नातः परम् अनेन गन्तव्यम् इति यज् ज्ञानम् ततस् तद् आकर्शणार्थस्य प्रयत्नस्य विनाशस् ततः पुनर् मोक्षणेच्छा संजायते तदनन्तरम् प्रयत्नस् तम् अपेक्षमाणाद् आत्माङ्गुलिसम्योगाद् अङ्गुलिकर्म तस्माज् ज्याङ्गुलिविभागः ततो विभागात् सम्योगविनाशः तस्मिन् विनष्टे प्रतिबन्धकाभावाद् यदा धणुषि वर्तमानः स्थितिस्थापकः संस्कारो मण्डलीभूतम् धनुर् यथावस्थितम् स्थापयति तदा तम् एव संस्कारम् अपेक्षमाणाद् धनुर् ज्यासम्योगाज् ज्यायाम् शरे च कर्मोत्पद्यते तत्स्व् अकारणापेक्षम् ज्यायाम् संस्कारम् करोति तम् अपेक्षमाण इषुज्यासम्योगो नोदनम् तस्माद् इषावाद्यम् कर्म नोदनापेक्षम् इषौ संस्कारम् आरभते । ९.४.३.३.२.) एवम् आत्माधिष्ठितेषु सत्प्रत्ययम् असत्प्रययम् च कर्मोक्तम् । ९.५.३.४.७. यथा पङ्काख्यायाम् पृथिव्याम् । वेगापेक्षो यः सम्योगविशेषा विभागहेतोर् एकस्य कर्मणः कारणम् सो ऽभिघातः । तस्माद् अपि चतुर्षु महाभूतेषु कर्म भवति यथा पाषाणादिषु निष्ठुरे वस्तुन्य् अभिपतितेषु तथा पादादिभिर् नुद्यमानायाम् अभिहन्यमानायाम् वा पङ्काख्यायाम् पृथिव्याम् यः सम्योगो नोदनाभिघातयोर् अन्यतरापेक्ष उभयापेक्षो वा स सम्युक्तसम्योगः तस्माद् अपि पृथिव्यादिषु कर्म भवति । ये च प्रदेशा न नुद्यन्ते नाप्य् अभिहन्यन्ते तेष्व् अपि कर्म जायते । पृथिव्युदकयोर् गुरुत्वविधारकसम्योगप्रयत्नवेगाभावे सति गुरुत्वाद् यद् अधोगमनम् तत् पतनम् । यथा मुसलशरीरादिषूक्तम् । तत्राद्यम् गुरुत्वाद् द्वितीयादीनि तु गुरुत्वसंस्काराभ्याम् । । ९.५.३.५.२.) स्रोतोभूतानाम् अपाम् स्थलान्निम्नाभिसर्पणम् यत् तद् द्रवत्वात् स्यन्दनम् । कथम् समन्ताद् रोधह्सम्योगेनावयविद्रवत्वम् प्रतिबद्धम् अवयवद्रवत्वम् अप्य् एकार्थसमवेतम् तेनैव प्रतिबद्धम् उत्तरोत्तरावयवद्रवत्वानि सम्युक्तसम्योगैः प्रतिबद्धानि । यदा तु मात्रया सेतुभेदः कृतो भवति तदा समन्तात् प्रतिबद्धत्वाद् अवयविद्रवत्वस्य कार्यारम्भो नास्ति सेतुसमीपस्थस्यावयवद्रवत्वस्योत्तरोत्तरेषाम् अवयवद्रवत्वानाम् प्रतिबन्धकाभावाद् वृत्तिलाभः । ततः क्रमशः सम्युक्तानाम् एवाभिसर्पणम् ततः पूर्वद्रव्यविनाशे सति प्रबन्धेनावस्थितैर् अवयविर् दीर्घम् द्रव्यम् आरभ्यते तत्र च कारणगुणपूर्वक्रमेण द्रवत्वम् उत्पद्यते तत्र च कारणानाम् सम्युक्तानाम् प्रबन्धेन गमने यद् अवयविनि कर्मोत्पद्यते तत् स्यन्दनाख्यम् इति । । ९.५.३.७.१.) संस्कारात् कर्म् ऐष्वादिषूक्तम् । तथा चक्रादिष्व् अवयवानाम् पार्श्वतः प्रतिनियतदिग्देशसम्योगविभागोत्पत्तौ यद् अवयविनः संस्काराद् अनियतदिग्देशसम्योगविभागनिमित्तम् कर्म तद् भ्रमणम् इति । एवम् आदयो गमनविशेषाः । । ९.५.३.८.१. प्राणाख्ये तु वायौ कर्म आत्मवायुसम्योगादिच्छाद्वेषपूर्वकप्रयत्नापेक्षाज् जाग्रत इच्छानुविधानदर्शनात् सुप्तस्य तु जीवनपूर्वकप्रयत्नापेक्षात् । आकाशकालदिगात्मनाम् सत्य् अपि द्रव्यभावे निष्क्रियत्वम् सामान्यादिवद् अमूर्तत्वात् । मूर्तिर् असर्वगतद्रव्यपरिमाणम् तद् अनुविधायिनी च क्रिया सा चाकाशादिषु नास्ति तस्मान् न तेषाम् क्रियासम्बन्धो ऽस्तीति । । ९.५.३.८.१.) सविग्रहे मनसीन्द्रियान्तरसम्बन्धार्थम् जाग्रतः कर्म आत्ममनह्सम्योगाद् इच्छाद्वेषपूर्वकप्रयत्नापेक्षात् अन्वभिप्रायम् इन्द्रियान्तरेण विषयान्तरोपलब्धिदर्शनात् । सुप्तस्य प्रबोधकाले जीवनपूर्वकप्रयत्नापेक्षात् । अपसर्पणकर्मोत्पसर्पणकर्म चात्ममनह्सम्योगाद् अदृष्टापेक्षात् । कथम् यदा जीवनसहकारिनोर् धर्माधर्मयोर् उपभोगात् प्रक्षयो ऽन्योन्याभिभवो वा तदा जीवनसहाययोर् वैकल्यात् तत्पूर्वकप्रयत्नवैकल्यात् प्राणनिरोधे सत्य् अन्याभ्याम् लब्धवृत्तिभ्याम् धर्माधर्माभ्याम् आत्ममनह्सम्योगसहायाभ्याम् मृतशरीराद् विभागकारणम् अपसर्पणकर्मोत्पद्यते । |
सामान्यपदार्थनिरूपणम्१. ०.३.१.१.) अथ सामान्यपदार्थनिरूपणम् । १.(३.४.१.) लक्षणभेदाद् एषाम् द्रव्यगुणकर्मभ्यः पदार्थान्तरत्वम् सिद्धम् । अत एव च नित्यत्वम् । द्रव्यादिषु वृत्तिनियमात् प्रत्ययभेदाच् च परस्परतश् चान्यत्वम् । प्रत्येकम् स्वाश्रयेषु लक्षणाविशेषाद् विशेषलक्षणाभावाच् चैकत्वम् । यद्य् अप्य् अपरिच्छिन्नदेशानि सामान्यानि भवन्ति तथाप्य् उपलक्षणनियमात् कारणसामग्रीनियमाच् च स्वविषयसर्वगतानि । अन्तराले च सम्योगसमवायवृत्त्यभावाद् अव्यपदेश्यानीति । । |
विशेषपदार्थनिरूपणम्१. ०.३.१.१.) अथ विशेषपदार्थनिरूपणम् । |
समवायपदार्थनिरूपणम्१. ०.३.४.१.) अथ समवायपदार्थनिरूपणम् । १.(३.६.१. न चासौ सम्योगः सम् बन्धिनाम् अयुतसिद्धत्वात् अन्यतरकर्मादिनिमित्तासम्भवात् विभागान्तत्वादर्शनाद् अधिकरणाधिकर्तव्ययोर् एव भावाद् इति । । १.(३.७.९. ननु यद्य् एकः समवायो द्रव्यगुणकर्मणाम् द्रव्यत्वगुणत्वकर्मत्वादिविशेषणैः सह सम्बन्धैकत्वात् पदार्थसङ्करप्रसङ्ग इति न आधाराधेयनियमात् । यद्य् अप्य् एकः समवायः सर्वत्र स्वतन्त्रः तथाप्य् आधाराधेयनियमो ऽस्ति । कथम् द्रव्येष्व् एव द्रव्यत्वम् गुणेष्व् एव गुणत्वम् कर्मस्व् एव कर्मत्वम् इति । एवम् आदि कस्माद् अन्वयव्यतिरेकदर्शनात् । इहेतिसमवायनिमित्तस्य ज्ञानस्यान्वयदर्शनात् सर्वत्रैकः समवाय इति गम्यते । द्रव्यत्वादिनिमित्तानाम् व्यतिरेकदर्शनात् प्रतिनियमो ज्ञायते । यथा कुण्डदध्नोः सम्योगैकत्वे भवत्य् आश्रयाश्रयिभावनियमः । तथा द्रव्यत्वादीनाम् अपि समवायैकत्वे ऽपि व्यङ्ग्यव्यंजकशक्तिभेदाद् आधाराधेयनियम इति । । |